अनुवाकः 4 TS 5.7.4

(A4)

(भा॒ग॒धेयं॒ - जुह्व॑ति - पर॒मा - रा॒ष्ट्रं द॑धाति - स॒प्त च॑)

अनुवाकः 4 - Complete Audio

TS 5.7.4 - स्वरानुगामी

0:00 0:00
PS1.1 चित्तिं॑ जुहोमि॒ मन॑सा घृ॒तेनेत्या॒हादा᳚भ्या॒
PS1.2 वै नामै॒षाऽऽ*हु॑तिर्वैश्वकर्म॒णी नैनं॑ चिक्या॒नं
PS1.3 भ्रातृ॑व्यो दभ्नो॒त्यथो॑ दे॒वता॑ ए॒वाव॑
PS1.4 रु॒न्धे ऽग्ने॒ तम॒द्येति॑ प॒ङ्क्त्या
PS1.5 जु॑होति प॒ङ्क्त्याऽऽहु॑त्या यज्ञ्मु॒खमा र॑भते
PS1.6 स॒प्त ते॑ अग्ने स॒मिधः॑
PS1.7 स॒प्तजि॒ह्वा इत्या॑ह॒ होत्रा॑ ए॒वाव॑
PS1.8 रुन्धे॒ ऽग्निर्दे॒वेभ्योऽपा᳚क्रामद्-भाग॒धेय॑ - [
PS1.9 ]
PS2.1 -मि॒च्छमा॑न॒स्तस्मा॑ ए॒तद्-भा॑ग॒धेयं॒ प्राय॑च्छन्ने॒तद्वा अ॒ग्नेर॑ग्निहो॒त्रमे॒तर्.हि॒
PS2.2 खलु॒ वा ए॒ष जा॒तो
PS2.3 यर्.हि॒ सर्व॑श्चि॒तो जा॒तायै॒वास्मा॒ अन्न॒मपि॑
PS2.4 दधाति॒ स ए॑नं प्री॒तः
PS2.5 प्री॑णाति॒ वसी॑यान् भवति ब्रह्मवा॒दिनो॑
PS2.6 वदन्ति॒ यदे॒ष गार्.ह॑पत्यश्ची॒यतेऽथ॒ क्वा᳚स्याऽऽहव॒नीय॒
PS2.7 इत्य॒सावा॑दि॒त्य इति॑ ब्रूयादे॒तस्मि॒न्॒.हि सर्वा᳚भ्यो
PS2.8 दे॒वता᳚भ्यो॒ जुह्व॑ति॒ - [
PS2.9 ]
PS3.1 य ए॒वं ॅवि॒द्वान॒ग्निं चि॑नु॒ते
PS3.2 सा॒क्षादे॒व दे॒वता॑ ऋद्ध्नो॒त्यग्ने॑ यशस्वि॒न्॒
PS3.3 यश॑से॒ मम॑र्प॒येन्द्रा॑वती॒ मप॑चिती मि॒हाऽऽव॑ह
PS3.4 अ॒यं मू॒र्द्धा प॑रमे॒ष्ठी सु॒वर्चाः᳚
PS3.5 समा॒नाना॑मुत्त॒म श्लो॑को अस्तु
PS3.6 भ॒द्रं पश्य॑न्त॒ उप॑ सेदु॒रग्रे॒
PS3.7 तपो॑ दी॒क्षामृष॑यः सुव॒र्विदः॑
PS3.8 ततः॑ क्ष॒त्रं बल॒मोज॑श्च जा॒तं
PS3.9 तद॒स्मै दे॒वा अ॒भि सं
PS3.10 न॑मन्तु
PS3.11 धा॒ता वि॑धा॒ता प॑र॒मो -
PS3.12 [ ]
PS4.1 -त स॒न्दृक् प्र॒जाप॑तिः परमे॒ष्ठी वि॒राजा᳚
PS4.2 स्तोमाः॒ छन्दाꣳ॑सि नि॒विदो॑ म
PS4.3 आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भि सं न॑माम
PS4.4 अ॒भ्याव॑र्तद्ध्व॒मुप॒ मेत॑ सा॒कम॒यꣳ शा॒स्ताऽधि॑पतिर्वो अस्तु
PS4.5 अ॒स्य वि॒ज्ञान॒मनु॒ सꣳ र॑भद्ध्वमि॒मं
PS4.6 प॒श्चादनु॑ जीवाथ॒ सर्वे᳚
PS4.7 रा॒ष्ट्र॒भृत॑ ए॒ता उप॑ दधात्ये॒षा
PS4.8 वा अ॒ग्नेश्चिती॑ राष्ट्र॒भृत् तयै॒वास्मि॑न्
PS4.9 रा॒ष्ट्रं द॑धाति ( )
PS4.10 रा॒ष्ट्रमे॒व भ॑वति॒ नास्मा᳚द् रा॒ष्ट्रं
PS4.11 भ्रꣳ॑शते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.7.4.1 TS 5.7.4.1
