अनुवाकः 26 TS 5.7.26

(A26)

(यस्मि॑ - न्न॒ष्टौ च॑)

अनुवाकः 26 - Complete Audio

TS 5.7.26 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒ग्निः प॒शुरा॑सी॒त् तेना॑यजन्त॒ स
PS1.2 ए॒तं ॅलो॒कम॑जय॒द्-यस्मि॑न्न॒ग्निः स ते॑
PS1.3 लो॒कस्तं जे᳚ष्य॒स्यथाव॑ जिघ्र वा॒युः
PS1.4 प॒शुरा॑सी॒त् तेना॑यजन्त॒ स ए॒तं
PS1.5 ॅलो॒कम॑जय॒द्-यस्मि॑न् वा॒युः स ते॑
PS1.6 लो॒कस्तस्मा᳚त् त्वा॒ऽन्तरे᳚ष्यामि॒ यदि॒ नाव॒जिघ्र॑स्यादि॒त्यः
PS1.7 प॒शुरा॑सी॒त् तेना॑यजन्त॒ स ए॒तं
PS1.8 ॅलो॒कम॑जय॒द् यस्मि॑ -( )-न्नादि॒त्यः
PS1.9 स ते॑ लो॒कस्तं जे᳚ष्यसि॒
PS1.10 यद्य॑व॒जिघ्र॑सि

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.7.26.1 TS 5.7.26.1
अ॒ग्निः प॒शुरा॑सी॒त् तेना॑यजन्त॒ स ए॒तं ॅलो॒कम॑जय॒द्-यस्मि॑न्न॒ग्निः स ते॑ लो॒कस्तं जे᳚ष्य॒स्यथाव॑ जिघ्र वा॒युः प॒शुरा॑सी॒त् तेना॑यजन्त॒ स ए॒तं ॅलो॒कम॑जय॒द्-यस्मि॑न् वा॒युः स ते॑ लो॒कस्तस्मा᳚त् त्वा॒ऽन्तरे᳚ष्यामि॒ यदि॒ नाव॒जिघ्र॑स्यादि॒त्यः प॒शुरा॑सी॒त् तेना॑यजन्त॒ स ए॒तं ॅलो॒कम॑जय॒द् यस्मि॑ -( )-न्नादि॒त्यः स ते॑ लो॒कस्तं जे᳚ष्यसि॒ यद्य॑व॒जिघ्र॑सि ॥
पदपाठः (Word-by-word)
अ॒ग्निः । प॒शुः । आ॒सी॒त् । तेन॑ । अ॒य॒ज॒न्त॒ । सः । ए॒तम् । लो॒कम् । अ॒ज॒य॒त् । यस्मिन्न्॑ । अ॒ग्निः । सः । ते॒ । लो॒कः । तम् । जे॒ष्य॒सि॒ । अथ॑ । अवेति॑ । जि॒घ्र॒ । वा॒युः । प॒शुः । आ॒सी॒त् । तेन॑ । अ॒य॒ज॒न्त॒ । सः । ए॒तम् । लो॒कम् । अ॒ज॒य॒त् । यस्मिन्न्॑ । वा॒युः । सः । ते॒ । लो॒कः । तस्मा᳚त् । त्वा॒ । अ॒न्तः । ए॒ष्या॒मि॒ । यदि॑ । न । अ॒व॒जिघ्र॒सीत्य॑व-जिघ्र॑सि । आ॒दि॒त्यः । प॒शुः । आ॒सी॒त् । तेन॑ । अ॒य॒ज॒न्त॒ । सः । ए॒तम् । लो॒कम् । अ॒ज॒य॒त् । यस्मिन्न्॑ ( ) । आ॒दि॒त्यः । सः । ते॒ । लो॒कः । तम् । जे॒ष्य॒सि॒ । यदि॑ । अ॒व॒जिघ्र॒सीत्य॑व - जिघ्र॑सि ॥
पदसंख्या: 58
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ यदुक्तमश्वमेधब्राह्मणे 'अग्निः पशुरासीदित्यवघ्रापयेत्' इति तमिमं मन्त्रमस्मिन् षड्विंशानुवाके पठति - अग्निः पशुरासीदिति ॥ हे अश्व अयं अग्निः देवः पुरा कस्मिंश्चित् जन्मनि त्वमिवाश्वमेधे यागहेतुश्चाश्वः पशुरासीत् । तेन अग्निरूपेण पशुना केचित् यजमाना अयजन्त । स च पशुरग्निर्देवो भूत्वा लोकं एतं अजयत् । यस्मिन् लोके सः अग्निः इदानीं तिष्ठति सः एव तवापि लोको भविष्यति, त्वं च तं लोकं जेप्यसि । अथैवं सति त्वमुत्सुकः सन् इदमुदकं जिघ्र । एवं वाव्यादित्यवाक्ययोरपि योज्यम् । वायुवाक्ये तु व्यतिरेकोपन्यासः - यदि उदकं नावजिघ्रसि तर्हि तस्मात् वायुलोकात् त्वां अन्तः एष्यामि त्वमन्तरितस्तस्माल्लोकाद्भ्रष्टो यथा भवसि तथा करिष्यामि । आदित्यवाक्ये तु अग्निवाक्यवदन्वयः - यद्युदकं अवजिघ्रसि तर्हि तमादित्यलोकं जेप्यसि ॥
इति माधवीये पञ्चमे सप्तमे षद्ध्विशोनुवाकः ॥

प्रपाठकः काण्डश्च समाप्तः ॥

……………………………………………………………………………………………………………