अनुवाकः 23 TS 5.7.23

(A23)

(पन्थां॒ - द्वाविꣳ॑शतिः)

अनुवाकः 23 - Complete Audio

TS 5.7.23 - स्वरानुगामी

0:00 0:00
PS1.1 पन्था॑मनू॒वृग्भ्याꣳ॒॒ संत॑तिꣳ स्नाव॒न्या᳚भ्याꣳ॒॒ शुका᳚न्
PS1.2 पि॒त्तेन॑ हरि॒माणं॑ ॅय॒क्ना हली᳚क्ष्णान्
PS1.3 पापवा॒तेन॑ कू॒श्माञ्छक॑भिः शव॒र्तानूव॑द्ध्येन॒ शुनो॑
PS1.4 वि॒शस॑नेन स॒र्पान् ॅलो॑हितग॒न्धेन॒ वयाꣳ॑सि
PS1.5 पक्वग॒न्धेन॑ पि॒पीलि॑काः प्रशा॒देन॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.7.23.1 TS 5.7.23.1
पन्था॑मनू॒वृग्भ्याꣳ॒॒ संत॑तिꣳ स्नाव॒न्या᳚भ्याꣳ॒॒ शुका᳚न् पि॒त्तेन॑ हरि॒माणं॑ ॅय॒क्ना हली᳚क्ष्णान् पापवा॒तेन॑ कू॒श्माञ्छक॑भिः शव॒र्तानूव॑द्ध्येन॒ शुनो॑ वि॒शस॑नेन स॒र्पान् ॅलो॑हितग॒न्धेन॒ वयाꣳ॑सि पक्वग॒न्धेन॑ पि॒पीलि॑काः प्रशा॒देन॑ ॥
पदपाठः (Word-by-word)
पन्था᳚म् । अ॒नू॒वृग्भ्या॒मित्य॑नू॒वृक् - भ्या॒म् । संत॑ति॒मिति॒ सं-त॒ति॒म् । स्ना॒व॒न्या᳚भ्याम् । शुकान्॑ । पि॒त्तेन॑ । ह॒रि॒माण᳚म् । य॒क्ना । हली᳚क्ष्णान् । पा॒प॒वा॒तेनेति॑ पाप - वा॒तेन॑ । कू॒श्मान् । शक॑भि॒रिति॒ शक॑ - भिः॒ । श॒व॒र्तान् । ऊव॑द्ध्येन । शुनः॑ । वि॒शस॑ने॒नेति॑ वि - शस॑नेन । स॒र्पान् । लो॒हि॒त॒ग॒न्धेनेति॑ लोहित - ग॒न्धेन॑ । वयाꣳ॑सि । प॒क्व॒ग॒न्धेनेति॑ पक्व - ग॒न्धेन॑ । पि॒पीलि॑काः । प्र॒शा॒देनेति॑ प्र - शा॒देन॑ ॥
पदसंख्या: 22
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पन्थाः प्रसिद्धः । द्वितीयाया अप्याकारश्छान्दसः । अनूवृग्भ्यां अनुवृत्ताभ्यां सिराविशेषाम्याम् । वर्णव्यत्ययेन ककारः । 'न हि वृति' इत्यादिना दीर्घत्वम् । सन्ततिः प्रसिद्धा, स्नावानस्मिराः स्नावभ्योऽभितः स्नावन्यौ सर्वसिरानुग्राहिण्यौ सिराविशेषौ पार्श्वयोः । स्वार्थिको वा यत् । शुकान् पित्तेन गतम् । हरिमाण कामिलादि हरिणस्वभावम् । 'तुरिष्ठेमेयस्सु' इति टिलोपः । यक्ना मांसपिण्डविशेषेण वर्तुलाकारेण । 'पद्दन्' इत्यादिना यकृच्छब्दस्य यकन्नादेशः । हलीक्ष्णान् तृणसिह्मान् । पापवातेन आमवालजाः क्षुद्रजन्तवः । ऊवध्येन उदरस्थेन पुरीषेण । श्वानः प्रसिद्धाः । विशसनेन शस्त्रादिलग्नेन मांसेन । सर्पान् लोहितगन्धेन रुधिरगन्धेन । वयांसि पक्वगन्धेन पाकजेन मांसेन । पिपीलिकाः प्रशादेन भूमौ विशीर्णेन । शद निशातने । पूर्वपदान्तोदात्तत्वम् ॥
इति पञ्चमे सप्तमे त्रयोविंशोनुवाकः ॥