चित्तिं॑ जुहोमि॒ मन॑सा घृ॒तेनेत्या॒हादा᳚भ्या॒ वै नामै॒षाऽऽ*हु॑तिर्वैश्वकर्म॒णी नैनं॑ चिक्या॒नं भ्रातृ॑व्यो दभ्नो॒त्यथो॑ दे॒वता॑ ए॒वाव॑ रु॒न्धे ऽग्ने॒ तम॒द्येति॑ प॒ङ्क्त्या जु॑होति प॒ङ्क्त्याऽऽहु॑त्या यज्ञ्मु॒खमा र॑भते स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्तजि॒ह्वा इत्या॑ह॒ होत्रा॑ ए॒वाव॑ रुन्धे॒ ऽग्निर्दे॒वेभ्योऽपा᳚क्रामद्-भाग॒धेय॑ - [ ]
पदपाठः (Word-by-word)
चित्ति᳚म् । जु॒हो॒मि॒ । मन॑सा । घृ॒तेन॑ । इति॑ । आ॒ह॒ । अदा᳚भ्या । वै । नाम॑ । ए॒षा । आहु॑ति॒रित्या-हु॒तिः॒ । वै॒श्व॒कर्म॒णीति॑ वैश्व - क॒र्म॒णी । न । ए॒न॒म् । चि॒क्या॒नम् । भ्रातृ॑व्यः । द॒भ्नो॒ति॒ । अथो॒ इति॑ । दे॒वताः᳚ । ए॒व । अवेति॑ । रु॒न्धे॒ । अग्ने᳚ । तम् । अ॒द्य । इति॑ । प॒ङ्क्त्या । जु॒हो॒ति॒ । प॒ङ्क्त्या । आहु॒त्येत्या - हु॒त्या॒ । य॒ज्ञ्॒मु॒खमिति॑ यज्ञ् - मु॒खम् । एति॑ । र॒भ॒ते॒ । स॒प्त । ते॒ । अ॒ग्ने॒ । स॒मिध॒ इति॑ सं - इधः॑ । स॒प्त । जि॒ह्वाः । इति॑ । आ॒ह॒ । होत्राः᳚ । ए॒व । अवेति॑ । रु॒न्धे॒ । अ॒ग्निः । दे॒वेभ्यः॑ । अपेति॑ । अ॒क्रा॒म॒त् । भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 चित्तिं जुहोमीति ॥ 'चित्तिं जुहोमि' इत्यनया ऋचा या वैश्व- कर्मणी स्वयमातृण्णायां होतव्येति पूर्वमुक्ता एषाऽऽहुतिरदाभ्यानाम वेदितव्या। इदानीं नामधेयानि ब्रूते । नैनमिति । एतदाहुतिविशिष्टमग्निं चिक्यानं चितवन्तं यजमानं भ्रातृव्यं शत्रुं न दभ्नोति नाभिभवति । तस्मात् दभ्यन्ते नम्यन्ते अनयेति करणे कृत्यः 'दभेश्चेतिवक्तव्यम्' इति । दम्भिः प्रकृत्यन्तरमस्तीत्याहुः । अथो अपि च देवता अवरुन्धे च 'यथा देवा इहागमन्' इति मन्त्रलिङ्गात् । चिनोतेः लिटः कानच्, 'विभाषाञ्चेः' इति कुत्वम् ॥
2 'अग्ने तमद्य' इत्यक्षरपङ्क्त्या होमः कर्तव्यः । उक्तं तस्याः पङ्क्तित्वमत्र स्तूयते । प्रयोजनं चेते ........ पाङ्क्तत्वाद्यज्ञस्य पङ्क्त्याऽनयाहुतिकरणेन हेतुना यज्ञमुखमुपक्रमभारभत इति । आरभ्य यज्ञत्वमस्य क्रियत इति ॥
3 सप्त त इत्यादि ॥ 'सप्तते अग्ने ' इत्यनया अग्निहोत्रहोमः कर्तव्यः । तत्प्रयोजनं होतॄणामृत्विजां लोलः सप्तहोत्र इति लिङ्गात् ॥
4 अग्निर्देवेभ्य इति ॥ गतमेतत् । एतद्वा इति । यस्मादेवं तस्मादेतमग्निहोत्रमग्नेरेव स्वं देवैस्तथा कृतत्वात् । एतर्हीत्यादि । अस्मिन्काले एषोग्निर्जातो भवति । यर्हि यदा सर्वश्चितो भवति । तस्माज्जातायान्नप्रदानसममिदमग्निहोत्रमिति । स एनमित्यादि । गतम् ॥
