अनुवाकः 2 TS 5.7.2

(A2)

(प्र॒जा॒प॒त्यां - ॅलो॒काय॑ - देवाः - पितो - दध्यादाग्रय॒णं - पञ्च॑विꣳशतिश्च)

अनुवाकः 2 - Complete Audio

TS 5.7.2 - स्वरानुगामी

0:00 0:00
PS1.1 त्वाम॑ग्ने वृष॒भं चेकि॑तानं॒ पुन॒र्युवा॑नं ज॒नय॑न्नु॒पागां᳚
PS1.2 अ॒स्थू॒रि णो॒ गार्.ह॑पत्यानि सन्तु
PS1.3 ति॒ग्मेन॑ नो॒ ब्रह्म॑णा॒ सꣳ
PS1.4 शि॑शाधि
PS1.5 प॒शवो॒ वा ए॒ते यदिष्ट॑का॒श्चित्यां᳚
PS1.6 चित्यामृष॒भमुप॑ दधाति मिथु॒नमे॒वास्य॒ तद्-य॒ज्ञे
PS1.7 क॑रोति प्र॒जन॑नाय॒ तस्मा᳚द्-यू॒थेयू॑थ ऋष॒भः
PS1.8 सं॒ॅव॒थ्स॒रस्य॑ प्रति॒मां ॅयां त्वा॑ रात्र्यु॒पास॑ते
PS1.9 प्र॒जाꣳ सु॒वीरां᳚ कृ॒त्वा विश्व॒मायु॒र्व्य॑श्नवत्
PS1.10 प्रा॒जा॒प॒त्या - [ ]
PS2.1 -मे॒तामुप॑ दधाती॒यं ॅवा वैषैका᳚ष्ट॒का
PS2.2 यदे॒वैका᳚ष्ट॒काया॒मन्नं॑ क्रि॒यते॒ तदे॒वैतयाव॑ रुन्ध
PS2.3 ए॒षा वै प्र॒जाप॑तेः काम॒दुघा॒
PS2.4 तयै॒व यज॑मानो॒ऽमुष्मि॑न् ॅलो॒के᳚ऽग्निं दु॑हे॒
PS2.5 येन॑ दे॒वा ज्योति॑षो॒र्द्ध्वा उ॒दाय॒न्॒
PS2.6 येना॑ऽऽदि॒त्या वस॑वो॒ येन॑ रु॒द्राः
PS2.7 येनाङ्गि॑रसो महि॒मान॑-मान॒शुस्तेनै॑तु॒ यज॑मानः स्व॒स्ति
PS2.8 सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑
PS2.9 - [ ]
PS3.1 चीयते॒ यद॒ग्निर्येन॑ दे॒वा ज्योति॑षो॒र्द्ध्वा
PS3.2 उ॒दाय॒न्नित्युख्यꣳ॒॒ समि॑न्ध॒ इष्ट॑का ए॒वैता
PS3.3 उप॑ धत्ते वानस्प॒त्याः सु॑व॒र्गस्य॑
PS3.4 लो॒कस्य॒ सम॑ष्ट्यै श॒तायु॑धाय श॒तवी᳚र्याय
PS3.5 श॒तोत॑ये ऽभिमाति॒षाहे᳚
PS3.6 श॒तं ॅयो नः॑ श॒रदो॒
PS3.7 अजी॑ता॒निन्द्रो॑ नेष॒दति॑ दुरि॒तानि॒ विश्वा᳚
PS3.8 ये च॒त्वारः॑ प॒थयो॑ देव॒याना॑
PS3.9 अन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑
PS3.10 तेषां॒ ॅयो अज्या॑नि॒- मजी॑ति-मा॒वहा॒त्
PS3.11 तस्मै॑ नो देवाः॒ -
PS3.12 [ ]
PS4.1 परि॑ दत्ते॒ह सर्वे᳚
PS4.2 ग्री॒ष्मो हे॑म॒न्त उ॒त नो॑
PS4.3 वस॒न्तः श॒रद् व॒र्॒.षाः सु॑वि॒तन्नो॑
PS4.4 अस्तु
PS4.5 तेषा॑मृतू॒नाꣳ श॒त शा॑रदानां निवा॒त
PS4.6 ए॑षा॒मभ॑ये स्याम
PS4.7 इ॒दु॒व॒थ्स॒राय॑ परिवथ्स॒राय॑ संवॅथ्स॒राय॑ कृणुता बृ॒हन्नमः॑
PS4.8 तेषां᳚ ॅव॒यꣳ सु॑म॒तौ य॒ज्ञिया॑नां॒
PS4.9 ज्योगजी॑ता॒ अह॑ताः स्याम
PS4.10 भ॒द्रान्नः॒ श्रेयः॒ सम॑नैष्ट देवा॒स्त्वया॑ऽव॒सेन॒
PS4.11 सम॑शीमहि त्वा
PS4.12 स नो॑ मयो॒ भूः
PS4.13 पि॑तो॒ - [ ]
PS5.1 आ वि॑शस्व॒ शं तो॒काय॑
PS5.2 त॒नुवे᳚ स्यो॒नः
PS5.3 अज्या॑नीरे॒ता उप॑ दधात्ये॒ता वै
PS5.4 दे॒वता॒ अप॑राजिता॒स्ता ए॒व प्र
PS5.5 वि॑शति॒ नैव जी॑यते ब्रह्मवा॒दिनो॑
