अनुवाकः 14 TS 5.7.14

(A14)

(योक्त्र॒ - मेक॑विꣳशतिः)

अनुवाकः 14 - Complete Audio

TS 5.7.14 - स्वरानुगामी

0:00 0:00
PS1.1 योक्त्रं॒ गृद्ध्रा॑भिर्यु॒गमान॑तेन चि॒त्तं मन्या॑भिः
PS1.2 संक्रो॒शान् प्रा॒णैः प्र॑का॒शेन॒ त्वचं॑
PS1.3 पराका॒शेनान्त॑रां म॒शका॒न् केशै॒रिन्द्रꣳ॒॒ स्वप॑सा॒
PS1.4 वहे॑न॒ बृह॒स्पतिꣳ॑ शकुनिसा॒देन॒ रथ॑मु॒ष्णिहा॑भिः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.7.14.1 TS 5.7.14.1
योक्त्रं॒ गृद्ध्रा॑भिर्यु॒गमान॑तेन चि॒त्तं मन्या॑भिः संक्रो॒शान् प्रा॒णैः प्र॑का॒शेन॒ त्वचं॑ पराका॒शेनान्त॑रां म॒शका॒न् केशै॒रिन्द्रꣳ॒॒ स्वप॑सा॒ वहे॑न॒ बृह॒स्पतिꣳ॑ शकुनिसा॒देन॒ रथ॑मु॒ष्णिहा॑भिः ॥
पदपाठः (Word-by-word)
योक्त्र᳚म् । गृद्ध्रा॑भिः । यु॒गम् । आन॑ते॒नेत्या - न॒ते॒न॒ । चि॒त्तम् । मन्या॑भिः । स॒क्र्ॐ॒शानिति॑ सं - क्रो॒शान् । प्रा॒णैरिति॑ प्र - अ॒नैः । प्र॒का॒शेनेति॑ प्र - का॒शेन॑ । त्वच᳚म् । प॒रा॒का॒शेनेति॑ परा - का॒शेन॑ । अन्त॑राम् । म॒शकान्॑ । केशैः᳚ । इन्द्र᳚म् । स्वप॒सेति॑ सु - अप॑सा । वहे॑न । बृह॒स्पति᳚म् । श॒कु॒नि॒सा॒देनेति॑ शकुनि - सा॒देन॑ । रथ᳚म् । उ॒ष्णिहा॑भिः ॥
पदसंख्या: 21
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 योक्त्रं गतम् । गृध्राः अक्षाः । युगं प्रसिद्धम् । आनतं ग्रीवाप्रदेशः । चित्तं प्रसिद्धम् । मन्या ग्रीवारेखाः । सिरा वा तत्रस्थाः । संक्रोशा घोषाः । प्राणाः चक्षुरादयः । प्रकाशः बाह्यं रूपम् । त्वक् त्वगिन्द्रियादीनि । पराकाशः आभ्यन्तरं रूपम् । अन्तरा त्वगिन्द्रियाभिमानिनी । मशकान् केशैः । इन्द्रः प्रसिद्धः । स्वपसा शोभनकर्मणा वहेन कण्ठावलम्बेन। 'सोर्मनसी' इत्युत्तरपदाद्युदात्तत्वम् । बृहस्पतिः प्रसिद्धः । सुट्स्वरावुक्तौ । शकुनिसादः पृष्ठं यत्र शकुनाः शक्ता धीराः सीदन्ति । रथः प्रसिद्धः । उप्णिहाः शिरोवेष्टनसदृशाः केशनिवहाः ॥
इति पञ्चमे सप्तमे चतुर्दशोनुवाकः ॥