अनुवाकः 8 TS 5.7.8

(A8)

(यान्य॒ - ग्नय॒ इत्या॒हे - ष्ट॑कानाꣳ॒॒ - षोड॑श च)

अनुवाकः 8 - Complete Audio

TS 5.7.8 - स्वरानुगामी

0:00 0:00
PS1.1 यास्ते॑ अग्ने स॒मिधो॒ यानि॒
PS1.2 धाम॒ या जि॒ह्वा जा॑तवेदो॒
PS1.3 यो अ॒र्चिः
PS1.4 ये ते॑ अग्ने मे॒डयो॒
PS1.5 य इन्द॑व॒स्तेभि॑रा॒त्मानं॑ चिनुहि प्रजा॒नन्न्
PS1.6 उ॒थ्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निः
PS1.7 किं ॅवाऽहै॒तस्य॑ क्रि॒यते॒ किं
PS1.8 ॅवा॒ न यद्वा अ॑द्ध्व॒र्यु-र॒ग्नेश्चि॒न्वन्न॑-न्त॒रेत्या॒त्मनो॒
PS1.9 वै तद॒न्तरे॑ति॒ यास्ते॑ अग्ने
PS1.10 स॒मिधो॒ यानि॒ - [
PS1.11 ]
PS2.1 धामेत्या॑है॒षा वा अ॒ग्नेः स्व॑यं
PS2.2 चि॒तिर॒ग्निरे॒व तद॒ग्निं चि॑नोति॒ नाद्ध्व॒र्युरा॒त्मनो॒ऽन्तरे॑ति॒
PS2.3 चत॑स्र॒ आशाः॒ प्रच॑रन्त्व॒ग्नय॑ इ॒मं
PS2.4 नो॑ य॒ज्ञ्ं न॑यतु प्रजा॒नन्न्
PS2.5 घृ॒तं पिन्व॑न्न॒जरꣳ॑ सु॒वीरं॒ ब्रह्म॑ स॒मिद्-भ॑व॒त्याहु॑तीनां
PS2.6 सु॒व॒र्गाय॒ वा ए॒ष लो॒कायोप॑
PS2.7 धीयते॒ यत् कू॒र्मश्चत॑स्र॒ आशाः॒
PS2.8 प्र च॑रन्त्व॒ग्नय॒ इत्या॑ह॒ -
PS2.9 [ ]
PS3.1 दिश॑ ए॒वैतेन॒ प्र जा॑नाती॒मं
PS3.2 नो॑ य॒ज्ञ्ं न॑यतु प्रजा॒नन्नित्या॑ह
PS3.3 सुव॒र्गस्य॑ लो॒कस्या॒भिनी᳚त्यै॒ ब्रह्म॑ स॒मिद्-भ॑व॒त्याहु॑तीना॒-मित्या॑ह॒
PS3.4 ब्रह्म॑णा॒ वै दे॒वाः सु॑व॒र्गं
PS3.5 ॅलो॒कमा॑य॒न्॒ यद्-ब्रह्म॑ण्वत्योप॒दधा॑ति॒ ब्रह्म॑णै॒व तद्-यज॑मानः
PS3.6 सुव॒र्गं ॅलो॒कमे॑ति प्र॒जाप॑ति॒र्वा ए॒ष
PS3.7 यद॒ग्निस्तस्य॑ प्र॒जाः प॒शवः॒ छन्दाꣳ॑सि
PS3.8 रू॒पꣳ सर्वा॒न्॒ वर्णा॒निष्ट॑कानां (
PS3.9 ) कुर्याद् रू॒पेणै॒व प्र॒जां
PS3.10 प॒शून् छन्दाꣳ॒॒स्यव॑ रु॒न्धेऽथो᳚ प्र॒जाभ्य॑
PS3.11 ए॒वैनं॑ प॒शुभ्यः॒ छन्दो᳚भ्यो ऽव॒रुद्ध्य॑
PS3.12 चिनुते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.7.8.1 TS 5.7.8.1
