पञ्चशत् 1 #
यो वा अय॑थादेवतम॒ग्निं चि॑नु॒त आ दे॒वता᳚भ्यो वृश्च्यते॒ पापी॑यान् भवति॒ यो य॑थादेव॒तं न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान् भवत्याग्ने॒य्या गा॑यत्रि॒या प्र॑थ॒मां चिति॑म॒भि मृ॑शेत् त्रि॒ष्टुभा᳚ द्वि॒तीयां॒ जग॑त्या तृ॒तीया॑मनु॒ष्टुभा॑ चतु॒र्थीं प॒ङ्क्त्या प॑ञ्च॒मीं ॅय॑थादेव॒तमे॒वाग्निं चि॑नुते॒ न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान् भव॒तीडा॑यै॒ वा ए॒षा विभ॑क्तिः प॒शव॒ इडा॑ प॒शुभि॑रेनं - [ ]
पदपाठः (Word-by-word)
यः । वै । अय॑थादेवत॒मित्यय॑था-दे॒व॒त॒म् । अ॒ग्निम् । चि॒नु॒ते । एति॑ । दे॒वता᳚भ्यः । वृ॒श्च्य॒ते॒ । पापी॑यान् । भ॒व॒ति॒ । यः । य॒था॒दे॒व॒तमिति॑ यथा - दे॒व॒तम् । न । दे॒वता᳚भ्यः । एति॑ । वृ॒श्च्य॒ते॒ । वसी॑यान् । भ॒व॒ति॒ । आ॒ग्ने॒य्या । गा॒य॒त्रि॒या । प्र॒थ॒माम् । चिति᳚म् । अ॒भीति॑ । मृ॒शे॒त् । त्रि॒ष्टुभाः᳚ । द्वि॒तीया᳚म् । जग॑त्या । तृ॒तीया᳚म् । अ॒नु॒ष्टुभेत्य॑नु - स्तुभा᳚ । च॒तु॒र्थीम् । प॒ङ्क्त्या । प॒ञ्च॒मीम् । य॒था॒दे॒व॒तमिति॑ यथा - दे॒व॒तम् । ए॒व । अ॒ग्निम् । चि॒नु॒ते॒ । न । दे॒वता᳚भ्यः । एति॑ । वृ॒श्च्य॒ते॒ । वसी॑यान् । भ॒व॒ति॒ । इडा॑यै । वै । ए॒षा । विभ॑क्ति॒रिति॒ वि - भ॒क्तिः॒ । प॒शवः॑ । इडा᳚ । प॒शुभि॒रिति॑ प॒शु-भिः॒ । ए॒न॒म् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
तैत्तिरीय संहितायां
पञ्चमकाण्डे सप्तमः प्रश्नः ॥
1 अथाग्निकाण्डमग्न्यार्षेयम् - 'यो वा अयथादेवतं' इत्यभिमर्शनविधिः ॥ यथादेवतं या यत्र देवता तद्यथादेवतम् । अनाम्न्या देवतया यश्चिनुतेऽग्निं स सर्वाभ्यो देवताभ्यो वृश्च्यते, पापतरश्च भवति । यो यथादेवतमित्यादि । गतम् । देवताशब्देनाग्निरुच्यते ॥
2 तदेवाह - आग्नेय्येति ॥ 'अग्ने देवां इहावह' इति गायक्र्या । त्रिष्टुभेति आग्नेय्येत्येवं सर्वत्र 'अगन्म महा मनसा' इति । जगत्येति । 'मेधाकारं विदथस्य' इति । अनुष्टुभेति 'मनुष्वत्त्वा निधीमहि' हति । पङ्य्क्त्येति 'अग्निर्हि वाजिनं विशे' इति ॥
3 इडायै वा एषेति ॥ इडा पशवः 'पशवो वा इडा' इति पशुनामैषा । विभक्तिर्विभागः गायत्र्यादि, 'पशवो वै छन्दांसि' इति पशुसाधनत्वात् । तस्माद्गयत्र्यादिभिः चिन्वानो भवति पशुमान् ॥
4 यो वै प्रजापतय इत्यादि ॥ प्रतिप्रोच्य अनुज्ञाप्य अग्निं चिन्वानो नार्तिं गच्छति । अन्यथा कुर्वन्नार्तिं गच्छतीत्येवेति ॥
5 तत्प्रकारमाह - अश्वावित्यादि ॥ अभितः उयभतः । आलभ्य स्पृष्ट्वा प्रजापतेरिदं रूपमश्वत्वेन वर्तते यस्मात् प्राजापत्योश्वः । साक्षादित्यादि । गतम् ॥
6 एतद्वा इत्यादि ॥ श्वेतोश्वोह्नो रूपमेतेन रूपेण अहर्वर्तते रात्रियै कृष्ण इति । एतद्रात्र्या रूपं यत्कृष्णोश्व इति यावत् । रूपान्तरं च दर्शयति - एतदह्न इति । अह्नो रूपमिष्टकाः रात्र्या रूपं पुरीषम् । तस्मादिष्टकाः उपधास्यन् श्वेतमश्वमभिमृशेत् । पुरीषमुपधास्यन् कृष्णमभिमृशेत् । एवमहोरात्राभ्यामेव अग्निश्चितो भवति ॥
7 हिरण्यपात्रमिति ॥ गतम् । मधुन इति लिङ्गव्यत्ययः, उभयलिङ्गो वा । 'पूरणगुण' इति समासप्रतिषेधात् षष्ठीं ज्ञाप्यते । मधव्य इति । मध्वर्हः मधुपर्कार्हो भवतीत्यनेनाभिप्रायेण हिरण्यपात्रं दद्यात् । मधोरिति । यदेतस्मादपि निर्देशात्पुल्लिङ्गोप्यस्तीति ज्ञायते । सौर्येति । 'चित्रं देवानां' इति चित्रवत्यः । अवेक्षते प्रागेव दानाद्धिरण्यपात्रमवेक्षते । चित्रमेवेति । प्रजाभिः पशुभिश्च चित्रत्वं यजमानस्य भवति ॥
8 मध्यन्दिन इति ॥ अह्नो मध्यं मध्यन्दिनम् । द्वितीयं वासरम् । तत्र तत्पात्रमवघ्रापयति । छान्दसं णौ कर्तुः कर्मत्वम् । असौ वा इत्यादि । मध्यन्दिनस्येन्द्रत्वात् इन्द्रादित्ययोरभेदस्तुतिः । अश्वस्य प्राजापत्यत्वात् प्रजापत्यश्वयोरभेदस्तुतिः । तमेवाह - प्राजापत्योश्व इति । तमेव प्रजापतिं साक्षादव्यवधानेन ऋध्रोति ऋद्धिमन्तं करोति यदश्वेनाघ्रापयतीति ॥
इति पञ्चमे सप्तमे प्रथमोनुवाकः ॥