अनुवाकः 6 TS 5.7.6

(A6)

(पृ॒थि॒वीं ॅय॑च्छ॒ - यथ् स्व॑यमातृ॒ण्णा उ॑प॒धाय॑ - धेह्यृ॒ - चा - ग्नि - श्चि॑नु॒ते - त्रीणि॑ च)

अनुवाकः 6 - Complete Audio

TS 5.7.6 - स्वरानुगामी

0:00 0:00
PS1.1 वयो॒ वा अ॒ग्निर्यद॑ग्नि॒चित् प॒क्षिणो᳚ऽश्नी॒यात्
PS1.2 तमे॒वाग्निम॑द्या॒दा-र्ति॒मार्च्छे᳚थ् संॅवथ्स॒रं ॅव्र॒तं च॑रेथ्
PS1.3 संॅवथ्स॒रꣳ हि व्र॒तं नाति॑
PS1.4 प॒शुर्वा ए॒ष यद॒ग्निर्.हि॒नस्ति॒ खलु॒
PS1.5 वै तं प॒शुर्य ए॑नं
PS1.6 पु॒रस्ता᳚त् प्र॒त्यञ्च॑मुप॒चर॑ति॒ तस्मा᳚त् प॒श्चात्
PS1.7 प्राङु॑प॒चर्य॑ आ॒त्मनोऽहिꣳ॑सायै॒ तेजो॑ऽसि॒ तेजो॑
PS1.8 मे यच्छ पृथि॒वीं ॅय॑च्छ
PS1.9 - [ ]
PS2.1 पृथि॒व्यै मा॑ पाहि॒ ज्योति॑रसि॒
PS2.2 ज्योति॑र्मे यच्छा॒न्तरि॑क्षं ॅयच्छा॒न्तरि॑क्षान्मा पाहि॒
PS2.3 सुव॑रसि॒ सुव॑र्मे यच्छ॒ दिवं॑
PS2.4 ॅयच्छ दि॒वो मा॑ पा॒हीत्या॑है॒ताभि॒र्वा
PS2.5 इ॒मे लो॒का विधृ॑ता॒ यदे॒ता
PS2.6 उ॑प॒दधा᳚त्ये॒षां ॅलो॒कानां॒ ॅविधृ॑त्यै स्वयमातृ॒ण्णा
PS2.7 उ॑प॒धाय॑ हिरण्येष्ट॒का उप॑दधाती॒मे वै
PS2.8 लो॒काः स्व॑यमातृ॒ण्णा ज्योति॒र्॒.हिर॑ण्यं॒ ॅयथ्
PS2.9 स्व॑यमातृ॒ण्णा उ॑प॒धाय॑ - [
PS2.10 ]
PS3.1 हिरण्येष्ट॒का उ॑प॒दधा॑ती॒-माने॒वैताभि॑-र्लो॒का-ञ्ज्योति॑ष्मतः कुरु॒तेऽथो॑ ए॒ताभि॑रे॒वास्मा॑
PS3.2 इ॒मे लो॒काः प्र भा᳚न्ति॒
PS3.3 यास्ते॑ अग्ने॒ सूर्ये॒ रुच॑
PS3.4 उद्य॒तो दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑
PS3.5 ताभिः॒ सर्वा॑भी रु॒चे जना॑य नस्कृधि
PS3.6 या वो॑ देवाः॒ सूर्ये॒
PS3.7 रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑
PS3.8 इन्द्रा᳚ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑
PS3.9 नो धत्त बृहस्पते
PS3.10 रुच॑न्नो धेहि - [ ]
PS4.1 ब्राह्म॒णेषु॒ रुचꣳ॒॒ राज॑सु नस्कृधि
PS4.2 रुचं॑ ॅवि॒श्ये॑षु शू॒द्रेषु॒ मयि॑
PS4.3 धेहि रु॒चा रुचं᳚
PS4.4 द्वे॒धा वा अ॒ग्निं चि॑क्या॒नस्य॒
PS4.5 यश॑ इन्द्रि॒यं ग॑च्छत्य॒ग्निं ॅवा॑
PS4.6 चि॒तमी॑जा॒नं ॅवा॒ यदे॒ता आहु॑तीर्जु॒होत्या॒त्मन्ने॒व
PS4.7 यश॑ इन्द्रि॒यं ध॑त्त ईश्व॒रो
PS4.8 वा ए॒ष आर्ति॒मार्तो॒र्यो᳚ऽग्निं चि॒न्वन्न॑धि॒
