प्रश्नः 7 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.7.7.3 TS 5.7.7.3
-द॒ग्निर्वै᳚श्वकर्म॒णः सुव॑र्दे॒वेषु॑ नो दधत् ॥येना॑ स॒हस्रं॒ ॅवह॑सि॒ येना᳚ग्ने सर्ववेद॒सं । तेने॒मं ॅय॒ज्ञ्ं नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ॥येना᳚ग्ने॒ दक्षि॑णा यु॒क्ता य॒ज्ञ्ं ॅवह॑न्त्यृ॒त्विजः॑ । तेने॒मं ॅय॒ज्ञ्ं नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ॥येना᳚ग्ने॒ सु॒कृतः॑ प॒था मधो॒र्द्धारा᳚ व्यान॒शुः । तेने॒मं ॅय॒ज्ञ्ं नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ( ) ॥यत्र॒ धारा॒ अन॑पेता॒ मधो᳚र्घृ॒तस्य॑ च॒ याः । तद॒ग्निर्वै᳚श्वकर्म॒णः सुव॑र्दे॒वेषु॑ नो दधत् ॥
पदपाठः (Word-by-word)
अ॒ग्निः । वै॒श्व॒क॒र्म॒ण इति॑ वैश्व - क॒र्म॒णः । सुवः॑ । दे॒वेषु॑ । नः॒ । द॒ध॒त् ॥ येन॑ । स॒हस्र᳚म् । वह॑सि । येन॑ । अ॒ग्ने॒ । स॒र्व॒वे॒द॒समिति॑ सर्व - वे॒द॒सम् ॥ तेन॑ । इ॒मम् । य॒ज्ञ्म् । नः॒ । व॒ह॒ । सुवः॑ । दे॒वेषु॑ । गन्त॑वे ॥ येन॑ । अ॒ग्ने॒ । दक्षि॑णाः । यु॒क्ताः । य॒ज्ञ्म् । वह॑न्ति । ऋ॒त्विजः॑ ॥ तेन॑ । इ॒मम् । य॒ज्ञ्म् । नः॒ । व॒ह॒ । सुवः॑ । दे॒वेषु॑ । गन्त॑वे ॥ येन॑ । अ॒ग्ने॒ । सु॒कृत॒ इति॑ सु - कृतः॑ । प॒था । मधोः᳚ । धाराः᳚ । व्या॒न॒शुरिति॑ वि - आ॒न॒शुः ॥ तेन॑ । इ॒मम् । य॒ज्ञ्म् । नः॒ । व॒ह॒ । सुवः॑ । दे॒वेषु॑ । गन्त॑वे ( ) ॥ यत्र॑ । धाराः᳚ । अन॑पेता॒ इत्यन॑प - इ॒ताः॒ । मधोः᳚ । घृ॒तस्य॑ । च॒ । याः ॥ तत् । अ॒ग्निः । वै॒श्व॒क॒र्म॒ण इति॑ वैश्व - क॒र्म॒णः । सुवः॑ । दे॒वेषु॑ । नः॒ । द॒ध॒त् ॥
पदसंख्या: 64