PS5.6 वदन्ति॒ यद॑र्द्धमा॒सा मासा॑ ऋ॒तवः॑
PS5.7 संॅवथ्स॒र ओष॑धीः॒ पच॒न्त्यथ॒ कस्मा॑द॒न्याभ्यो॑
PS5.8 दे॒वता᳚भ्य आग्रय॒णं निरु॑प्यत॒ इत्ये॒ता
PS5.9 हि तद्-दे॒वता॑ उ॒दज॑य॒न्॒ यदृ॒तुभ्यो॑
PS5.10 नि॒र्वपे᳚द् दे॒वता᳚भ्यः स॒मदं॑ दद्ध्यादाग्रय॒णं
PS5.11 ( ) नि॒रुप्यै॒ता आहु॑ती
PS5.12 र्जुहोत्यर्द्धमा॒साने॒व मासा॑नृ॒तून्थ् सं॑ॅवथ्स॒रं प्री॑णाति॒
PS5.13 न दे॒वता᳚भ्यः स॒मदं॑ दधाति
PS5.14 भ॒द्रान्नः॒ श्रेयः॒ सम॑नैष्ट देवा॒
PS5.15 इत्या॑ह हु॒ताद्या॑य॒ यज॑मान॒स्याऽ*प॑राभावाय

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.7.2.1 TS 5.7.2.1
त्वाम॑ग्ने वृष॒भं चेकि॑तानं॒ पुन॒र्युवा॑नं ज॒नय॑न्नु॒पागां᳚ । अ॒स्थू॒रि णो॒ गार्.ह॑पत्यानि सन्तु ति॒ग्मेन॑ नो॒ ब्रह्म॑णा॒ सꣳ शि॑शाधि ॥प॒शवो॒ वा ए॒ते यदिष्ट॑का॒श्चित्यां᳚ चित्यामृष॒भमुप॑ दधाति मिथु॒नमे॒वास्य॒ तद्-य॒ज्ञे क॑रोति प्र॒जन॑नाय॒ तस्मा᳚द्-यू॒थेयू॑थ ऋष॒भः ॥ सं॒ॅव॒थ्स॒रस्य॑ प्रति॒मां ॅयां त्वा॑ रात्र्यु॒पास॑ते । प्र॒जाꣳ सु॒वीरां᳚ कृ॒त्वा विश्व॒मायु॒र्व्य॑श्नवत् ॥ प्रा॒जा॒प॒त्या - [ ]
पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । वृ॒ष॒भम् । चेकि॑तानम् । पुनः॑ । युवा॑नम् । ज॒नयन्न्॑ । उ॒पागा॒मित्यु॑प- आगा᳚म् ॥ अ॒स्थू॒रि । नः॒ । गार्.ह॑पत्या॒नीति॒ गार्.ह॑ - प॒त्या॒नि॒ । स॒न्तु॒ । ति॒ग्मेन॑ । नः॒ । ब्रह्म॑णा । समिति॑ । शि॒शा॒धि॒ ॥ प॒शवः॑ । वै । ए॒ते । यत् । इष्ट॑काः । चित्या᳚चिंत्या॒मिति॒ चित्यां᳚ - चि॒त्या॒म् । ऋ॒ष॒भम् । उपेति॑ । द॒धा॒ति॒ । मि॒थु॒नम् । ए॒व । अ॒स्य॒ । तत् । य॒ज्ञे । क॒रो॒ति॒ । प्र॒जन॑ना॒येति॑ प्र - जन॑नाय । तस्मा᳚त् । यू॒थेयू॑थ॒ इति॑ यू॒थे - यू॒थे॒ । ऋ॒ष॒भः ॥ सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । प्र॒ति॒मामिति॑ प्रति - माम् । याम् । त्वा॒ । रा॒त्रि॒ । उ॒पास॑त॒ इत्यु॑प - आस॑ते ॥ प्र॒जामिति॑ प्र- जाम् । सु॒वीरा॒मिति॑ सु - वीरा᳚म् । कृ॒त्वा । विश्व᳚म् । आयुः॑ । वीति॑ । अ॒श्न॒व॒त् ॥ प्रा॒जा॒प॒त्यामिति॑ प्राजा - प॒त्याम् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 चित्याञ्चित्यामृषभमुपदधाति - त्वामग्न इति त्रिष्टुभा ॥ हे अग्ने त्वां वृषभं वर्षितारं कामानां चेकितानं सर्वस्य ज्ञातारम् । कित ज्ञाने, लुगन्तः । छान्दसस्य लिटः कानजादेशः । ईदृशं त्वां युवानं जनयन् प्रजार्थं कुर्वन् । हेतौ शतृप्रत्ययः । पुनःपुनरुपागां आभिमुख्येनोपगच्छामि । छान्दसो लुङ्, 'गतिर्गतौ' इति पूर्वो गतिर्निहन्यते । अस्थूरि अस्थूरीणि असारवन्ति अनोवहनसामर्थ्यं स्थौल्यं सारत्वं, तद्रहितानि । 