PS4.9 क्राम॑ति॒ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒
PS4.10 वन्द॑मान॒ इति॑ वारु॒ण्यर्चा -
PS4.11 [ ]
PS5.1 जु॑हुया॒च्छान्ति॑रे॒वैषा ऽग्नेर्गुप्ति॑रा॒त्मनो॑ ह॒विष्कृ॑तो॒ वा
PS5.2 ए॒ष यो᳚ऽग्निं चि॑नु॒ते यथा॒
PS5.3 वै ह॒विः स्कन्द॑त्ये॒वं ॅवा
PS5.4 ए॒ष स्क॑न्दति॒ यो᳚ऽग्निं चि॒त्वा
PS5.5 स्त्रिय॑मु॒पैति॑ मैत्रावरु॒ण्याऽऽ*मिक्ष॑या यजेत मैत्रावरु॒णता॑-मे॒वोपै᳚त्या॒त्मनो
PS5.6 ऽस्क॑न्दाय॒ यो वा अ॒ग्निमृ॑तु॒स्थां
PS5.7 ॅवेद॒र्तुर्.ऋ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व
PS5.8 ति॑ष्ठति संॅवथ्स॒रो वा अ॒ग्निर्
PS5.9 - [ ]
PS6.1 ऋ॑तु॒स्थास्तस्य॑ वस॒न्तः शिरो᳚ ग्री॒ष्मो
PS6.2 दक्षि॑णः प॒क्षो व॒र्॒.षाः पुच्छꣳ॑
PS6.3 श॒रदुत्त॑रः प॒क्षो हे॑म॒न्तो मद्ध्यं॑
PS6.4 पूर्वप॒क्षा-श्चित॑योऽपरप॒क्षाः पुरी॑ष-महोरा॒त्राणीष्ट॑का ए॒ष वा
PS6.5 अ॒ग्निर्.ऋ॑तु॒स्था य ए॒वं ॅवेद॒र्तुर्.ऋ॑तुरस्मै॒
PS6.6 कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति
PS6.7 प्र॒जाप॑ति॒र्वा ए॒तं ज्यैष्ठ्य॑कामो॒ न्य॑धत्त॒
PS6.8 ततो॒ वै स ज्यैष्ठ्य॑मगच्छ॒द्य
PS6.9 ए॒वं ॅवि॒द्वान॒ग्निं चि॑नु॒ते (
PS6.10 ) ज्यैष्ठ्य॑मे॒व ग॑च्छति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.7.6.1 TS 5.7.6.1
वयो॒ वा अ॒ग्निर्यद॑ग्नि॒चित् प॒क्षिणो᳚ऽश्नी॒यात् तमे॒वाग्निम॑द्या॒दा-र्ति॒मार्च्छे᳚थ् संॅवथ्स॒रं ॅव्र॒तं च॑रेथ् संॅवथ्स॒रꣳ हि व्र॒तं नाति॑ प॒शुर्वा ए॒ष यद॒ग्निर्.हि॒नस्ति॒ खलु॒ वै तं प॒शुर्य ए॑नं पु॒रस्ता᳚त् प्र॒त्यञ्च॑मुप॒चर॑ति॒ तस्मा᳚त् प॒श्चात् प्राङु॑प॒चर्य॑ आ॒त्मनोऽहिꣳ॑सायै॒ तेजो॑ऽसि॒ तेजो॑ मे यच्छ पृथि॒वीं ॅय॑च्छ - [ ]
पदपाठः (Word-by-word)
वयः॑ । वै । अ॒ग्निः । यत् । अ॒ग्नि॒चिदित्य॑ग्नि - चित् । प॒क्षिणः॑ । अ॒श्नी॒यात् । तम् । ए॒व । अ॒ग्निम् । अ॒द्या॒त् । आर्ति᳚म् । एति॑ । ऋ॒च्छे॒त् । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । व्र॒तम् । च॒रे॒त् । