अनुवाकः 10 TS 5.7.10

(A10)

(ए॒न॒- म॒स्यान्नं॒ - भूयो॒ऽस्याऽन्नं॑ भवति)

अनुवाकः 10 - Complete Audio

TS 5.7.10 - स्वरानुगामी

0:00 0:00
PS1.1 प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सो᳚ऽस्माथ् सृ॒ष्टः प्राङ्
PS1.2 प्राऽ*द्र॑व॒त् तस्मा॒ अश्वं॒ प्रत्या᳚स्य॒थ्
PS1.3 स द॑क्षि॒णाऽऽव॑र्तत॒ तस्मै॑ वृ॒ष्णिं
PS1.4 प्रत्या᳚स्य॒थ् स प्र॒त्यङ्ङाऽव॑र्तत॒ तस्मा॑
PS1.5 ऋष॒भं प्रत्या᳚स्य॒थ् स उद॒ङ्ङाऽव॑र्तत॒
PS1.6 तस्मै᳚ ब॒स्तं प्रत्या᳚स्य॒थ् स
PS1.7 ऊ॒र्द्ध्वो᳚ऽद्रव॒त् तस्मै॒ पुरु॑षं॒ प्रत्या᳚स्य॒द्यत्
PS1.8 प॑शुशी॒र्॒.षाण्यु॑प॒दधा॑ति स॒र्वत॑ ए॒वैन॑ -
PS1.9 [ ]
PS2.1 मव॒रुद्ध्य॑ चिनुत ए॒ता वै
PS2.2 प्रा॑ण॒भृत॒-श्चक्षु॑ष्मती॒रिष्ट॑का॒ यत् प॑शुशी॒र्.षाणि॒ यत्
PS2.3 प॑शुशी॒र्.षाण्यु॑प॒दधा॑ति॒ ताभि॑रे॒व यज॑मानो॒ऽमुष्मि॑न् ॅलो॒के
PS2.4 प्राणि॒त्यथो॒ ताभि॑रे॒वास्मा॑ इ॒मे लो॒काः
PS2.5 प्र भा᳚न्ति मृ॒दाऽभि॒लिप्योप॑ दधाति
PS2.6 मेद्ध्य॒त्वाय॑ प॒शुर्वा ए॒ष यद॒ग्निरन्नं॑
PS2.7 प॒शव॑ ए॒ष खलु॒ वा
PS2.8 अ॒ग्निर्यत् प॑शुशी॒र्॒.षाणि॒ यं का॒मये॑त॒
PS2.9 कनी॑यो॒ऽस्यान्नꣳ॑ - [ ]
PS3.1 स्या॒दिति॑ संत॒रां तस्य॑ पशुशी॒र्॒.षाण्युप॑
PS3.2 दद्ध्या॒त् कनी॑य ए॒वास्यान्नं॑ भवति॒
PS3.3 यं का॒मये॑त स॒माव॑द॒स्यान्नꣳ॑ स्या॒दिति॑
PS3.4 मद्ध्य॒तस्तस्योप॑ दद्ध्याथ् स॒माव॑-दे॒वास्यान्नं॑ भवति॒
PS3.5 यं का॒मये॑त॒ भूयो॒ऽस्याऽन्नꣳ॑ स्या॒दित्यन्ते॑षु॒
PS3.6 तस्य॑ व्यु॒दूह्योप॑ दद्ध्यादन्त॒त ए॒वास्मा॒
PS3.7 अन्न॒मव॑ रुन्धे॒ भूयो॒ऽस्यान्नं॑ भवति
PS3.8 ( )