'सुपां सुलुक्' इति शेर्लुक् 'शेश्छन्दसि' इति हेर्लोपे दीर्घत्वं स्यात् । ईदृशानि गार्हपत्यानि गृहपतितुल्यानि स्वामिभावाः नः अस्माकं सन्तु । छान्दसं सांहितिकं णत्वम् । यथोक्तं प्रातिशाख्ये - 'षुषूकृधिसुवस्समिन्द्रास्थूरि' इति । किञ्च - तिग्मेन ब्रह्मणा ब्रह्मवर्चसेन नः अस्मान् संशिशाधि सम्यक् शितान् कुरु । यद्वा - ब्रह्मणा अध्ययनादिना कर्मणा संशितव्रतात् कुरु । श्यतेर्लेटि 'बहुलं छन्दसि' इति शपश्श्लुः, इत्वं चाभ्यासस्य 'वा छन्दसि' इति इत्वप्रतिषेधेन ङित्त्वाभावात् 'ङितश्च' इति इगभावः ॥
2 अथात्रैव ब्राह्मणम् - पशवो वा इत्यादि ॥ गतम् । तस्मादित्यादि । तस्मादिदानीं यूथेयूथे ऋषभः सञ्चरति । 'अनुदात्तं च' इति द्वितीयो निहन्यते ॥
3 प्राजापत्यामिष्टकां उपदधाति - संवत्सरस्येत्यनुष्टुभा ॥ हे रात्रि एकाष्टके । 'कृदिकारादक्तिनः' इति ङीष् । संवत्सरस्य प्रतिमां प्रतिनिधिम् । 'एतस्यां वा एष एतां रात्रिं वसति' इति वचनात्संवत्सरतुल्यां यां त्वां सर्वेऽप्युपासते त्वा त्वां कृत्वा उपधाय प्रजां सुवीरां शोभनपुत्रादिकां यजमानो विश्वं चायुः पुरुषायुषं व्यश्नवत् प्राप्नोति । अश्नोतेर्लेटि व्यत्ययेन परस्मैपदं, 'लेटोडाटौ' इत्यडागमः । 'शात्' इति प्रतिषेधं बाधित्वा व्यत्ययेन नकारस्य ञकारः 'वीरवीर्यौ च' इति सुवीरे उत्तरपदाद्युदात्तत्वम् ॥
4 अत्रैव ब्राह्मणम् - प्राजापत्यामित्यादि ॥ इयमेव पृथिवी । एषा एकाष्टका रात्रिः । तस्माद्यदेवान्नं अष्टकादिकं एकाष्टकायां क्रियते तदेतया इष्टकया अवरुन्धे । अन्नाधारत्वादस्याः सर्वान्नाधारपृथिवीत्वेन स्तुतिः कृता ॥
5 एषा वा इत्यादि ॥ प्रजापतेः सर्वान् कामान् एषा दुग्धवती । तस्मादियं प्राजापत्येति भावः । 'दुहः कब्धश्च' इति कप्रत्ययः । यस्मादेवं तस्माद्यजमानोपि अमुष्मिन् भोगस्थाने अग्निं दुहे दुग्धे सर्वान्कामान् । 'लोपस्त आत्मनेपदेषु' इति तलोपः ॥
6 उख्यमुपसमिन्धे - येन देवा इत्यादित्रिष्टुभा ॥ येन ज्योतिषा दीप्त्या देवा ऊर्ध्वमायन् ऊर्ध्वगतय उदायम् गताः स्वर्गिणोऽभवन् । येन चादित्या वसवो रुद्राश्च ऊर्ध्वा उदायन्न् येन ज्योतिषाऽङ्गिरसो महिमानं महत्त्वमानशुः प्राप्ताः । अश्नोतेर्व्यत्ययेन परस्मैपदम्, 'अश्नोतेश्च' इति नुट् । तेन ज्योतिषा यनमानोपि स्वस्ति अविनाशं स्यानमेतु, अविनाशं वा स्थानमविघ्नेन गच्छतु ॥
