पञ्चशत् 1 #
मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निꣳ रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य । मयि॑ प्र॒जां मयि॒ वर्चो॑ दधा॒म्यरि॑ष्टाः स्याम त॒नुवा॑ सु॒वीराः᳚ ॥यो नो॑ अ॒ग्निः पि॑तरो हृ॒थ्स्व॑न्तरम॑र्त्यो॒ मर्त्याꣳ॑ आवि॒वेश॑ । तमा॒त्मन् परि॑ गृह्णीमहे व॒यं मा सो अ॒स्माꣳ अ॑व॒हाय॒ परा॑ गात् ॥ यद॑द्ध्व॒र्युरा॒त्मन्न॒ग्निम-गृ॑हीत्वा॒ऽग्निं चि॑नु॒याद्यो᳚ऽस्य॒ स्वो᳚ऽग्निस्तमपि॒ - [ ]
पदपाठः (Word-by-word)
मयि॑ । गृ॒ह्णा॒मि॒ । अग्रे᳚ । अ॒ग्निम् । रा॒यः । पोषा॑य । सु॒प्र॒जा॒स्त्वायेति॑ सुप्रजाः - त्वाय॑ । सु॒वीर्या॒येति॑ सु - वीर्या॑य ॥ मयि॑ । प्र॒जामिति॑ प्र - जाम् । मयि॑ । वर्चः॑ । द॒धा॒मि॒ । अरि॑ष्टाः । स्या॒म॒ । त॒नुवा᳚ । सु॒वीरा॒ इति॑ सु - वीराः᳚ ॥ यः । नः॒ । अ॒ग्निः । पि॒त॒रः॒ । हृ॒थ्स्विति॑ हृत् - सु । अ॒न्तः । अम॑र्त्यः । मर्त्यान्॑ । आ॒वि॒वेशेत्या᳚ - वि॒वेश॑ ॥ तम् । आ॒त्मन्न् । परीति॑ । गृ॒ह्णी॒म॒हे॒ । व॒यम् । मा । सः । अ॒स्मान् । अ॒व॒हायेत्य॑व - हाय॑ । परेति॑ । गा॒त् ॥ यत् । अ॒द्ध्व॒र्युः । आ॒त्मन्न् । अ॒ग्निम् । अगृ॑हीत्वा । अ॒ग्निम् । चि॒नु॒यात् । यः । अ॒स्य॒ । स्वः । अ॒ग्निः । तम् । अपीति॑ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 आत्मन्यग्निं गृह्णीते - मयि गृह्णामीति द्वाभ्याम् ॥ त्रिष्टुप् पुरस्ताज्ज्योतिस्त्रिष्टुप् अक्षराधिका । अग्ने प्रथमं चयनात् पूर्वमेवाग्निं मयि गृह्णामि रायो धनस्य पोषाय पुष्ट्यर्थं शोभनापत्यत्वाय शोभनवीर्यत्वाय च । व्याख्यातानि पदानि । किं यजमानस्य रायस्पोषाय दद्युरिति, नेत्याह - मयि प्रजां प्रजादिकं च मयि वर्चो बलं च दधामि धारयेय मम तेजो माक्रमेदित्यनेन अभिप्रायेण मयि गृह्णामीति । 'यदध्वर्युरात्मन्' इत्यादिकं ब्राह्मणमिदानीमेव भविष्यति । किञ्च - सर्वेऽपि वयं पुत्रपात्रादिसहिताः सुवीराश्शोभनापत्या अरिष्टा अनुपहिंसिताश्च तनुवा शोभनेन शरीरेण सहिताः सर्वे स्याम समर्थाश्च ॥
2 अथ द्वितीया - यो न इति ॥ हे पितरः सर्वस्य पितरः । भूतेन्द्रियाण्यामन्त्र्यन्ते यो नोस्मान् हृत्सु हृदयादिषु अन्तर्मध्ये आविवेश अमर्त्य अमरणधर्मा मर्त्यान् मरणशीलान् अस्मानाविवेश तं महानुभावमात्मनि वयं परिगृह्णीमहे । ननु चोक्तमन्तराविवेशेति तत्किमुच्यते आत्मनि परिगृह्णीमहे इति; अत्राभिप्रायमाह - सोऽस्मानपहाय त्यक्त्वा मा परागात् माऽन्यत्र गच्छत्विति । परिग्रहशब्देन अयमर्थो विवक्षित इति दर्शितं भवति ॥