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । हि । व्र॒तम् । न । अतीति॑ । प॒शुः । वै । ए॒षः । यत् । अ॒ग्निः । हि॒नस्ति॑ । खलु॑ । वै । तम् । प॒शुः । यः । ए॒न॒म् । पु॒रस्ता᳚त् । प्र॒त्यञ्च᳚म् । उ॒प॒चर॒तीत्यु॑प - चर॑ति । तस्मा᳚त् । प॒श्चात् । प्राङ् । उ॒प॒चर्य॒ इत्यु॑प - चर्यः॑ । आ॒त्मनः॑ । अहिꣳ॑सायै । तेजः॑ । अ॒सि॒ । तेजः॑ । मे॒ । य॒च्छ॒ । पृ॒थि॒वीम् । य॒च्छ॒ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 वयो वा इत्यादि ॥ श्येनाकारत्वात् पक्षी भवत्यग्निः । तस्माद्यदग्निचित्पक्षिणोश्नीयात् पक्षिणो मांसमश्नीयात् तमेवाग्निमद्यात् । तत आर्तिं गच्छेत् म्रियेत । 'उपसर्गादृतिधातौ' इति वृद्धिः । तस्मात्संवत्सरं न मांसमश्नीयादिति विधिः । यस्मात्संवत्सरविधिर्नात्येति ततस्संवत्सरादूर्ध्वमनुवर्त ते । 'ससाधनां क्रियां उपसर्ग आह' इति सोपसर्गक्रियापदमध्याह्रियते । संवत्सरादर्वागेव सर्वव्रतं प्रवर्तते नाति नोर्ध्वम् ॥
2 पशुर्वा इत्यादि ॥ लुप्तोपमेयम् । यथा पशुः प्रतिकूलकारिणमाभिमुख्येन स्थितं हिनस्ति एवमयमग्निः । यस्मादेवं तस्मात्पशुसदृशोयमग्निः तमपि हिनस्ति । कं? य एनं पुरस्तात् पूर्वस्यां दिशि स्थितः प्रत्यङ्मुखः स प्रत्यञ्चं प्रतिमुखावस्थितमुपचरति आरोहणोपधानप्रोक्षणादिकमस्य करोति । तस्मात्पश्चादपरस्यां दिशि स्थितेन प्राङ्मुखोग्निः उपचर्यः उपचरितव्य इति विधिः । आत्मन एवाहिंसार्थम् । छान्दसो यत् ॥
3 प्रथममध्यमोत्तमासु चितिषु हिरण्येष्टका उपदधाति - तेजोसीत्याद्याः ॥ तेजोसि तेजोहेतुस्त्वमसि तेजो मह्यं देहि पृथिवीं च यच्छ विधेयां कुरु । पृथिव्यै ष्टथिवीनिमित्तात् रोगादेः मां पाहि । पञ्चम्यर्थे चतुर्थी, 'उदात्तयणः' इति तस्या उदात्तत्वम् । एवमुत्तरौ व्याख्येयौ । तेजः कीर्तिः । ज्योतिः दीप्तिः । सुवः स्सुखम् ॥
4 अत्रैव ब्राह्मणम् - इत्याहेति ॥ एताभिः हिरण्येष्टकाभिः इमे लोकाः विधृताः एतासामुपधानेनेत्यर्थः ॥
5 यदित्यादि ॥ गतम् । अथो इति । एताभिरिष्टकाभिः ज्योतिष्मन्तः कृता लोका अस्मै यजमानाय प्रकर्षेण भान्ति ॥
6 अथ तिस्रः ऋचः - यास्ते अग्ने इत्याद्याः ॥ प्रथमाद्वितीये 'ध्रुवासि' इत्यत्र व्याख्याते । सर्वा अनुष्टुभः प्रथमा कृतिर्नामानुष्टुप् । तत्र प्रथमा - उद्यतस्तव सूर्ये स्थिता याः रुचः दिवं रश्मिभिः व्याप्तामातन्वन्ति ताभिस्सर्वाभिः रश्मिभिः नो यजमानाय दीप्तिं कुरु ॥