7 अथात्रैव ब्राह्मणम् - सुवर्गायेत्यादि ॥ गतम् । इष्टका एवेति । वानस्पत्या इष्टका एता उपधत्ते । याभिस्समिद्भिरुपसमिन्धे तत्सुवर्गस्य समष्ट्यै प्राप्त्यै भवति । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ॥
8 अज्यानीरुपदधाति - शतायुधायेत्याद्याः पञ्च सर्वास्त्रिष्टुभः ॥ य इन्द्रः शतं शरदो वत्सरान्नः अस्मान् । अजीतान् अक्षीणान् व्याध्यादिभिः अपीडितान् । ज्या वयोहानौ, ग्रहिज्यादिना स्रंप्रसारणम् । यद्वा - अजितान् । छान्दसं दीर्घत्वं जयतेः । नेषत् नेतुं समर्थ अर्हो वा । विश्वानि दुरितानि अतीत्य विनिवार्य नेतुं य एव समर्थः । नयतेर्लेटि 'सिब्बहुलं लेटि' इति सिप अडागमः । तस्मै शतायुधाय बह्वायुधाय (बहुलं लाय) शतोतये बहुरक्षणाय अभिमातिषाहे पापानामभिभवित्रे । 'छन्दसि सहः' इति ण्विः, सुषामादित्वात् षत्वम् । चतुर्थीसामर्थ्यात् न इत्याध्रिह्रियते ॥
9 अथ द्वितीया - ये चत्वार इति ॥ देवयाना देवाः प्राप्यन्ते यैः तादृशाः ये चत्वारः पथयः पन्थानः । छान्दसो नलोपः । द्यावापृथिवी अन्तरा द्यावापृथिव्योर्मध्ये । 'अन्तराऽन्तरेण' इति द्वितीया, 'दिवो द्यावा' इति द्यावादेशः 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । 'देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । वियन्ति विविधं गच्छन्ति । 'यद्वृत्तान्नित्यम्' इति निघाते प्रतिषिद्धे 'तिङि चोदात्तवति' इति गतेरनुदात्तत्वम् । केचिदाहुः - चत्वार आश्रमाः गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थमिति चत्वारः पन्थान उच्यन्त इति । अन्य आहुः - देवपितृमनुष्ययानस्थानमार्गास्त्रयः ब्रह्मलोकमार्ग एक इति चत्वारो मार्गा इति । तेषां मार्गाणां सामर्थ्यात् तैर्मार्गैर्गच्छतामस्माकं; यथा लोके अनुपद्रवोऽयं पन्था इत्युक्तौ गन्तॄणामेवानुपद्रवो गम्यते । अज्यानिं अनुपक्षयम् । 'ग्लाम्लाज्याहाभ्यो निः' इति निः । अजीतिं अपराभवं शत्रूणामजितत्वम् । जयतेः छान्दसं दीर्घत्वम् । य आवहात् मर्यादया वहति नयति । लेट्याडागमः । हे देवाः सर्वेऽपि यूयं कस्मै देवाय नः अस्मान् परिदत्त रक्षार्थं दत्त । यथा सोस्मान् रक्षति तथा सर्वेऽपि यूयं अनुजानीत इह अस्मिन्कर्मणि । निमित्तात् सप्तमी । अनेन कर्मणा हेतुनेति यावत् ॥