यास्ते॑ अग्ने स॒मिधो॒ यानि॒ धाम॒ या जि॒ह्वा जा॑तवेदो॒ यो अ॒र्चिः । ये ते॑ अग्ने मे॒डयो॒ य इन्द॑व॒स्तेभि॑रा॒त्मानं॑ चिनुहि प्रजा॒नन्न् ॥उ॒थ्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निः किं ॅवाऽहै॒तस्य॑ क्रि॒यते॒ किं ॅवा॒ न यद्वा अ॑द्ध्व॒र्यु-र॒ग्नेश्चि॒न्वन्न॑-न्त॒रेत्या॒त्मनो॒ वै तद॒न्तरे॑ति॒ यास्ते॑ अग्ने स॒मिधो॒ यानि॒ - [ ]
पदपाठः (Word-by-word)
याः । ते॒ । अ॒ग्ने॒ । स॒मिध॒ इति॑ सं - इधः॑ । यानि॑ । धाम॑ । या । जि॒ह्वा । जा॒त॒वे॒द॒ इति॑ जात-वे॒दः॒ । यः । अ॒र्चिः ॥ ये । ते॒ । अ॒ग्ने॒ । मे॒डयः॑ । ये । इन्द॑वः । तेभिः॑ । आ॒त्मान᳚म् । चि॒नु॒हि॒ । प्र॒जा॒नन्निति॑ प्र - जा॒नन्न् ॥ उ॒थ्स॒न्न॒य॒ज्ञ् इत्यु॑थ्सन्न - य॒ज्ञ्ः । वै । ए॒षः । यत् । अ॒ग्निः । किम् । वा॒ । अह॑ । ए॒तस्य॑ । क्रि॒यते᳚ । किम् । वा॒ । न । यत् । वै । अ॒द्ध्व॒र्युः । अ॒ग्नेः । चि॒न्वन्न् । अ॒न्त॒रेतीय॑न्तः - एति॑ । आ॒त्मनः॑ । वै । तत् । अ॒न्तः । ए॒ति॒ । याः । ते॒ । अ॒ग्ने॒ । स॒मिध॒ इति॑ सं - इधः॑ । यानि॑ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 स्वयंचितिं जपति - यास्त इति त्रिष्टुभा ॥ हे अग्ने जातवेदः जातप्रज्ञ जातधन वा यास्तव समिधः समिन्धनानि यानि च धाम धामानि जन्मस्थानानि । 'सुपां सुलुक्' इति लुक्, यश्चार्चिः दीप्तिः हे अग्ने अङ्गनादियुक्त । ये च मेडयः शब्दाः चमनामसूपमितमिदम् । ये ते च इन्दवः विप्रुषः तेभिस्तैस्सर्वैः स्वयमेवात्मानं चिनुहि । 'उतश्च प्रत्ययाच्छन्दो वा वचनम्' इति हेर्लोपाभावः । प्रजानन् प्रकृष्टो ज्ञाता । कोन्यस्त्वदृते तां चेतुं शक्नुयादिति भावः । तेभिरिति । 'बहुलं छन्दसि' इति ऐसभावः, 'नपुंसकमनपुंसकेन' इति नपुंसकं शिष्यते ॥
2 अथात्रैव ब्राह्मणम् - उत्सन्न यज्ञ इत्यादि ॥ व्याख्यातम् । पुरुषबुद्ध्यविषयत्वेन ज्ञानवत्त्वस्य परिहृतत्वात् अध्वर्योरात्मैकदेशान्तरस्याभावः ॥
3 कूर्मोपधानमन्त्रः - चतस्र आशा इति त्रिष्टुप् ॥ चतस्र आशा दिशः अग्नयः प्रचरन्तु प्रकाशनार्थाय स्वर्गं गच्छतोस्य । अयं च कूर्मः इममस्माकं यज्ञं स्वर्गं नयतु प्रापयतु प्रजानन् प्रकृष्टो ज्ञाता घृतमुदकं अजरं अविनाशं सुवीर्यं च शोभनवीर्यं च पिन्वन् सिञ्चन् इमं यज्ञं नयत्विति । ब्रह्मैव समिन्धनं भवतु आहुतीनामग्नीनां प्रचरताम् । आहूयन्ते याम्य इत्याहुतयोऽग्नयः । संप्रदाने क्तिन्, 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ॥
