अनुवाकः 13 TS 5.7.13

(A13)

(कू॒र्मान्-त्रयो॑विꣳशतिः)

अनुवाकः 13 - Complete Audio

TS 5.7.13 - स्वरानुगामी

0:00 0:00
PS1.1 कू॒र्मा-ञ्छ॒फैर॒च्छला॑भिः क॒पिञ्ज॑ला॒न्थ्साम॒ कुष्ठि॑काभिर्ज॒वं जङ्घा॑भिरग॒दं
PS1.2 जानु॑भ्यां ॅवी॒र्यं॑ कु॒हाभ्यां᳚ भ॒यं
PS1.3 प्र॑चा॒लाभ्यां॒ गुहो॑पप॒क्षाभ्या॑-म॒श्विना॒वꣳ सा᳚भ्या॒मदि॑तिꣳ शी॒र्ष्णा
PS1.4 निर्.ऋ॑तिं॒ निर्जा᳚ल्मकेन शी॒र्ष्णा

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.7.13.1 TS 5.7.13.1
कू॒र्मा-ञ्छ॒फैर॒च्छला॑भिः क॒पिञ्ज॑ला॒न्थ्साम॒ कुष्ठि॑काभिर्ज॒वं जङ्घा॑भिरग॒दं जानु॑भ्यां ॅवी॒र्यं॑ कु॒हाभ्यां᳚ भ॒यं प्र॑चा॒लाभ्यां॒ गुहो॑पप॒क्षाभ्या॑-म॒श्विना॒वꣳ सा᳚भ्या॒मदि॑तिꣳ शी॒र्ष्णा निर्.ऋ॑तिं॒ निर्जा᳚ल्मकेन शी॒र्ष्णा ॥
पदपाठः (Word-by-word)
कू॒र्मान् । श॒फैः । अ॒च्छला॑भिः । क॒पिञ्ज॑लान् । साम॑ । कुष्ठि॑काभिः । ज॒वम् । जङ्घा॑भिः । अ॒ग॒दम् । जानु॑भ्या॒मिति॒ जानु॑-भ्या॒म् । वी॒र्य᳚म् । कु॒हाभ्या᳚म् । भ॒यम् । प्र॒चा॒लाभ्या॒मिति॑ प्र - चा॒लाभ्या᳚म् । गुहा᳚ । उ॒प॒प॒क्षाभ्या॒मित्यु॑प - प॒क्षाभ्या᳚म् । अ॒श्विनौ᳚ । अꣳसा᳚भ्याम् । अदि॑तिम् । शी॒र्ष्णा । निर्.ऋ॑ति॒मिति॒ निः - ऋ॒ति॒म् । निर्जा᳚ल्मके॒नेति॒ निः-जा॒ल्म॒के॒न॒ । शी॒र्ष्णा ॥
पदसंख्या: 23
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 कूर्मान् शकैः । गतम् । अच्छलाः शफलमूलमांसानि । कपिञ्जलाः प्रसिद्धाः । साम गीतिः । कुष्ठिका प्रकोष्ठजङ्घाभ्योऽधःप्रदेशः । जवो वेगः । जङ्घा जानुभ्योऽधःप्रदेशः । अगदः आरोग्यम् । जानुनी पादयोर्मध्यसन्धी । वीर्यं बलम् । कुह: हस्तयोर्मध्यसन्धिः । भयं गतम् । प्रचालौ पादयोरुपरिप्रदेशौ । गुहा गोहनी मूर्छाऽस्य 'सुपां सुलुक्' इति द्वितीयाया लुक् । उपपक्षौ पार्श्वे । अश्विनावंसाभ्याम् । गतम् । अदितिर्देवमाता । शीर्ष्णा शिरसा । 'शीर्षञ्छन्दसि' इति शीर्षादेशः, तस्यान्तोदात्तत्वात् उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । निरृतिः प्रसिद्धा । निर्जाल्मकं शुद्धं केशरहितम् ॥
इति पञ्चमे सप्तमे त्रयोदशोनुवाकः ॥