10 अथ तृतीया - ग्रीष्मो हेमन्त इति ॥ हेमन्तग्रहाणेन शिशिरस्यापि ग्रहणं, तयोरेकत्वात् 'पञ्च वा ऋतवः' इति । यथा एते ग्रीष्मादयः अस्माकं सुवितं शोभनगतिहेतवः सूतिहेतवो वा भवन्तु । प्रत्येकविवक्षया एकवचनम् । क्रमविशेषाश्रयणे कारणं चिन्त्यम् । शोभनमितं सुवितं शोभना गतिः । तन्वादित्वादुवङ् । विनादित्वादनवग्रहः । पक्षान्तरे छान्दस इडागमः । किञ्च - शतशारदानां तेषामृतूनां शतसंवत्सराणां शतसंवत्सरसम्बन्धिनाम् । शरच्छब्दात् संवत्सरवचनात् स्वार्थिकोण् । यद्वा - शरदि संवत्सरे भवाः परिवत्सरादयः शारदाः । तेन बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । निवाते वातरहिते अभये भयाभावे स्याम एधि कृतं [अविकृतं] यदभयं भवति निवृत्तिं यत्र वातोपि स्पन्दितुं न शक्नोति तत्र वयं स्याम वर्तेमहि । 'नेरनिधाने' इति निवाते उत्तरपदान्तोदात्तत्वम् । अभये अव्ययपूर्वपदप्रकृतिस्वरत्वम्, एषामित्यन्वादेशोनुदात्तः ॥
11 अथ चतुर्थी - इदुवत्सरायेति ॥ इदुवत्सरस्तृतीयः । परिवत्सरो द्वितीयः । संवत्सरो वर्तमानः । अत्र द्वितीयतृतीययोः 'संपरिपूर्वाच्च' इति सरच्प्रत्ययः । अत्रोपपदविधानात् । कृदुत्तरपदप्रकृतिस्वरत्वम् । अथवा - इद्वत्सरशब्दे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अत्र व्यत्ययेन 'नञ् कुनिपातानाम्' इति वचनात् अव्ययपूर्वपदप्रकृतिस्वराभावे सामासान्तोदात्तत्वमेव । एभ्यो बृहन्नमः नमस्कारं कृणुत कुरुत । 'धिन्विकृण्व्योरच' उत्युप्रत्ययः 'अन्येषामपि दृश्यते' इति संहितायां दीर्घत्वम् । किं प्रयोजनमित्याह - तेषामिति । यथा तेषां यज्ञियानां यज्ञसंपादनार्हाणां सुमतौ शोभनमतौ अनुग्रहे वयं स्याम पात्रं भवेम तथा नमस्कृरुतेति । अनुग्रहफलं दर्शयति - ज्योगजीता इति । केनचिदप्यपराजिता अहताः अनुपहिंसिता यथा भवेम तथा तेषां सुमतौ स्याम इति । सुमतौ 'नञ् सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् ॥
12 अथ पञ्चमी - भद्रादिति ॥ हे देवाः भद्रात् कल्याणात् अस्माद्वर्तमानात् श्रेयः प्रशस्यतरं भद्रं अस्मभ्यं समनैष्ट सम्यङ्नयत । छान्दसो लुङ् । हे सोम त्वया अवसेन रक्ष्येण भक्ष्यमाणेन यथा त्वां समशीमहि सम्यग्व्याप्नुयामः पुनःपुनः तव पातारः स्याम 'बहुलं छन्दसि' इति अश्नोतेः शपो लुक् । अत्रावसश्रुतेः सोम आमन्त्र्यत इति गम्यते । स त्वं हे पितो अन्नभूतः मयोभूः मयसस्सुखस्य भावयिता स नः अस्मानाविशस्व अस्माकं शरीरं प्रविश । व्यत्ययेनात्मनेपदम् । तोकाय शं दुःखशान्तिहेतुः । अपत्याय तनुवे अस्मच्छरीराय च स्योनः सुखो भूत्वा अस्मानाविशेति ॥
13 अथास्य ब्राह्मणम् - अज्यानीः इत्यादि । । 'तोषां यो अज्यानि' इति लिङ्गसमवायात् पञ्चाप्यज्यानय उच्यन्ते । एता इति । एते इन्द्रादयः केनविदप्यपरायिताः । ता एवेति । तासामुपधाता ता एवानुप्रविश्य तद्भावापन्नः केन चिदपि न जीयते ॥
