पञ्चशत् 1 #
द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॑मा॒त्मान्तरि॑क्षꣳ समु॒द्रो योनिः॒ सूर्य॑स्ते॒ चक्षु॒र्वातः॑ प्रा॒णश्च॒न्द्रमाः॒ श्रोत्रं॒ मासा᳚श्चार्द्धमा॒साश्च॒ पर्वा᳚ण्यृ॒तवोङ्गा॑नि संॅवथ्स॒रो म॑हि॒मा ॥
पदपाठः (Word-by-word)
द्यौः । ते॒ । पृ॒ष्ठम् । पृ॒थि॒वी । स॒धस्थ॒मिति॑ स॒ध - स्थ॒म् । आ॒त्मा । अ॒न्तरि॑क्षम् । स॒मु॒द्रः । योनिः॑ । सूर्यः॑ । ते॒ । चक्षुः॑ । वातः॑ । प्रा॒ण इति॑ प्र - अ॒नः । च॒न्द्रमाः᳚ । श्रोत्र᳚म् । मासाः᳚ । च॒ । अ॒द्र्ध॒मा॒सा इत्य॑द्र्ध - मा॒साः । च॒ । पर्वा॑णि । ऋ॒तवः॑ । अङ्गा॑नि । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । म॒हि॒मा ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 द्यौस्ते पृष्ठमिति ॥ सर्वात्मतया अश्वस्स्तूयते । पृष्ठमुपरिभागः । सधस्थं सहस्थानम् । 'सुपि स्थः' इति कः । 'सधमाधस्थयोः' इति सधादेशः ॥
इति भट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये पञ्चमकाण्डे सप्तमप्रश्ने पञ्चविंशोनुवाकः ॥