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.7.10.1 TS 5.7.10.1
प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सो᳚ऽस्माथ् सृ॒ष्टः प्राङ् प्राऽ*द्र॑व॒त् तस्मा॒ अश्वं॒ प्रत्या᳚स्य॒थ् स द॑क्षि॒णाऽऽव॑र्तत॒ तस्मै॑ वृ॒ष्णिं प्रत्या᳚स्य॒थ् स प्र॒त्यङ्ङाऽव॑र्तत॒ तस्मा॑ ऋष॒भं प्रत्या᳚स्य॒थ् स उद॒ङ्ङाऽव॑र्तत॒ तस्मै᳚ ब॒स्तं प्रत्या᳚स्य॒थ् स ऊ॒र्द्ध्वो᳚ऽद्रव॒त् तस्मै॒ पुरु॑षं॒ प्रत्या᳚स्य॒द्यत् प॑शुशी॒र्॒.षाण्यु॑प॒दधा॑ति स॒र्वत॑ ए॒वैन॑ - [ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒ग्निम् । अ॒सृ॒ज॒त॒ । सः । अ॒स्मा॒त् । सृ॒ष्टः । प्राङ् । प्रेति॑ । अ॒द्र॒व॒त् । तस्मै᳚ । अश्व᳚म् । प्रतीति॑ । आ॒स्य॒त् । सः । द॒क्षि॒णा । एति॑ । अ॒व॒र्त॒त॒ । तस्मै᳚ । वृ॒ष्णिम् । प्रतीति॑ । आ॒स्य॒त् । सः । प्र॒त्यङ् । एति॑ । अ॒व॒र्त॒त॒ । तस्मै᳚ । ऋ॒ष॒भम् । प्रतीति॑ । आ॒स्य॒त् । सः । उदङ्॑ । एति॑ । अ॒व॒र्त॒त॒ । तस्मै᳚ । ब॒स्तम् । प्रतीति॑ । आ॒स्य॒त् । सः । ऊ॒द्‌र्ध्वः । अ॒द्र॒व॒त् । तस्मै᳚ । पुरु॑षम् । प्रतीति॑ । आ॒स्य॒त् । यत् । प॒शु॒शी॒र्॒.षाणीति॑ पशु - शी॒र्॒.षाणि॑ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । स॒र्वतः॑ । ए॒व । ए॒न॒म् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 प्रजापतेरित्यादि पशुशिरसां विधिः ॥ प्रजापतिना सृष्टोग्निरस्मात्प्रजापतेः प्राङ्मुखतः प्राद्रवत् । तस्मै तन्निवृत्त्यर्थं अश्वं प्रत्यास्यत् प्रातिकूल्येनाग्रतः क्षिप्तवान्, अश्वेन प्रतिरुद्धवानिति यावत् । ततस्सोग्निरावृत्य दक्षिणस्यां दिशि आवर्तत । ततो सक्तुं(?) तस्मै वृष्णिं प्रत्यास्यत् । एवं सर्वत्र । दक्षिणादाच् । तस्मात्पशुशिरसामुपधानेन सर्वतो रुद्धस्य सर्वाभ्यो दिग्भ्यो निर्निरुद्धोग्निश्चितो भवति ॥
2 एता वा इत्यादि ॥ भूतपूर्वं प्राणभृत्त्वं चक्षुष्मत्त्वं च शिरस्सूपचर्यते । उपधेयत्वाच्चेष्टकात्वम् । तदुपधानेन यजमानोमुष्मिन् लोके प्राणिति जीवति । लोकाश्चेमे अस्मै प्रभान्ति प्रकर्षेण प्रकाशन्ते उपकारका भवन्ति ॥
3 मृदाऽभिलिप्येति विधिः ॥
4 पशुर्वा इत्यादि ॥ पशुशिरसु गुणविध्यर्थम् । पशुसाधनत्वात् पशवोग्निः । अन्नसाधनत्वात् अन्नं पशवः । किञ्च - एषोग्निरेव पशुशीर्षाणि, अवयवावयविनोरभिन्नत्वात् पशुत्वस्य च समानत्वात् । तस्माद्यजमानमध्वर्युः कामयते कनीयोल्पतरं अस्यान्नं स्यादिति तस्य संतरां सन्निकृष्टतराणि पशुशीर्षाण्युपदध्यात् । 'किमेत्तिङ्व्यय' इत्यामुप्रत्ययः । कनीय एवेत्यादि । गतम् । समावत् समम् । समादावतुप् स्वार्थिकः । मध्यतो नातिसन्निकृष्टा दिक् । भूयः बहुतरम् । अन्तेष्वित्यादि । अन्तेषु प्रान्तेषु ०युदूह्य व्युदूह्योपदद्ध्यात् । अन्ततो दिगन्तेभ्योस्मै यजमानायान्नमवरुन्धे । ततो बहुतरं तस्यान्नं भवति ॥