7 द्वितीया - हे देवा या वः सूर्ये स्थिताः सूर्यनिवन्धना रुचः गोष्वश्वेषु या रुचः हे इन्द्राग्नी हे बृहस्पते ताभिः सर्वाभिः अस्मभ्यं रुचं धत्त ॥
8 तृतीया - नः अस्माकं ब्राह्मणेषु रुचं धेहि स्थापय ॥
9 अथात्र ब्राह्मणम् - द्वेधा वा इत्यादि ॥ अग्निं चिक्यानस्य चितवतः यश इन्द्रियं च द्वेधा गच्छति तमग्निं वा गच्छति ईजानं वा अनग्निकेन क्रतुना इष्टवन्तं न सर्वथाऽग्निचितम् । उभयत्र लिटः कानजादेशः । तस्मादेताभिः 'यास्ते अग्ने' इत्यादिभिराहुतिभिः यश इन्द्रियं चात्मनि स्थापयति, ततो नान्यं गच्छति ॥
10 ईश्वरो वा इति ॥ 'ईश्वरे तोसुन्कसुनौ' इति हेतौ शता । चयनेन हेतुना अग्निमतिक्रामति । आरोहति वारुण्या । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम्, 'उदात्तयणः' इति विभक्तेः । एषा सञ्चिताहुतिरग्नेश्शान्तिः अधिक्रमणदोषशान्तिहेतुरात्मनश्च गुप्तिः रक्षाहेतुः ॥
11 हविष्कृतो वा इत्यादि ॥ एष हविष्कृतः निर्वर्तितहवीरूप इति यावत् । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - हविष्कृतः कृतहविः भावप्रधानो हविश्शब्दः । 'जातिकालसुखादिम्यः परवचनम्' इति परनिपातः । हविस्थानीयोऽयमग्निश्चिन्वानः तस्मात् हविस्कन्दनं यथा दोषवदेवमस्याः स्त्रिया उपायनम् । तस्मान्मैत्रावरुण्याऽऽमिक्षया यजेतेति विधिः । अनूबन्ध्यास्थानीयं बिधीयते मैत्रावरुणम् । तामिति । मित्रावरुणयोर्भागो मैत्रावरुणः । तद्भावमुपैति स्कन्दनम् । ततश्च हुतकल्पत्वात् स्कन्दनदोषो नास्यात्मनः । यद्वा - स्वार्थिकोऽण् - मित्रावरुणभावमुपैति । ततश्च तद्भावेन स्थितत्वादात्मनः स्यन्दने दोषाप्रसङ्ग इति ॥
12 यो वा अग्निमित्यादि ॥ ऋतुषु वसन्तादिषु तिष्ठतीत्यृतुस्था । आकारान्तलक्षणः कः । ऋतुरृतुः सर्वः ऋतुः अस्मै यनमानाय कल्पमानः संवर्धमान एति प्रवर्तते । प्रतितिष्ठति यजमानः ॥
13 संवत्सरो वा इदि ॥ गतम् ॥
14 प्रजापतिर्वा इत्यादि ॥ एवमृतुस्थां अग्निं क्रतुषु न्यधत्त । गतमन्यत् ॥
इति पञ्चमे सप्तमे षष्ठोनुवाकः ॥
पञ्चशत् 2 #
TS 5.7.6.2 TS 5.7.6.2