4 अथात्रैव ब्राह्मणम् - सुवर्गायेत्यादि ॥ गतम् । चतस्र इत्यादि । मन्त्रावयवानां स्तुतिः । अभिनीत्यै आभिमुख्येन नयनाय यत् ब्रह्मण्वत्या ऋचा 'चतस्र आशाः' इत्यनया, 'ब्रह्म समित् भवति' इत्यत्र दर्शनात् । 'अनो नुट्' ॥
5 प्रजापतिर्वा इत्यादि ॥ प्रजादीनि प्रजापते रूपाणि नः अस्मान् प्रजापत्यात्मनोऽग्नेरवयवभूतानां इष्टकानां सर्वान् सर्ववर्णान् कुर्यात् लेखाभिः दक्षिणावृद्द्विः तासां प्रजादिभावाय प्रजादीनां च सर्ववर्णत्वात् तथा कृते रूपेणैव प्रजादीनवरुन्धे । ततश्च प्रजापत्यात्माऽग्निः परिगृहीतो भवति । अथो अपि च प्रजादिभ्य एवादायाग्निः चितो भवति, प्रजादीनां इष्टकानां चैतत्स्वभावत्वात् ॥
इति पञ्चमे सप्तमे अष्टमोनुवाकः ॥
पञ्चशत् 2 #
TS 5.7.8.2 TS 5.7.8.2
धामेत्या॑है॒षा वा अ॒ग्नेः स्व॑यं चि॒तिर॒ग्निरे॒व तद॒ग्निं चि॑नोति॒ नाद्ध्व॒र्युरा॒त्मनो॒ऽन्तरे॑ति॒ चत॑स्र॒ आशाः॒ प्रच॑रन्त्व॒ग्नय॑ इ॒मं नो॑ य॒ज्ञ्ं न॑यतु प्रजा॒नन्न् । घृ॒तं पिन्व॑न्न॒जरꣳ॑ सु॒वीरं॒ ब्रह्म॑ स॒मिद्-भ॑व॒त्याहु॑तीनां ॥सु॒व॒र्गाय॒ वा ए॒ष लो॒कायोप॑ धीयते॒ यत् कू॒र्मश्चत॑स्र॒ आशाः॒ प्र च॑रन्त्व॒ग्नय॒ इत्या॑ह॒ - [ ]
पदपाठः (Word-by-word)
धाम॑ । इति॑ । आ॒ह॒ । ए॒षा । वै । अ॒ग्नेः । स्व॒यं॒चि॒तिरिति॑ स्वयं - चि॒तिः । अ॒ग्निः । ए॒व । तत् । अ॒ग्निम् । चि॒नो॒ति । न । अ॒द्ध्व॒र्युः । आ॒त्मनः॑ । अ॒न्तः । ए॒ति॒ । चत॑स्रः । आशाः᳚ । प्रेति॑ । च॒र॒न्तु॒ । अ॒ग्नयः॑ । इ॒मम् । नः॒ । य॒ज्ञ्म् । न॒य॒तु॒ । प्र॒जा॒नन्निति॑ प्र - जा॒नन्न् ॥ घृ॒तम् । पिन्वन्न्॑ । अ॒जर᳚म् । सु॒वीर॒मिति॑ सु-वीर᳚म् । ब्रह्म॑ । स॒मिदिति॑ सं - इत् । भ॒व॒ति॒ । आहु॑तीना॒मित्या - हु॒ती॒ना॒म् ॥ सु॒व॒र्गायेति॑ सुवः - गाय॑ । वै । ए॒षः । लो॒काय॑ । उपेति॑ । धी॒य॒ते॒ । यत् । कू॒र्मः । चत॑स्रः । आशाः᳚ । प्रेति॑ । च॒र॒न्तु॒ । अ॒ग्नयः॑ । इति॑ । आ॒ह॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.7.8.3 TS 5.7.8.3