14 इदानीमाग्रयणे अज्यानिहोमविधानार्थमाह - ब्रह्मवादिन इत्यादि ॥ अर्धमासादय ओषधीनां पाकहेतवः । अथ कस्मात्कारणात् अन्याभ्यः इन्द्राग्न्यादिभ्यः आग्रयणं हविर्निरुप्यत इति ब्रह्मवादिनः पर्यनुयोगमाहुः । अत्रोत्तरं केचिद्ब्रुवते - एता होति । इन्द्राग्न्यादयो देवताः तत् तदा उदजयत् । 'सुपा सुलुक्' इति । 'देवा वा ओषधीष्वाजिमयुः । ता इन्द्राग्नी उदजयताम्' इति । तस्मादेतासां देवतानां स्वभूता ओषधयः । अर्घमासादयस्तु तासां पाकमात्रे व्याप्रियन्त डति । एवं स्थिते यदृतुभ्यो निर्वपेत् आग्रयणं देवताभ्यस्समदं कलहं दध्यात् उत्पादयेत् । यथाऽन्यस्यान्यस्मै दानं कलहमुत्पादयति । तस्मादिन्द्राग्न्यादिभ्य एव आग्रयणं निर्वपेदिति गम्यते । एवमिन्द्राग्न्यादिम्य आग्रयणं निरुप्य एता अज्यानीराहुतीर्जुहोति अर्धमासादीनां तृप्त्यर्थमिति विधिर्गम्यते । तदेवाह - अर्धमासानित्यादिन्नना । न देवताभ्य इति । आत्मीयेन हविषा तृप्तत्वात् । अग्रस्यायनमिति 'पर्वूपदात्संज्ञायाम्' इति णत्वम्, शकन्ध्वादित्वात्पररूपत्वम् । सान्नाय्यानुजावरादिना स्वार्थिकोन् । सह माद्यन्त्यस्यामिति समत्संग्रामः ॥
15 भद्रान्न इति ॥ मन्त्रपदव्याख्या । हुतादनं हुताद्यम् । छान्दसो भावे यत्, कदुत्तरपदप्रकृतिस्वरत्वम् । 'यतोऽनावः' इत्याद्युदात्तत्वम् । यजमानभागभक्षणविधिर्गम्यते, 'त्वयाऽवसेन' इति मन्त्रलिङ्गात् अपराभावाय तद्भवतीति ॥
इति पञ्चमे सप्तमे द्वितीयोनुवाकः ॥
पञ्चशत् 2 #
TS 5.7.2.2 TS 5.7.2.2
-मे॒तामुप॑ दधाती॒यं ॅवा वैषैका᳚ष्ट॒का यदे॒वैका᳚ष्ट॒काया॒मन्नं॑ क्रि॒यते॒ तदे॒वैतयाव॑ रुन्ध ए॒षा वै प्र॒जाप॑तेः काम॒दुघा॒ तयै॒व यज॑मानो॒ऽमुष्मि॑न् ॅलो॒के᳚ऽग्निं दु॑हे॒ येन॑ दे॒वा ज्योति॑षो॒र्द्ध्वा उ॒दाय॒न्॒ येना॑ऽऽदि॒त्या वस॑वो॒ येन॑ रु॒द्राः । येनाङ्गि॑रसो महि॒मान॑-मान॒शुस्तेनै॑तु॒ यज॑मानः स्व॒स्ति ॥ सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ - [ ]
पदपाठः (Word-by-word)
ए॒ताम् । उपेति॑ । द॒धा॒ति॒ । इ॒यम् । वाव । ए॒षा । ए॒का॒ष्ट॒केत्ये॑क - अ॒ष्ट॒का । यत् । ए॒व । ए॒का॒ष्ट॒काया॒मित्ये॑क - अ॒ष्ट॒काया᳚म् । अन्न᳚म् । क्रि॒यते᳚ । तत् । ए॒व । ए॒तया᳚ । अवेति॑ । रु॒न्धे॒ । ए॒षा । वै । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । का॒म॒दुघेति॑ काम - दुघा᳚ । तया᳚ । ए॒व । यज॑मानः । अ॒मुष्मिन्न्॑ । लो॒के । अ॒ग्निम् । दु॒हे॒ । येन॑ । दे॒वाः । ज्योति॑षा । ऊ॒द्‌र्ध्वाः । उ॒दाय॒न्नित्यु॑त् - आयन्न्॑ । येन॑ । आ॒दि॒त्याः । वस॑वः । येन॑ । रु॒द्राः ॥ येन॑ । अङ्गि॑रसः । म॒हि॒मान᳚म् । आ॒न॒शुः । तेन॑ । ए॒तु॒ । यज॑मानः । स्व॒स्ति ॥ सु॒व॒र्गायेति॑ सुवः - गाय॑ । वै । ए॒षः । लो॒काय॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.7.2.3 TS 5.7.2.3
