पञ्चशत् 1 #
वा॒योः प॑क्ष॒तिः सर॑स्वतो॒ निप॑क्षति-श्च॒न्द्रम॑स-स्तृ॒तीया॒ नक्ष॑त्राणां चतु॒र्थी स॑वि॒तुः प॑ञ्च॒मी रु॒द्रस्य॑ ष॒ष्ठी स॒र्पाणाꣳ॑ सप्त॒म्य॑र्य॒म्णो᳚ऽष्ट॒मी त्वष्टु॑र्नव॒मी धा॒तुर्द॑श॒मीन्द्रा॒ण्या ए॑काद॒श्यदि॑त्यै द्वाद॒शी द्यावा॑पृथि॒व्योः पा॒र्श्वं ॅय॒म्यै॑ पाटू॒रः ॥
पदपाठः (Word-by-word)
वा॒योः । प॒क्ष॒तिः । सर॑स्वतः । निप॑क्षति॒रिति॒ नि - प॒क्ष॒तिः॒ । च॒न्द्रम॑सः । तृ॒तीया᳚ । नक्ष॑त्राणाम् । च॒तु॒र्थी । स॒वि॒तुः । प॒ञ्च॒मी । रु॒द्रस्य॑ । ष॒ष्ठी । स॒र्पाणा᳚म् । स॒प्त॒मी । अ॒र्य॒म्णः । अ॒ष्ट॒मी । त्वष्टुः॑ । न॒व॒मी । धा॒तुः । द॒श॒मी । इ॒न्द्रा॒ण्याः । ए॒का॒द॒शी । अदि॑त्यै । द्वा॒द॒शी । द्यावा॑पृथि॒व्योरिति॒ द्यावा᳚ - पृ॒थि॒व्योः । पा॒र्श्वम् । य॒म्यै᳚ । पा॒टू॒रः ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 वायोः पक्षतिः पार्श्वान्तं पूर्वेण व्याख्यातम् ॥
इति पञ्चमे सप्तमे द्वाविंशोनवाकः ॥