अनुवाकः 16 TS 5.7.16

(A16)

(इन्द्र॑स्य॒ - द्वावि॑शतिः॒)

अनुवाकः 16 - Complete Audio

TS 5.7.16 - स्वरानुगामी

0:00 0:00
PS1.1 इन्द्र॑स्य क्रो॒डो ऽदि॑त्यै पाज॒स्यं॑
PS1.2 दि॒शां ज॒त्रवो॑ जी॒मूता᳚न् हृदयौप॒शाभ्या॑-म॒न्तरि॑क्षं
PS1.3 पुरि॒तता॒ नभ॑ उद॒र्ये॑णेन्द्रा॒णीं प्ली॒ह्ना
PS1.4 व॒ल्मीका᳚न् क्लो॒म्ना गि॒रीन् प्ला॒शिभिः॑
PS1.5 समु॒द्रमु॒दरे॑ण वैश्वान॒रं भस्म॑ना

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.7.16.1 TS 5.7.16.1
इन्द्र॑स्य क्रो॒डो ऽदि॑त्यै पाज॒स्यं॑ दि॒शां ज॒त्रवो॑ जी॒मूता᳚न् हृदयौप॒शाभ्या॑-म॒न्तरि॑क्षं पुरि॒तता॒ नभ॑ उद॒र्ये॑णेन्द्रा॒णीं प्ली॒ह्ना व॒ल्मीका᳚न् क्लो॒म्ना गि॒रीन् प्ला॒शिभिः॑ समु॒द्रमु॒दरे॑ण वैश्वान॒रं भस्म॑ना ॥
पदपाठः (Word-by-word)
इन्द्र॑स्य । क्रो॒डः । अदि॑त्यै । पा॒ज॒स्य᳚म् । दि॒शाम् । ज॒त्रवः॑ । जी॒मूतान्॑ । हृ॒द॒यौ॒प॒शाभ्या॒मिति॑ हृदय - औ॒प॒शाभ्या᳚म् । अ॒न्तरि॑क्षम् । पु॒रि॒तता᳚ । नभः॑ । उ॒द॒र्ये॑ण । इ॒न्द्रा॒णीम् । प्ली॒ह्ना । व॒ल्मीकान्॑ । क्लो॒म्ना । गि॒रीन् । प्ला॒शिभि॒रिति॑ प्ला॒शि-भिः॒ । स॒मु॒द्रम् । उ॒दरे॑ण । वै॒श्वा॒न॒रम् । भस्म॑ना ॥
पदसंख्या: 22
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 इन्द्रस्य यज्वनः कोडः उदरम् । षष्ठ्या निर्दिष्टा देवता, अङ्गं प्रथमया । अदित्यै देयं पाजस्यं हृदयम् । षष्ठ्यर्थे चतुर्थी । पाजो बलं तस्मै हितं पाजस्य स्थानम् । दिशां जत्रवः । पूर्ववत् षष्ठ्या निर्दिष्टा देवता । जत्रवो ग्रीवाया अधस्ताद्धमन्यः । अतःपरं द्वितीययैव देवता निर्दिश्यते । जीमूताः प्रसिद्धाः । हृदयौपशाभ्यां मांसविशेषाभ्याम् । हृदये स्थितं मांसं हृदयौपशमुच्यते । हृदयस्थानमिति यावत् । तत् स्थानं यत्रोपेत्य शेते तदुपशं अन्तस्थानविशेषात्मकं मांसविशेषः । छान्दसो डः । तदेव औपशम् । स्वार्थिकोण् छान्दसः । अन्तरिक्षं प्रसिद्धम् । पुरितता हृदयस्य परिवारणं मांसमेव । आन्त्राणीत्येके । पुरि शरीरमध्ये तायत इति क्विप्, 'गमादीनामिति वक्तव्यम्' इत्यनुनासिकलोपः, 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । अवग्रहो नेष्यते, न हि प्रसिद्धम् । उदर्यमुदरे भवं मांसम् । 'शरीरावयवाच्च' इति यत् । इन्द्राणी प्रसिद्धा । प्लीह्ना पिण्डितेन मांसविशेषेण । वल्मीकाः प्रसिद्धाः । क्लोम्ना आम्रफलसदृशेन मांसेन । गिरयः प्रसिद्धाः । प्लाशिभिः पद्मवर्णाकारैः मांसैः । समुद्रः प्रसिद्धः । उदरेण उदरस्थेन केनचिदपि मांसेन । वैश्वानरः प्रसिद्धः । भस्मना अनेन दभ्यतृणादि ॥
इति पञ्चमे सप्तमे षोडशोनुवाकः ॥