पञ्चशत् 1 #
यदाकू॑ताथ् स॒मसु॑स्रोद्धृ॒दो वा॒ मन॑सो वा॒ संभृ॑तं॒ चक्षु॑षो वा । तमनु॒ प्रेहि॑ सुकृ॒तस्य॑ लो॒कं ॅयत्रर्.ष॑यः प्रथम॒जा ये पु॑रा॒णाः ॥ए॒तꣳ स॑धस्थ॒ परि॑ ते ददामि॒ यमा॒वहा᳚च्छेव॒धिं जा॒तवे॑दाः ।अ॒न्वा॒ग॒न्ता य॒ज्ञ्प॑तिर्वो॒ अत्र॒ तꣳ स्म॑ जानीत पर॒मे व्यो॑मन्न् ॥जा॒नी॒तादे॑नं पर॒मे व्यो॑म॒न् देवाः᳚ सधस्था वि॒द रू॒पम॑स्य । यदा॒गच्छा᳚त् - [ ]
पदपाठः (Word-by-word)
यत् । आकू॑ता॒दित्या - कू॒ता॒त् । स॒मसु॑स्रो॒दिति॑ सं - असु॑स्रोत् । हृ॒दः । वा॒ । मन॑सः । वा॒ । संभृ॑त॒मिति॒ सं - भृ॒त॒म् । चक्षु॑षः । वा॒ ॥ तम् । अनु॑ । प्रेति॑ । इ॒हि॒ । सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ । लो॒कम् । यत्र॑ । ऋष॑यः । प्र॒थ॒म॒जा इति॑ प्रथम-जाः । ये । पु॒रा॒णाः ॥ ए॒तम् । स॒ध॒स्थेति॑ सध - स्थ॒ । परीति॑ । ते॒ । द॒दा॒मि॒ । यम् । आ॒वहा॒दित्या᳚ - वहा᳚त् । शे॒व॒धिमिति॑ शेव - धिम् । जा॒तवे॑दा॒ इति॑ जा॒त - वे॒दाः॒ ॥ अ॒न्वा॒ग॒न्तेत्य॑नु-आ॒ग॒न्ता । य॒ज्ञ्प॑ति॒रिति॑ य॒ज्ञ्-प॒तिः॒ । वः॒ । अत्र॑ । तम् । स्म॒ । जा॒नी॒त॒ । प॒र॒मे । व्यो॑म॒न्निति॒ वि-ओ॒म॒न्न् ॥ जा॒नी॒तात् । ए॒न॒म् । प॒र॒मे । व्यो॑म॒न्निति॒ वि - ओ॒म॒न्न् । देवाः᳚ । स॒ध॒स्था॒ इति॑ सध - स्थाः॒ । वि॒द । रू॒पम् । अ॒स्य॒ ॥ यत् । आ॒गच्छा॒दित्या᳚ - गच्छा᳚त् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 दशाग्निकानि समिष्टयजूंषि जुहोति - यदाकूतादित्यादीनि ॥ आद्याश्रतस्रः त्रिष्टुभः । अन्या अनुष्टुभः । तत्र प्रथमा - आकूतिः संकल्पः प्रत्ययः 'अक्षयं सुखमाप्नवानि' इत्येवंरूपः । हृदयं चित्तं श्रुतिस्मृत्यादि तत्साधनोपायचिन्तनम् । मनः अन्तःकरणं तदनुकूलप्रतिकूलेषु प्रवृत्तिनिवृत्त्यात्मकम् । चक्षुर्ग्रहणेन दशेन्द्रियाणि लक्ष्यन्ते यानि सम्यगनुष्ठानेन अभिमतं लाभं साधयन्ति । एतेष्वाकूत्यादिषु संभृतं एभिः प्रत्ययैः चिरकालविषयीकृतं यदेतेम्यः समसुस्रोत् स्रुतं सम्यक्परिनिष्पन्नम् । ल्यब्लोपे पञ्चमी । एतानि प्राप्य निष्पन्नं इदानीमिति । स्रुवतेर्लुङि शपश्श्लुः । तं अभिप्रेतमर्थं अनु लक्षीकृत्य प्रेहि गच्छ । कीदृशीमित्याह - सुकृतस्य लोकं सुकृतफलभोगस्थानं यत्र सुकृतिन एव गच्छन्ति तत् स्थानं गच्छ - हे यजमान । देहपातोत्तरकालमिति सामर्थ्यात् गम्यते । 'सूपमानात्कः' इति सुकृतशब्दोन्तोदात्तः । पुनश्च विशेप्यते - यत्रासते प्रथमजाः नित्याः स्वयम्भुप्रभृतयः ऋषयो द्रष्टारः ये च पुराणाः पूर्वमुक्ता नः पूर्वे वा अस्माकं चित्रादयः तत् स्थानं गच्छेति ॥
2 अथ द्वितीया - एतमिति ॥ अग्निरामन्त्र्यते - हे अग्रे सधस्थ सहस्थानस्थित पृथिव्यामेतावन्तं कालमनेन सहस्थित । 'सधमाधस्थयोः' इति सहशब्दस्य सधादेशः । इदानीं गच्छते तुभ्यमेनं यजमानं परिददामि रक्षार्थं तव हस्ते करोमि तत्रापि सहासने स्थातुमिति भावः । रक्षामिदानीं प्रार्थयते - जातवेदाः जातप्रज्ञानः रक्षणोपायज्ञः त्वं शेवधिं निधिस्थानं यमावहात् आवहसि निधिमिव परिगृह्णासि गोपायसि च तं परिददामीति । वहेर्लेटि पुरुषव्यत्ययः, आडागमश्च । इदानीं देवा आमन्त्र्यन्ते - हे देवाः यूयमपि शृणुत अयं यज्ञपतिर्यजमानः वः युष्मानन्वागन्ता युष्मान्गच्छतोन्वागन्ता अनन्तरमेवानुक्रमेण आगमिष्यति । 