दिश॑ ए॒वैतेन॒ प्र जा॑नाती॒मं नो॑ य॒ज्ञ्ं न॑यतु प्रजा॒नन्नित्या॑ह सुव॒र्गस्य॑ लो॒कस्या॒भिनी᳚त्यै॒ ब्रह्म॑ स॒मिद्-भ॑व॒त्याहु॑तीना॒-मित्या॑ह॒ ब्रह्म॑णा॒ वै दे॒वाः सु॑व॒र्गं ॅलो॒कमा॑य॒न्॒ यद्-ब्रह्म॑ण्वत्योप॒दधा॑ति॒ ब्रह्म॑णै॒व तद्-यज॑मानः सुव॒र्गं ॅलो॒कमे॑ति प्र॒जाप॑ति॒र्वा ए॒ष यद॒ग्निस्तस्य॑ प्र॒जाः प॒शवः॒ छन्दाꣳ॑सि रू॒पꣳ सर्वा॒न्॒ वर्णा॒निष्ट॑कानां ( ) कुर्याद् रू॒पेणै॒व प्र॒जां प॒शून् छन्दाꣳ॒॒स्यव॑ रु॒न्धेऽथो᳚ प्र॒जाभ्य॑ ए॒वैनं॑ प॒शुभ्यः॒ छन्दो᳚भ्यो ऽव॒रुद्ध्य॑ चिनुते ॥
पदपाठः (Word-by-word)
दिशः॑ । ए॒व । ए॒तेन॑ । प्रेति॑ । जा॒ना॒ति॒ । इ॒मम् । नः । य॒ज्ञ्म् । न॒य॒तु॒ । प्र॒जा॒नन्निति॑ प्र - जा॒नन्न् । इति॑ । आ॒ह॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । अ॒भिनी᳚त्या॒ इत्य॒भि-नी॒त्यै॒ । ब्रह्म॑ । स॒मिदिति॑ सं - इत् । भ॒व॒ति॒ । आहु॑तीना॒मित्या - हु॒ती॒ना॒म् । इति॑ । आ॒ह॒ । ब्रह्म॑णा । वै । दे॒वाः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । आ॒य॒न्न् । यत् । ब्रह्म॑ण्व॒त्येति॒ ब्रह्मण्॑ - व॒त्या॒ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । ब्रह्म॑णा । ए॒व । तत् । यज॑मानः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ए॒ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वै । ए॒षः । यत् । अ॒ग्निः । तस्य॑ । प्र॒जा इति॑ प्र - जाः । प॒शवः॑ । छन्दाꣳ॑सि । रू॒पम् । सर्वान्॑ । वर्णान्॑ । इष्ट॑कानाम् ( ) । कु॒र्या॒त् । रू॒पेण॑ । ए॒व । प्र॒जामिति॑ प्र - जाम् । प॒शून् । छन्दाꣳ॑सि । अवेति॑ । रु॒न्धे॒ । अथो॒ इति॑ । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । ए॒व । ए॒न॒म् । प॒शुभ्य॒ इति॑ प॒शु-भ्यः॒ । छन्दो᳚भ्य॒ इति॒ छन्दः॑ - भ्यः॒ । अ॒व॒रुद्ध्येत्य॑व - रुद्ध्य॑ । चि॒नु॒ते॒ ॥
पदसंख्या: 66