अनुवाकः 24 TS 5.7.24

(A24)

(क्रमै॑ - र॒ष्टाद॑श)

अनुवाकः 24 - Complete Audio

TS 5.7.24 - स्वरानुगामी

0:00 0:00
PS1.1 क्रमै॒रत्य॑क्रमीद्-वा॒जी विश्वै᳚र्दे॒वैर्य॒ज्ञियैः᳚ संॅविदा॒नः
PS1.2 स नो॑ नय सुकृ॒तस्य॑
PS1.3 लो॒कं तस्य॑ ते व॒यꣳ
PS1.4 स्व॒धया॑ मदेम

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.7.24.1 TS 5.7.24.1
क्रमै॒रत्य॑क्रमीद्-वा॒जी विश्वै᳚र्दे॒वैर्य॒ज्ञियैः᳚ संॅविदा॒नः ।स नो॑ नय सुकृ॒तस्य॑ लो॒कं तस्य॑ ते व॒यꣳ स्व॒धया॑ मदेम ॥
पदपाठः (Word-by-word)
क्रमैः᳚ । अतीति॑ । अ॒क्र॒मी॒त् । वा॒जी । विश्वैः᳚ । दे॒वैः । य॒ज्ञियैः᳚ । सं॒ॅवि॒दा॒न इति॑ सं - वि॒दा॒नः ॥ सः । नः॒ । न॒य॒ । सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ । लो॒कम् । तस्य॑ । ते॒ । व॒यम् । स्व॒धयेति॑ स्व-धया᳚ । म॒दे॒म॒ ॥
पदसंख्या: 18
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ 'चित्तं सन्तानेन' इत्यादि चतुर्दशानुवाकः आरण्यानुवाक्यः 'प्रयासाय स्वाहा' इति पञ्चदश आरण्योनुवाक्यः परस्ताद्व्याख्यास्येते । ब्राह्मणं च भवति - 'चतुर्दशैताननुवाकान् जुहोत्यनन्तरित्यै । प्रयासाय स्वाहेति पञ्चदशम्' इति । अथोत्तराभ्यामनुवाकाभ्यां अश्वस्य हृदयमभिमन्त्रयते । क्रमैरिति पुरुस्ताज्ज्योतिषा त्रिष्टुभा ॥ क्रेमैरात्मीयैः पादविक्षेपैः अयं वाजी अत्यक्रमीत् अन्यानत्यागच्छत् महानुभावः सञ्जातः । तदेवाह - विश्वैर्देवर्यज्ञियैः यज्ञार्हैः देवः संविदानः ऐकमत्यं गतः । 'समोगमृच्छि' इत्यात्मनेपदम् । कर्मणि वा लटि व्यत्ययेन यगभावः । ज्ञायमान इत्यर्थः । स त्वमस्मान् सुकृतस्य सुष्ठुकृतस्य कर्मणः फलभूतं लोकं स्थानं नय प्रापय । 'सूपमानात्मकः' इति सुकृतशब्दोन्तोदात्तः । तस्य तादृशस्य तव सम्बन्धि तादृशेन त्वया तत्र स्थाने स्वधयाऽन्नेन वयं मदेम । 'लिङ्घ्याशिष्यङ्' ॥
इति पञ्चमे सप्तमे चतुर्विंशोनुवाकः ॥