5 ब्रह्मवादिन इत्यादि ॥ यत् यद्येवमेष गार्हपत्यश्चीयते अग्नेरेव होमात् अथेदानीं क्वास्य भवति यः यत्र देवताभ्यो हूयत इति ब्रह्मवादिन आहुः । अत्रोत्तरमित्थं ब्रूयादित्याह - असावादित्य इति । अथाहवनीयत्वं समर्थयते - एतस्मिन्हीति । यत् सर्वाभ्यो देवताभ्यः हुतं तदेतस्मिन् तिष्ठतीति । यथा - अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते इति । तस्मात्स एवाहवनीयो भवतीति । य एवमित्यादि । गतम् ॥
6 अथ राष्ट्रभृत उपदधाति - अग्ने यशस्विन्नित्याद्याश्चतस्त्रः सर्वाः त्रिष्टुभः, प्रथमा जगती वा ॥ तत्र प्रथमां - हे अग्ने यशस्विन् इमं यजमानं यशसा अर्पय प्रापय । 'नामन्त्रिते समानाधिकरणे' इति पूर्वस्यामन्त्रितस्य अविद्यमानत्वाभावः । इन्द्रावतीं इन्द्रयोग्यां अपचितीं पूजां इह अस्मिन्कर्मणि आवह आनय इन्द्रयोग्यां पूजां यथाऽयं समर्थस्स्यात् तथा कुर्वित्यर्थः । उभयत्रापि वर्णव्यत्ययेन दीर्घत्वम् । किमर्थमित्याह - अयं यजमानः मूर्धा प्रधानभूतः परमे महिम्नि स्थितः । उणादिषु निपात्यते । सुवर्चाः शोभनदीप्तिः । 'सोर्मनसी' इत्युत्तरपदाद्युदात्तत्वम् । समानानां समानजातानां मध्ये उत्तमश्लोक: उत्तमकीर्तिश्चास्तु एवमर्थ इति । उत्तमशब्द उञ्छादिरन्तोदात्तः ॥
7 अथ द्वितीया - भद्रमिति ॥ भद्रं कल्याणं फलं पश्यन्तः शास्त्रदृष्ट्या विचिन्वानाः तपश्च उपसल्लक्षणं दीक्षां चाग्रे उपसेदुः उपासाञ्चक्रिरे ऋषयः सुवर्विदः परमसुखज्ञाः । ततश्च तेषां क्षत्रं धनं वलं सामर्थ्यं ओजो दीप्तिश्च जातं भद्रं उत्पादितं तद्भद्रमस्मै यजमानाय देवा अभिसन्नमन्तु आभिमुख्येनानयन्तु ॥
8 अथ तृतीया - धातेति ॥ धाता धारकः विधाता विधारकः परमो रक्षितः परमस्रष्टा उत अपि च परमात्मा संदृक् उत्तमो द्रष्टा अचितदशिः [अवितथदर्शी] परमेश्वरः प्रजापतिः हिरण्यगर्भः परमेष्ठी परमे कारणभावे स्थितः परमात्मा विराजा एकस्रष्ट्रा सह स्तोमास्त्रिवृदादयः छन्दांसि गायत्र्यादीनि निविदः शस्त्राणि निविदः पदान्येव वा सर्वाण्येतानि मे आहुः । कथमेतस्मै यजमानाय राष्ट्रं पदसमूहं आभिमुख्येन संनमामेति राष्ट्रस्याभिसन्नमने आभिमुख्यं भजतामित्यर्थः ॥