3 अथात्रैव ब्राह्मणम् - यदध्वर्युरित्यादि ॥ अग्निग्रहणविधानार्थम् । यद्यध्वर्युः आभ्यां मन्त्राभ्यां आत्मन्यग्निमगृहीत्वा अग्निं चिनुयात् योस्याध्वर्योः स्व आत्मनि योग्निः तमपि यजमानाय चिनुयात् चयने जह्यात् ततश्चेतुमुपयान्तं पशवोनूपतिष्ठन्ते पश्चादनुद्रुत्य भजन्ते । संगतिकरण आत्मनेपदम् । एवमेतद्युक्तमिति खलुशब्देन द्योत्यते । ततश्च अस्याध्वर्योरपक्रामुकाः अपक्रमणशीलाः पशवस्स्युः । छान्दस उकञ् । मयि गृह्णामीत्यादिना यथोक्तदोषाभावमाचष्टे । दाधारेति छान्दसो लिट् । धारयन्निति । 'तुजादीनाम्' इत्यभ्यासस्य दीर्घत्वम् ॥
4 ब्रह्मवादिन इत्यादि ॥ मृच्च आपश्चेत्येतदुभयमग्नेरनाद्यमभक्ष्यम् । 'ययतोश्चातदर्थे' इत्युत्तरपदान्तोदात्तत्वम् । अथ कस्मात्कारणादनेनाभिमतेन अग्निश्चीयते विरुद्धमिव लक्ष्यते एतदिति ब्रह्मवादिन आहुः । उत्तरम् - यदद्भिरिति । यदद्भिर्मृदं संयौति मिश्रयति आपश्च सर्वदेवतार्थाः । तस्मात्तादृश्या मृदा चयनेन सर्वाभिर्देवताभिः एनमग्निं संसृजति संयोजयति । तस्मान्मृदा चाद्भिश्च अग्निश्चीयते; न किञ्चिदिह विरुद्धमिति ॥
5 एवमद्भिश्चयनं प्रयोजनवदित्युक्तम् । इदानीं मृदा चयने यो गुणः तं दर्शयति - यन्मृदेत्यादि ॥ गतम् । ब्रह्मवादिन इत्यादि । पुनरपि पर्यनुयोगान्तरमत्र कुर्वन्ति - ब्रह्मवादिनः मृदाचाद्भिश्चीयमानोग्निः कस्मात्संबन्धादग्निरुच्यते । अद्भिर्मृदा काष्ठेन वा निष्पादितं हिरण्मयं भवति, तत्त्वं च विरुद्धमिति । समाधत्ते - यच्छन्दोभिरित्यादि । गतम् ॥
6 हिरण्येष्टका इत्यादि ॥ 'तेजोसि तेजो मे यच्छ' इत्याद्या हिरण्येष्टकाष्षष्ठे विहिताः पुनरिह विधीयन्ते । अग्नेरात्मीयतासंपादनार्थम् । यद्वा - अत्रैवासां विधिः, षष्ठे तु क्रमविधिः । ज्योतिर्वा इत्यादि । गतम् ॥
7 यो वा अग्निमित्यादि ॥ सर्वासु दिक्षु मुखानि छन्दांसि यस्य स सर्वतोमुखः, सर्वासु वा दिक्षु मुखं चाग्नेरेभिः छन्दोभिः सर्वतोमुखः । सर्वास्विति निर्धारणे सप्तमी । सर्वासु प्रजासु मध्ये अतिशयेनान्नमत्ति । सर्वाश्च दिशोभिजयति ॥
8 गायत्रीमित्यादि ॥ गतम् । अथो इत्यादि । परस्परसम्बद्धैः छन्दोभिश्चयनात् दिश्येव दिशं प्रवयति । तस्मादिदानीमपि दिशि अन्या दिक् प्रोतेव लक्ष्यते । सर्वा दिशः परस्परं प्रोता इव भवन्ति । कोणासु दिक्षु अन्यासामनुप्रविष्टत्वात् प्रोता इत्युच्यन्ते । वेञः निष्ठायां संप्रसारणं, 'शतुरनुमः' इति गतेः प्रकृतिस्वरत्वम् ॥
इति पञ्चमे सप्तमे नवमोनुवाकः ॥