'न लुट्' इति निघातप्रतिषेधः । 'तास्यनुदात्तेत्' इति लसार्वधातुकस्यानुदात्तत्वं, लिटोप उदात्तनिवृत्तिस्वरेण तस्यैवोदात्तत्वं, 'गतिर्गतौ' इति प्रथमस्य गतेरनुदात्तत्वम्, 'तिङि चोदात्तवति' इति द्वितीयस्य 'उदात्तवता तिङा' हति 'गतिमता च' इति द्वयं समस्यते । तत्र परमे व्योम्नि प्रशस्ते निधिलक्षणे च पुण्यलोके युष्मानन्वागन्तारं जानीत प्रविष्टवानयमस्य स्थानमिति तमेनं स्वीकुरुत । स्मेति पादपूरणे, सामप्रतीकत्वं वा द्योतयति ॥
3 अथ तृतीया - जानीतादिति ॥ हे देवाः प्रथमं तावदेनं परमे व्योमन् स्थाने आगतं जानीतात् जानति 'तस्य तात्' इति तादेशः । अनन्तरं चेह सधस्थाः सहासने स्थातारः अत एव अस्य रूपं विद जानीत कीदृशोयमिति विदितरूपविशेषमेनं कुरुत । 'विदो लटो वा' इत्याकारादेशः । तत्र यद्ययं देवयानैः पथिभिरागच्छात् आगतस्स्यात् । पूर्ववदाडगमः । ततोस्मै इष्टापूर्ते इष्टापूर्तफले आविष्कृणुतात् आविष्कृणुत एतदर्थमिष्टापूर्ते च गतवान्, ईदृशं च तयोः फलमिति । पूर्ववत्तादेशः । इष्टं देवेम्यः । पूतं पितृभ्यः । छान्दसं पूर्वपदस्य दीर्घत्वम् । अत्र देवा इति पादादित्वान्न निहन्यते, 'विभाषितं विशेषवचने' इति तस्याविद्यमानवत्त्वनिषेधाद्द्वितीयमामन्त्रितं न निहन्यते । 'आमन्त्रितं पूर्वमविद्यमानवत्' इति द्वयोरप्यविद्यमानवस्त्वात् तेनाख्यातं निहन्यते ॥
4 अथ चतुर्थी - सं प्र च्यवध्वमिति ॥ व्याख्यातेयं 'अग्निं युनज्मि' इत्यत्र । हे अग्ने विश्वे देवाः सर्वे यूयं यजमानश्च इत्थं कृतसंवादा इदानीं संप्रच्यवध्वं सम्यगस्मात् स्थानात् प्रचलत । अनन्तरं च संप्रयात सहिता एव गच्छत । गच्छन्तश्च देवयानेनैव पथः कृणुध्वम् अन्यैः पथिभिः न गन्तव्यम् । एवमस्मिन् सदस्थे सहस्थाने लोके उत्तरस्मिंश्च द्युलोके इदानीं देहपातोत्तरकालं च सीदत परस्परस्योपकुर्वन्तो वर्तध्वमिति ॥
5 अथ पञ्चमी - प्रस्तरेणेति ॥ प्रस्तरादिभिः सह इममस्माकं यज्ञं वह प्रापय देवान् देवेष्विति विभक्तिव्यत्ययः । स्रुग्ग्रहणं पात्राणामप्युपलक्षणम् । ग्रहणमन्त्राणां प्रयोजनं चाह - सुवर्गन्तवे अस्माकं स्वर्गगमनाय । तुमर्थे तवेन् प्रत्ययः ॥
6 षष्ठी - यदिष्टमिति ॥ यदिष्टं देवेभ्यो दत्तं दर्शपूर्णमासादिषु यत्परादानं नात्यादरेण दत्तं दीनान्धकृपणादिभ्यः यद्दत्तं समीचीनं बहिर्वेदि यागे च दक्षिणा अन्तर्वेदि यद्दत्तं तत् सर्व वैश्वकर्मणोग्निरस्माकं स्वर्गहेतुर्देवेषु दधत् स्थापयतु स्वर्गसाधनमेव सर्वं करोतु । लेट्याडागमः ॥
7 सप्तमी - येना सहस्रमिति ॥ .... ॥
8 हे अग्ने येन पथा युक्ता योग्या दक्षिणा यज्ञं च ऋत्विजो वहन्ति । यद्वा - दक्षिणाभिर्युक्तं इत्युभयत्र व्यत्ययः । तेनेत्यादि । गतम् ॥
9 नवमी - येनाग्ने सुकृत इति ॥ हे अग्ने येन पथा सुकृतः मधोः मधुरस्य धारा व्यानशुः व्याप्नुवत् । व्यत्ययेन परस्मैपदम् । यद्वा - सुकृतः देवाः येन पथा नीताः मधोः मधुरसस्य घृतस्य धारा व्यानशुः व्यश्नवते । छान्दसो लिट् । तेनेत्यादि । गतम् ॥
10 दशमी - यत्रेति ॥ यत्र पथि मधोः घृतस्य च या धारा अनपेताः तत्र लोके देवेषु स्थापयतु किं मधोः घृतस्य च धाराः अनुपक्षीणा देवयोग्याश्च करोत्वित्यर्थः ॥
इति पञ्चमे सप्तमे सप्तमोनुवाकः ॥