चीयते॒ यद॒ग्निर्येन॑ दे॒वा ज्योति॑षो॒र्द्ध्वा उ॒दाय॒न्नित्युख्यꣳ॒॒ समि॑न्ध॒ इष्ट॑का ए॒वैता उप॑ धत्ते वानस्प॒त्याः सु॑व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै श॒तायु॑धाय श॒तवी᳚र्याय श॒तोत॑ये ऽभिमाति॒षाहे᳚ । श॒तं ॅयो नः॑ श॒रदो॒ अजी॑ता॒निन्द्रो॑ नेष॒दति॑ दुरि॒तानि॒ विश्वा᳚ ॥ये च॒त्वारः॑ प॒थयो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ ।तेषां॒ ॅयो अज्या॑नि॒- मजी॑ति-मा॒वहा॒त् तस्मै॑ नो देवाः॒ - [ ]
पदपाठः (Word-by-word)
ची॒य॒ते॒ । यत् । अ॒ग्निः । येन॑ । दे॒वाः । ज्योति॑षा । उ॒द्‌र्ध्वाः । उ॒दाय॒न्नित्यु॑त्-आयन्न्॑ । इति॑ । उख्य᳚म् । समिति॑ । इ॒न्धे॒ । इष्ट॑काः । ए॒व । ए॒ताः । उपेति॑ । ध॒त्ते॒ । वा॒न॒स्प॒त्याः । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ । श॒तायु॑धा॒येति॑ श॒त - आ॒यु॒धा॒य॒ । श॒तवी᳚र्या॒येति॑ श॒त - वी॒र्या॒य॒ । श॒तोत॑य॒ इति॑ श॒त - ऊ॒त॒ये॒ । अ॒भि॒मा॒ति॒षाह॒ इत्य॑भिमाति - साहे᳚ ॥ श॒तम् । यः । नः॒ । श॒रदः॑ । अजी॑तान् । इन्द्रः॑ । ने॒ष॒त् । अतीति॑ । दु॒रि॒तानीति॑ दुः - इ॒तानि॑ । विश्वा᳚ ॥ ये । च॒त्वारः॑ । प॒थयः॑ । दे॒व॒याना॒ इति॑ देव - यानाः᳚ । अ॒न्त॒रा । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । वि॒यन्तीति॑ वि - यन्ति॑ ॥ तेषा᳚म् । यः । अज्या॑निम् । अजी॑तिम् । आ॒वहा॒दित्या᳚ - वहा᳚त् । तस्मै᳚ । नः॒ । दे॒वाः॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.7.2.4 TS 5.7.2.4
परि॑ दत्ते॒ह सर्वे᳚ ॥ग्री॒ष्मो हे॑म॒न्त उ॒त नो॑ वस॒न्तः श॒रद् व॒र्॒.षाः सु॑वि॒तन्नो॑ अस्तु । तेषा॑मृतू॒नाꣳ श॒त शा॑रदानां निवा॒त ए॑षा॒मभ॑ये स्याम ॥इ॒दु॒व॒थ्स॒राय॑ परिवथ्स॒राय॑ संवॅथ्स॒राय॑ कृणुता बृ॒हन्नमः॑ । तेषां᳚ ॅव॒यꣳ सु॑म॒तौ य॒ज्ञिया॑नां॒ ज्योगजी॑ता॒ अह॑ताः स्याम ॥ भ॒द्रान्नः॒ श्रेयः॒ सम॑नैष्ट देवा॒स्त्वया॑ऽव॒सेन॒ सम॑शीमहि त्वा ।स नो॑ मयो॒ भूः पि॑तो॒ - [ ]
पदपाठः (Word-by-word)
