पञ्चशत् 1 #
ओजो᳚ ग्री॒वाभि॒र्-निर्.ऋ॑तिम॒स्थभि॒रिन्द्रꣳ॒॒ स्वप॑सा॒ वहे॑न रु॒द्रस्य॑ विच॒लः स्क॒न्धो॑ ऽहोरा॒त्रयो᳚र्द्वि॒तीयो᳚ ऽर्द्धमा॒सानां᳚ तृ॒तीयो॑ मा॒सां च॑तु॒र्थ ऋ॑तू॒नां प॑ञ्च॒मः सं॑ॅवथ्स॒रस्य॑ ष॒ष्ठः ॥
पदपाठः (Word-by-word)
ओजः॑ । ग्री॒वाभिः॑ । निर्.ऋ॑ति॒मिति॒ निः-ऋ॒ति॒म् । अ॒स्थभि॒रित्य॒स्थ-भिः॒ । इन्द्र᳚म् । स्वप॒सेति॑ सु - अप॑सा । वहे॑न । रु॒द्रस्य॑ । वि॒च॒ल इति॑ वि - च॒लः । स्क॒न्धः । अ॒हो॒रा॒त्रयो॒रित्य॑हः - रा॒त्रयोः᳚ । द्वि॒तीयः॑ । अ॒द्र्ध॒मा॒साना॒मित्य॑द्र्ध - मा॒साना᳚म् । तृ॒तीयः॑ । मा॒साम् । च॒तु॒र्थः । ऋ॒तू॒नाम् । प॒ञ्च॒मः । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । ष॒ष्ठः ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथाष्टमगतान्मन्त्रानाह - ओजो ग्रीवाभिरिति ॥ ग्रीवास्तदवयवाः । अस्थीनि तत्रत्यानि । योऽयं वहो वहनयोग्यप्रदेशः स्वपाः शोभनकर्मा वहेनेत्यन्तः स्वपाः सोयमिन्द्रस्य भागः । स्कन्धोऽवयवभेदेन षोढा भिन्नः । तत्रात्यन्तचञ्चलोऽवयवो रुद्रस्य । तत्तदनन्तरभाविनोऽहोरात्रादीनाम् ॥
इति माधवीये पञ्चमे सप्तमे अष्टादशोनुवाकः ॥