9 अथ चतुर्थी - अभ्यावर्तध्वमिति ॥ मनुष्या उच्यन्ते । अभ्यावर्तध्वं आभिमुख्येनास्माकमागच्छतम् । उपरक्ताः परागच्छत । 'गतिर्गतौ' इति प्रथमो गतिः अनुदात्तः । तेन पृथक् पदत्वाभावः । सर्वेऽपि साकं सम्भूय ऐकमत्यं गता मामुपेत उपगच्छत । धातूपसर्गसंयोगे कृते 'ओमाङोश्च' इति पररूपत्वम् । इदमुच्यध्वे - वः युष्काकं अयं यजमानः शास्ता अधिपतिश्चास्तु । 'ग्रसितस्कभित' इत्यादौ शास्तेति इडभावो निपात्यते । इदं चाप्युच्यध्वे - अयमप्यस्य यजमानस्य विज्ञानमनुसंरभध्वं यथाऽनेन विज्ञातं तथाऽनुसरन्तः कर्माण्यारभध्वम् । पश्चादिमं जीवन्तमनुजीवाथ सर्वेऽपि यद्ययं जीवति ततो यूयं जीवय । तस्मादिमं जीवन्तमनुजीवतेति । लेट्याडागमः ॥
10 अथासां ब्राह्मणम् - राष्ट्रभृत इत्यादि ॥ एषेति । एषा राष्ट्रमेवेति विधेयीकृतराष्ट्रतां दर्शयितुं ताच्छब्द्यम् । तदारभ्य नास्मात् राष्ट्रं भ्रंशत इति ॥
इति पञ्चमे सप्तमे चतुर्थोनुवाकः ॥
पञ्चशत् 2 #
TS 5.7.4.2 TS 5.7.4.2
-मि॒च्छमा॑न॒स्तस्मा॑ ए॒तद्-भा॑ग॒धेयं॒ प्राय॑च्छन्ने॒तद्वा अ॒ग्नेर॑ग्निहो॒त्रमे॒तर्.हि॒ खलु॒ वा ए॒ष जा॒तो यर्.हि॒ सर्व॑श्चि॒तो जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ स ए॑नं प्री॒तः प्री॑णाति॒ वसी॑यान् भवति ब्रह्मवा॒दिनो॑ वदन्ति॒ यदे॒ष गार्.ह॑पत्यश्ची॒यतेऽथ॒ क्वा᳚स्याऽऽहव॒नीय॒ इत्य॒सावा॑दि॒त्य इति॑ ब्रूयादे॒तस्मि॒न्॒.हि सर्वा᳚भ्यो दे॒वता᳚भ्यो॒ जुह्व॑ति॒ - [ ]
पदपाठः (Word-by-word)
इ॒च्छमा॑नः । तस्मै᳚ । ए॒तत् । भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । प्रेति॑ । अ॒य॒च्छ॒न्न् । ए॒तत् । वै । अ॒ग्नेः । अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् । ए॒तर्.हि॑ । खलु॑ । वै । ए॒षः । जा॒तः । यर्.हि॑ । सर्वः॑ । चि॒तः । जा॒ताय॑ । ए॒व । अ॒स्मै॒ । अन्न᳚म् । अपीति॑ । द॒धा॒ति॒ । सः । ए॒न॒म् । प्री॒तः । प्री॒णा॒ति॒ । वसी॑यान् । भ॒व॒ति॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ । यत् । ए॒षः । गार्.ह॑पत्य॒ इति॒ गार्.ह॑-प॒त्यः॒ । ची॒यते᳚ । अथ॑ । क्व॑ । अ॒स्य॒ । आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीयः॑ । इति॑ । अ॒सौ । आ॒दि॒त्यः । इति॑ । ब्रू॒या॒त् । ए॒तस्मिन्न्॑ । हि । सर्वा᳚भ्यः । दे॒वता᳚भ्यः । जुह्व॑ति ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.7.4.3 TS 5.7.4.3
य ए॒वं ॅवि॒द्वान॒ग्निं चि॑नु॒ते सा॒क्षादे॒व दे॒वता॑ ऋद्ध्नो॒त्यग्ने॑ यशस्वि॒न्॒ यश॑से॒ मम॑र्प॒येन्द्रा॑वती॒ मप॑चिती मि॒हाऽऽव॑ह । अ॒यं मू॒र्द्धा प॑रमे॒ष्ठी सु॒वर्चाः᳚ समा॒नाना॑मुत्त॒म श्लो॑को अस्तु ॥भ॒द्रं पश्य॑न्त॒ उप॑ सेदु॒रग्रे॒ तपो॑ दी॒क्षामृष॑यः सुव॒र्विदः॑ । ततः॑ क्ष॒त्रं बल॒मोज॑श्च जा॒तं तद॒स्मै दे॒वा अ॒भि सं न॑मन्तु ॥ धा॒ता वि॑धा॒ता प॑र॒मो - [ ]