परीति॑ । द॒त्त॒ । इ॒ह । सर्वे᳚ ॥ ग्री॒ष्मः । हे॒म॒न्तः । उ॒त । नः॒ । व॒स॒न्तः । श॒रत् । व॒र्.॒षाः । सु॒वि॒तम् । नः॒ । अ॒स्तु॒ ॥ तेषा᳚म् । ऋ॒तू॒नाम् । श॒तशा॑रदाना॒मिति॑ श॒त - शा॒र॒दा॒ना॒म् । नि॒वा॒त इति॑ नि - वा॒ते । ए॒षा॒म् । अभ॑ये । स्या॒म॒ ॥ इ॒दु॒व॒थ्स॒रायेती॑दु - व॒थ्स॒राय॑ । प॒रि॒व॒थ्स॒रायेति॑ परि - व॒थ्स॒राय॑ । सं॒ॅव॒थ्स॒रायेति॑ सं - व॒थ्स॒राय॑ । कृ॒णु॒त॒ । बृ॒हत् । नमः॑ ॥ तेषा᳚म् । व॒यम् । सु॒म॒ताविति॑ सु - म॒तौ । य॒ज्ञिया॑नाम् । ज्योक् । अजी॑ताः । अह॑ताः । स्या॒म॒ ॥ भ॒द्रात् । नः॒ । श्रेयः॑ । समिति॑ । अ॒नै॒ष्ट॒ । दे॒वाः॒ । त्वया᳚ । अ॒व॒सेन॑ । समिति॑ । अ॒शी॒म॒हि॒ । त्वा॒ ॥ सः । नः॒ । म॒यो॒भूरिति॑ मयः-भूः । पि॒तो॒ इति॑ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 5.7.2.5 TS 5.7.2.5
आ वि॑शस्व॒ शं तो॒काय॑ त॒नुवे᳚ स्यो॒नः ॥ अज्या॑नीरे॒ता उप॑ दधात्ये॒ता वै दे॒वता॒ अप॑राजिता॒स्ता ए॒व प्र वि॑शति॒ नैव जी॑यते ब्रह्मवा॒दिनो॑ वदन्ति॒ यद॑र्द्धमा॒सा मासा॑ ऋ॒तवः॑ संॅवथ्स॒र ओष॑धीः॒ पच॒न्त्यथ॒ कस्मा॑द॒न्याभ्यो॑ दे॒वता᳚भ्य आग्रय॒णं निरु॑प्यत॒ इत्ये॒ता हि तद्-दे॒वता॑ उ॒दज॑य॒न्॒ यदृ॒तुभ्यो॑ नि॒र्वपे᳚द् दे॒वता᳚भ्यः स॒मदं॑ दद्ध्यादाग्रय॒णं ( ) नि॒रुप्यै॒ता आहु॑ती र्जुहोत्यर्द्धमा॒साने॒व मासा॑नृ॒तून्थ् सं॑ॅवथ्स॒रं प्री॑णाति॒ न दे॒वता᳚भ्यः स॒मदं॑ दधाति भ॒द्रान्नः॒ श्रेयः॒ सम॑नैष्ट देवा॒ इत्या॑ह हु॒ताद्या॑य॒ यज॑मान॒स्याऽ*प॑राभावाय ॥
पदपाठः (Word-by-word)
एति॑ । वि॒श॒स्व॒ । शम् । तो॒काय॑ । त॒नुवे᳚ । स्यो॒नः ॥ अज्या॑नीः । ए॒ताः । उपेति॑ । द॒धा॒ति॒ । ए॒ताः । वै । दे॒वताः᳚ । अप॑राजिता॒ इत्यप॑रा - जि॒ताः॒ । ताः । ए॒व । प्रेति॑ । वि॒श॒ति॒ । न । ए॒व । जी॒य॒ते॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । यत् । अ॒द्‌र्ध॒मा॒सा इत्य॑द्‌र्ध - मा॒साः । मासाः᳚ । ऋ॒तवः॑ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । ओष॑धीः । पच॑न्ति । अथ॑ । कस्मा᳚त् । अ॒न्याभ्यः॑ । दे॒वता᳚भ्यः । आ॒ग्र॒य॒णम् । निरिति॑ । उ॒प्य॒ते॒ । इति॑ । ए॒ताः । हि । तत् । दे॒वताः᳚ । उ॒दज॑य॒न्नित्यु॑त् - अज॑यन्न् । यत् । ऋ॒तुभ्य॒ इत्यृ॒तु-भ्यः॒ । नि॒र्वपे॒दिति॑ निः - वपे᳚त् । दे॒वता᳚भ्यः । स॒मद॒मिति॑ स - मद᳚म् । द॒द्ध्या॒त् । आ॒ग्र॒य॒णम् ( ) । नि॒रुप्येति॑ निः - उप्य॑ । ए॒ताः । आहु॑ती॒रित्या- हु॒तीः॒ । जु॒हो॒ति॒ । अ॒द्‌र्ध॒मा॒सानित्य॑र्ध - मा॒सान् । ए॒व । मासान्॑ । ऋ॒तून् । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । प्री॒णा॒ति॒ । न । दे॒वता᳚भ्यः । स॒मद॒मिति॑ स - मद᳚म् । द॒धा॒ति॒ । भ॒द्रात् । नः॒ । श्रेयः॑ । समिति॑ । अ॒नै॒ष्ट॒ । दे॒वाः॒ । इति॑ । आ॒ह॒ । हु॒ताद्या॒येति॑ हुत - अद्या॑य । यज॑मानस्य । अप॑राभावा॒येत्यप॑रा - भा॒वा॒य॒ ॥
पदसंख्या: 75