अनुवाकः 15 TS 5.7.15

(A15)

(मि॒त्रावरु॑णौ॒ - द्वाविꣳ॑शतिः)

अनुवाकः 15 - Complete Audio

TS 5.7.15 - स्वरानुगामी

0:00 0:00
PS1.1 मि॒त्रावरु॑णौ॒ श्रोणी᳚भ्यामिन्द्रा॒ग्नी शि॑ख॒ण्डाभ्या॒-मिन्द्रा॒बृह॒स्पती॑ ऊ॒रुभ्या॒मिन्द्रा॒विष्णू॑
PS1.2 अष्ठी॒वद्भ्याꣳ॑ सवि॒तारं॒ पुच्छे॑न गन्ध॒र्वाञ्छेपे॑ना-फ्स॒रसो॑
PS1.3 मु॒ष्काभ्यां॒ पव॑मानं पा॒युना॑ प॒वित्रं॒
PS1.4 पोत्रा᳚भ्यामा॒क्रम॑णꣳ स्थू॒राभ्यां᳚ प्रति॒क्रम॑णं॒ कुष्ठा᳚भ्यां

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.7.15.1 TS 5.7.15.1
मि॒त्रावरु॑णौ॒ श्रोणी᳚भ्यामिन्द्रा॒ग्नी शि॑ख॒ण्डाभ्या॒-मिन्द्रा॒बृह॒स्पती॑ ऊ॒रुभ्या॒मिन्द्रा॒विष्णू॑ अष्ठी॒वद्भ्याꣳ॑ सवि॒तारं॒ पुच्छे॑न गन्ध॒र्वाञ्छेपे॑ना-फ्स॒रसो॑ मु॒ष्काभ्यां॒ पव॑मानं पा॒युना॑ प॒वित्रं॒ पोत्रा᳚भ्यामा॒क्रम॑णꣳ स्थू॒राभ्यां᳚ प्रति॒क्रम॑णं॒ कुष्ठा᳚भ्यां ॥
पदपाठः (Word-by-word)
मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । श्रोणी᳚भ्या॒मिति॒ श्रोणि॑ - भ्या॒म् । इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी । शि॒ख॒ण्डाभ्या᳚म् । इन्द्रा॒बृह॒स्पती॒ इतीन्द्रा᳚ - बृह॒स्पती᳚ । ऊ॒रुभ्या॒मित्यू॒रु - भ्या॒म् । इन्द्रा॒विष्णू॒ इतीन्द्रा᳚ - विष्णू᳚ । अ॒ष्ठी॒वद्भ्या॒मित्य॑ष्ठी॒वत् - भ्या॒म् । स॒वि॒तार᳚म् । पुच्छे॑न । ग॒न्ध॒र्वान् । शेपे॑न । अ॒फ्स॒रसः॑ । मु॒ष्काभ्या᳚म् । पव॑मानम् । पा॒युना᳚ । प॒वित्र᳚म् । पोत्रा᳚भ्याम् । आ॒क्रम॑ण॒मित्या᳚ - क्रम॑णम् । स्थू॒राभ्या᳚म् । प्र॒ति॒क्रम॑ण॒मिति॑ प्रति - क्रम॑णम् । कुष्ठा᳚भ्याम् ॥
पदसंख्या: 22
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 मित्रावरुणौ श्रोणीभ्यां गतः । प्रथमस्य 'देवताद्वन्द्वे च' इत्युत्तरपदपरत्वात् आनङ् । द्वितीयस्य संहितायां छान्दसं दीर्धत्वम् । इन्द्राग्नी प्रसिद्धे । 'नोत्तरपदेऽनुदात्तादौ' इत्याद्युदात्तत्वाभावः । शिखण्डे केशचूडे । इन्द्राबृहस्पती उरुभ्यां गतम् । 'देवताद्वन्द्वे च' इति आनङ् । इन्द्राविष्णू गतम् । अष्ठीवद्भ्यां जानुभ्याम् । सवितारं पुच्छेन । गन्धर्वान् शेपेन गतम् । अप्सरसः प्रसिद्धाः । मुष्के बीजे । पवमानं पायु गतम् । पवित्रं पावनहेतुः । पोत्रे घोणास्थीनि । आक्रमणं आक्रमणसामर्थ्यम् । स्थूराभ्याम् पादपरार्धमणिभ्याप् । प्रतिक्रमणं प्रतिक्रमणसामर्थ्यम् । कुष्ठाभ्यां हस्तापरार्धमणिभ्याम् ॥
इति पञ्चमे सप्तभे पञ्चदशोनुवाकः ॥