पदपाठः (Word-by-word)
यः । ए॒वम् । वि॒द्वान् । अ॒ग्निम् । चि॒नु॒ते । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । दे॒वताः᳚ । ऋ॒द्ध्नो॒ति॒ । अग्ने᳚ । य॒श॒स्वि॒न्न् । यश॑सा । इ॒मम् । अ॒र्प॒य॒ । इन्द्रा॑वती॒मितीन्द्र॑ - व॒ती॒म् । अप॑चिती॒मित्यप॑ - चि॒ती॒म् । इ॒ह । एति॑ । व॒ह॒ ॥ अ॒यम् । मू॒द्‌र्धा । प॒र॒मे॒ष्ठी । सु॒वर्चा॒ इति॑ सु - वर्चाः᳚ । स॒मा॒नाना᳚म् । उ॒त्त॒मश्लो॑क॒ इत्यु॑त्त॒म - श्लो॒कः॒ । अ॒स्तु॒ ॥ भ॒द्रम् । पश्य॑न्तः । उपेति॑ । से॒दुः॒ । अग्रे᳚ । तपः॑ । दी॒क्षाम् । ऋष॑यः । सु॒व॒र्विद॒ इति॑ सुवः - विदः॑ ॥ ततः॑ । क्ष॒त्रम् । बल᳚म् । ओजः॑ । च॒ । जा॒तम् । तत् । अ॒स्मै । दे॒वाः । अ॒भि । समिति॑ । न॒म॒न्तु॒ ॥ धा॒ता । वि॒धा॒तेति॑ वि - धा॒ता । प॒र॒मा ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.7.4.4 TS 5.7.4.4
-त स॒न्दृक् प्र॒जाप॑तिः परमे॒ष्ठी वि॒राजा᳚ । स्तोमाः॒ छन्दाꣳ॑सि नि॒विदो॑ म आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भि सं न॑माम ॥अ॒भ्याव॑र्तद्ध्व॒मुप॒ मेत॑ सा॒कम॒यꣳ शा॒स्ताऽधि॑पतिर्वो अस्तु । अ॒स्य वि॒ज्ञान॒मनु॒ सꣳ र॑भद्ध्वमि॒मं प॒श्चादनु॑ जीवाथ॒ सर्वे᳚ ॥रा॒ष्ट्र॒भृत॑ ए॒ता उप॑ दधात्ये॒षा वा अ॒ग्नेश्चिती॑ राष्ट्र॒भृत् तयै॒वास्मि॑न् रा॒ष्ट्रं द॑धाति ( ) रा॒ष्ट्रमे॒व भ॑वति॒ नास्मा᳚द् रा॒ष्ट्रं भ्रꣳ॑शते ॥
पदपाठः (Word-by-word)
उ॒त । स॒दृंगिति॑ सं - दृक् । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प॒र॒मे॒ष्ठी । वि॒राजेति॑ वि - राजा᳚ ॥ स्तोमाः᳚ । छन्दाꣳ॑सि । नि॒विद॒ इति॑ नि - विदः॑ । मे॒ । आ॒हुः॒ । ए॒तस्मै᳚ । रा॒ष्ट्रम् । अ॒भि । समिति॑ । न॒मा॒म॒ ॥ अ॒भ्याव॑र्तद्ध्व॒मित्य॑भि - आव॑र्तद्ध्वम् । उपेति॑ । मा॒ । एति॑ । इ॒त॒ । सा॒कम् । अ॒यम् । शा॒स्ता । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । वः॒ । अ॒स्तु॒ ॥ अ॒स्य । वि॒ज्ञान॒मिति॑ वि - ज्ञान᳚म् । अनु॑ । समिति॑ । र॒भ॒द्ध्व॒म् । इ॒मम् । प॒श्चात् । अन्विति॑ । जी॒वा॒थ॒ । सर्वे᳚ ॥ रा॒ष्ट्र॒भृत॒ इति॑ राष्ट्र - भृतः॑ । ए॒ताः । उपेति॑ । द॒धा॒ति॒ । ए॒षा । वै । अ॒ग्नेः । चितिः॑ । रा॒ष्ट्र॒भृदिति॑ राष्ट्र - भृत् । तया᳚ । ए॒व । अ॒स्मि॒न्न् । रा॒ष्ट्रम् । द॒धा॒ति॒ ( ) । रा॒ष्ट्रम् । ए॒व । भ॒व॒ति॒ । न । अ॒स्मा॒त् । रा॒ष्ट्रम् । भ्रꣳ॒॒श॒ते॒ ॥
पदसंख्या: 57