पृथि॒व्यै मा॑ पाहि॒ ज्योति॑रसि॒ ज्योति॑र्मे यच्छा॒न्तरि॑क्षं ॅयच्छा॒न्तरि॑क्षान्मा पाहि॒ सुव॑रसि॒ सुव॑र्मे यच्छ॒ दिवं॑ ॅयच्छ दि॒वो मा॑ पा॒हीत्या॑है॒ताभि॒र्वा इ॒मे लो॒का विधृ॑ता॒ यदे॒ता उ॑प॒दधा᳚त्ये॒षां ॅलो॒कानां॒ ॅविधृ॑त्यै स्वयमातृ॒ण्णा उ॑प॒धाय॑ हिरण्येष्ट॒का उप॑दधाती॒मे वै लो॒काः स्व॑यमातृ॒ण्णा ज्योति॒र्॒.हिर॑ण्यं॒ ॅयथ् स्व॑यमातृ॒ण्णा उ॑प॒धाय॑ - [ ]
पदपाठः (Word-by-word)
पृ॒थि॒व्यै । मा॒ । पा॒हि॒ । ज्योतिः॑ । अ॒सि॒ । ज्योतिः॑ । मे॒ । य॒च्छ॒ । अ॒न्तरि॑क्षम् । य॒च्छ॒ । अ॒न्तरि॑क्षात् । मा॒ । पा॒हि॒ । सुवः॑ । अ॒सि॒ । सुवः॑ । मे॒ । य॒च्छ॒ । दिव᳚म् । य॒च्छ॒ । दि॒वः । मा॒ । पा॒हि॒ । इति॑ । आ॒ह॒ । ए॒ताभिः॑ । वै । इ॒मे । लो॒काः । विधृ॑ता॒ इति॒ वि - धृ॒ताः॒ । यत् । ए॒ताः । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । ए॒षाम् । लो॒काना᳚म् । विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । स्व॒य॒मा॒तृ॒ण्णा इति॑ स्वयं - आ॒तृ॒ण्णाः । उ॒प॒धायेत्यु॑प - धाय॑ । हि॒र॒ण्ये॒ष्ट॒का इति॑ हिरण्य - इ॒ष्ट॒काः । उपेति॑ । द॒धा॒ति॒ । इ॒मे । वै । लो॒काः । स्व॒य॒मा॒तृ॒ण्णा इति॑ स्वयं-आ॒तृ॒ण्णाः । ज्योतिः॑ । हिर॑ण्यम् । यत् । स्व॒य॒मा॒तृ॒ण्णा इति॑ स्वयं - आ॒तृ॒ण्णाः । उ॒प॒धायेत्यु॑प - धाय॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.7.6.3 TS 5.7.6.3
हिरण्येष्ट॒का उ॑प॒दधा॑ती॒-माने॒वैताभि॑-र्लो॒का-ञ्ज्योति॑ष्मतः कुरु॒तेऽथो॑ ए॒ताभि॑रे॒वास्मा॑ इ॒मे लो॒काः प्र भा᳚न्ति॒ यास्ते॑ अग्ने॒ सूर्ये॒ रुच॑ उद्य॒तो दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑ । ताभिः॒ सर्वा॑भी रु॒चे जना॑य नस्कृधि ॥ या वो॑ देवाः॒ सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑ । इन्द्रा᳚ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते ॥ रुच॑न्नो धेहि - [ ]
पदपाठः (Word-by-word)
हि॒र॒ण्ये॒ष्ट॒का इति॑ हिरण्य - इ॒ष्ट॒काः । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । इ॒मान् । ए॒व । ए॒ताभिः॑ । लो॒कान् । ज्योति॑ष्मतः । कु॒रु॒ते॒ । अथो॒ इति॑ । ए॒ताभिः॑ । ए॒व । अ॒स्मै॒ । इ॒मे । लो॒काः । प्रेति॑ । भा॒न्ति॒ । याः । ते॒ । अ॒ग्ने॒ । सूर्ये᳚ । रुचः॑ । उ॒द्य॒त इत्यु॑त् - य॒तः । दिव᳚म् । आ॒त॒न्वन्तीत्या᳚ - त॒न्वन्ति॑ । र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ ॥ ताभिः॑ । सर्वा॑भिः । रु॒चे । जना॑य । नः॒ । कृ॒धि॒ ॥ याः । वः॒ । दे॒वाः॒ । सूर्ये᳚ । रुचः॑ । गोषु॑ । अश्वे॑षु । याः । रुचः॑ ॥ इन्द्रा᳚ग्नी॒ इतीन्द्र॑-अ॒ग्नी॒ । ताभिः॑ । सर्वा॑भिः । रुच᳚म् । नः॒ । ध॒त्त॒ । बृ॒ह॒स्प॒ते॒ ॥ रुच᳚म् । नः॒ । धे॒हि॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.7.6.4 TS 5.7.6.4
ब्राह्म॒णेषु॒ रुचꣳ॒॒ राज॑सु नस्कृधि । रुचं॑ ॅवि॒श्ये॑षु शू॒द्रेषु॒ मयि॑ धेहि रु॒चा रुचं᳚ ॥ द्वे॒धा वा अ॒ग्निं चि॑क्या॒नस्य॒ यश॑ इन्द्रि॒यं ग॑च्छत्य॒ग्निं ॅवा॑ चि॒तमी॑जा॒नं ॅवा॒ यदे॒ता आहु॑तीर्जु॒होत्या॒त्मन्ने॒व यश॑ इन्द्रि॒यं ध॑त्त ईश्व॒रो वा ए॒ष आर्ति॒मार्तो॒र्यो᳚ऽग्निं चि॒न्वन्न॑धि॒ क्राम॑ति॒ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒ इति॑ वारु॒ण्यर्चा - [ ]
पदपाठः (Word-by-word)
ब्रा॒ह्म॒णेषु॑ । रुच᳚म् । राज॒स्विति॒ राज॑ - सु॒ । नः॒ । कृ॒धि॒ ॥ रुच᳚म् । वि॒श्ये॑षु । शू॒द्रेषु॑ । मयि॑ । धे॒हि॒ । रु॒चा । रुच᳚म् ॥ द्वे॒धा । वै । अ॒ग्निम् । चि॒क्या॒नस्य॑ । यशः॑ । इ॒न्द्रि॒यम् । ग॒च्छ॒ति॒ । अ॒ग्निम् । वा॒ । चि॒तम् । ई॒जा॒नम् । वा॒ । यत् । ए॒ताः । आहु॑ती॒रित्या - हु॒तीः॒ । जु॒होति॑ । आ॒त्मन्न् । ए॒व । यशः॑ । इ॒न्द्रि॒यम् । ध॒त्ते॒ । ई॒श्व॒रः । वै । ए॒षः । आर्ति᳚म् । आर्तो॒रित्या - अ॒र्तोः॒ । यः । अ॒ग्निम् । चि॒न्वन्न् । अ॒धि॒क्राम॒तीत्य॑धि - क्राम॑ति । तत् । त्वा॒ । या॒मि॒ । ब्रह्म॑णा । वन्द॑मानः । इति॑ । वा॒रु॒ण्या । ऋ॒चा ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 5.7.6.5 TS 5.7.6.5
जु॑हुया॒च्छान्ति॑रे॒वैषा ऽग्नेर्गुप्ति॑रा॒त्मनो॑ ह॒विष्कृ॑तो॒ वा ए॒ष यो᳚ऽग्निं चि॑नु॒ते यथा॒ वै ह॒विः स्कन्द॑त्ये॒वं ॅवा ए॒ष स्क॑न्दति॒ यो᳚ऽग्निं चि॒त्वा स्त्रिय॑मु॒पैति॑ मैत्रावरु॒ण्याऽऽ*मिक्ष॑या यजेत मैत्रावरु॒णता॑-मे॒वोपै᳚त्या॒त्मनो ऽस्क॑न्दाय॒ यो वा अ॒ग्निमृ॑तु॒स्थां ॅवेद॒र्तुर्.ऋ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति संॅवथ्स॒रो वा अ॒ग्निर् - [ ]
पदपाठः (Word-by-word)