इति पञ्चमे सप्तमे दशमोनुवाकः ॥
पञ्चशत् 2 #
TS 5.7.10.2 TS 5.7.10.2
मव॒रुद्ध्य॑ चिनुत ए॒ता वै प्रा॑ण॒भृत॒-श्चक्षु॑ष्मती॒रिष्ट॑का॒ यत् प॑शुशी॒र्.षाणि॒ यत् प॑शुशी॒र्.षाण्यु॑प॒दधा॑ति॒ ताभि॑रे॒व यज॑मानो॒ऽमुष्मि॑न् ॅलो॒के प्राणि॒त्यथो॒ ताभि॑रे॒वास्मा॑ इ॒मे लो॒काः प्र भा᳚न्ति मृ॒दाऽभि॒लिप्योप॑ दधाति मेद्ध्य॒त्वाय॑ प॒शुर्वा ए॒ष यद॒ग्निरन्नं॑ प॒शव॑ ए॒ष खलु॒ वा अ॒ग्निर्यत् प॑शुशी॒र्॒.षाणि॒ यं का॒मये॑त॒ कनी॑यो॒ऽस्यान्नꣳ॑ - [ ]
पदपाठः (Word-by-word)
अ॒व॒रुद्ध्येत्य॑व - रुद्ध्य॑ । चि॒नु॒ते॒ । ए॒ताः । वै । प्रा॒ण॒भृत॒ इति॑ प्राण - भृतः॑ । चक्षु॑ष्मतीः । इष्ट॑काः । यत् । प॒शु॒शी॒र्.॒षाणीति॑ पशु - शी॒र्.॒षाणि॑ । यत् । प॒शु॒शी॒र्.॒षाणीति॑ पशु - शी॒र्.॒षाणि॑ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । ताभिः॑ । ए॒व । यज॑मानः । अ॒मुष्मिन्न्॑ । लो॒के । प्रेति॑ । अ॒नि॒ति॒ । अथो॒ इति॑ । ताभिः॑ । ए॒व । अ॒स्मै॒ । इ॒मे । लो॒काः । प्रेति॑ । भा॒न्ति॒ । मृ॒दा । अ॒भि॒लिप्येत्य॑भि - लिप्य॑ । उपेति॑ । द॒धा॒ति॒ । मे॒द्ध्य॒त्वायेति॑ मेद्ध्य-त्वाय॑ । प॒शुः । वै । ए॒षः । यत् । अ॒ग्निः । अन्न᳚म् । प॒शवः॑ । ए॒षः । खलु॑ । वै । अ॒ग्निः । यत् । प॒शु॒शी॒र्.॒षाणीति॑ पशु-शी॒र्.॒षाणि॑ । यम् । का॒मये॑त । कनी॑यः । अ॒स्य॒ । अन्न᳚म् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.7.10.3 TS 5.7.10.3
स्या॒दिति॑ संत॒रां तस्य॑ पशुशी॒र्॒.षाण्युप॑ दद्ध्या॒त् कनी॑य ए॒वास्यान्नं॑ भवति॒ यं का॒मये॑त स॒माव॑द॒स्यान्नꣳ॑ स्या॒दिति॑ मद्ध्य॒तस्तस्योप॑ दद्ध्याथ् स॒माव॑-दे॒वास्यान्नं॑ भवति॒ यं का॒मये॑त॒ भूयो॒ऽस्याऽन्नꣳ॑ स्या॒दित्यन्ते॑षु॒ तस्य॑ व्यु॒दूह्योप॑ दद्ध्यादन्त॒त ए॒वास्मा॒ अन्न॒मव॑ रुन्धे॒ भूयो॒ऽस्यान्नं॑ भवति ( ) ॥
पदपाठः (Word-by-word)
स्या॒त् । इति॑ । स॒तं॒रामिति॑ सं - त॒राम् । तस्य॑ । प॒शु॒शी॒र्.॒षाणीति॑ पशु - शी॒र्.॒षाणि॑ । उपेति॑ । द॒द्ध्या॒त् । कनी॑यः । ए॒व । अ॒स्य॒ । अन्न᳚म् । भ॒व॒ति॒ । यम् । का॒मये॑त । स॒माव॑त् । अ॒स्य॒ । अन्न᳚म् । स्या॒त् । इति॑ । म॒द्ध्य॒तः । तस्य॑ । उपेति॑ । द॒द्ध्या॒त् । स॒माव॑त् । ए॒व । अ॒स्य॒ । अन्न᳚म् । भ॒व॒ति॒ । यम् । का॒मये॑त । भूयः॑ । अ॒स्य॒ । अन्न᳚म् । स्या॒त् । इति॑ । अन्ते॑षु । तस्य॑ । व्यु॒दूह्येति॑ वि - उ॒दूह्य॑ । उपेति॑ । द॒द्ध्या॒त् । अ॒न्त॒तः । ए॒व । अ॒स्मै॒ । अन्न᳚म् । अवेति॑ । रु॒न्धे॒ । भूयः॑ । अ॒स्य॒ । अन्न᳚म् । भ॒व॒ति॒ ( ) ॥
पदसंख्या: 50