जु॒हु॒या॒त् । शान्तिः॑ । ए॒व । ए॒षा । अ॒ग्नेः । गुप्तिः॑ । आ॒त्मनः॑ । ह॒विष्कृ॑त॒ इति॑ ह॒विः - कृ॒तः॒ । वै । ए॒षः । यः । अ॒ग्निम् । चि॒नु॒ते । यथा᳚ । वै । ह॒विः । स्कन्द॑ति । ए॒वम् । वै । ए॒षः । स्क॒न्द॒ति॒ । यः । अ॒ग्निम् । चि॒त्वा । स्त्रिय᳚म् । उ॒पैतीत्यु॑प - एति॑ । मै॒त्रा॒व॒रु॒ण्येति॑ मैत्रा - व॒रु॒ण्या । आ॒मिक्ष॑या । य॒जे॒त॒ । मै॒त्रा॒व॒रु॒णता॒मिति॑ मैत्रा - व॒रु॒णता᳚म् । ए॒व । उपेति॑ । ए॒ति॒ । आ॒त्मनः॑ । अस्क॑न्दाय । यः । वै । अ॒ग्निम् । ऋ॒तु॒स्थामित्यृ॑तु - स्थाम् । वेद॑ । ऋ॒तुर्.ऋ॑तु॒रित्यृ॒तुः - ऋ॒तुः॒ । अ॒स्मै॒ । कल्प॑मानः । ए॒ति॒ । प्रतीति॑ । ए॒व । ति॒ष्ठ॒ति॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वै । अ॒ग्निः ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 5.7.6.6 TS 5.7.6.6
ऋ॑तु॒स्थास्तस्य॑ वस॒न्तः शिरो᳚ ग्री॒ष्मो दक्षि॑णः प॒क्षो व॒र्॒.षाः पुच्छꣳ॑ श॒रदुत्त॑रः प॒क्षो हे॑म॒न्तो मद्ध्यं॑ पूर्वप॒क्षा-श्चित॑योऽपरप॒क्षाः पुरी॑ष-महोरा॒त्राणीष्ट॑का ए॒ष वा अ॒ग्निर्.ऋ॑तु॒स्था य ए॒वं ॅवेद॒र्तुर्.ऋ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति प्र॒जाप॑ति॒र्वा ए॒तं ज्यैष्ठ्य॑कामो॒ न्य॑धत्त॒ ततो॒ वै स ज्यैष्ठ्य॑मगच्छ॒द्य ए॒वं ॅवि॒द्वान॒ग्निं चि॑नु॒ते ( ) ज्यैष्ठ्य॑मे॒व ग॑च्छति ॥
पदपाठः (Word-by-word)
ऋ॒तु॒स्था इत्यृ॑तु - स्थाः । तस्य॑ । व॒स॒न्तः । शिरः॑ । ग्री॒ष्मः । दक्षि॑णः । प॒क्षः । व॒र्॒.षाः । पुच्छ᳚म् । श॒रत् । उत्त॑र॒ इत्युत् - त॒रः॒ । प॒क्षः । हे॒म॒न्तः । मद्ध्य᳚म् । पू॒र्व॒प॒क्षा इति॑ पूर्व - प॒क्षाः । चित॑यः । अ॒प॒र॒प॒क्षा इत्य॑पर - प॒क्षाः । पुरी॑षम् । अ॒हो॒रा॒त्राणीत्य॑हः-रा॒त्राणि॑ । इष्ट॑काः । ए॒षः । वै । अ॒ग्निः । ऋ॒तु॒स्था इत्यृ॑तु - स्थाः । यः । ए॒वम् । वेद॑ । ऋ॒तुर्.ऋ॑तु॒रित्यृ॒तुः - ऋ॒तुः॒ । अ॒स्मै॒ । कल्प॑मानः । ए॒ति॒ । प्रतीति॑ । ए॒व । ति॒ष्ठ॒ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वै । ए॒तम् । ज्यैष्ठ्य॑काम॒ इति॒ ज्यैष्ठ्य॑ - का॒मः॒ । नीति॑ । अ॒ध॒त्त॒ । ततः॑ । वै । सः । ज्यैष्ठ्य᳚म् । अ॒ग॒च्छ॒त् । यः । ए॒वम् । वि॒द्वान् । अ॒ग्निम् । चि॒नु॒ते ( ) । ज्यैष्ठ्य᳚म् । ए॒व । ग॒च्छ॒ति॒ ॥
पदसंख्या: 53