-चिनुते॒ यो वै प्र॒जाप॑तये प्रति॒ प्रोच्या॒ग्निं चि॒नोति॒ नाऽऽ*र्ति॒मार्च्छ॒-त्यश्वा॑व॒भित॑स्तिष्ठेतां कृ॒ष्ण उ॑त्तर॒तः श्वे॒तो दक्षि॑ण॒स्तावा॒लभ्येष्ट॑का॒ उप॑ दद्ध्यादे॒तद्वै प्र॒जाप॑ते रू॒पं प्रा॑जाप॒त्योऽश्वः॑ सा॒क्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निं चि॑नोति॒ नाऽऽ*र्ति॒मार्च्छ॑त्ये॒तद्वा अह्नो॑ रू॒पं ॅयच्छ्वे॒तोऽश्वो॒ रात्रि॑यै कृ॒ष्ण ए॒तदह्नो॑ - [ ]
पदपाठः (Word-by-word)
चि॒नु॒ते॒ । यः । वै । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । प्र॒ति॒प्रोच्येति॑ प्रति - प्रोच्य॑ । अ॒ग्निम् । चि॒नोति॑ । न । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । अश्वौ᳚ । अ॒भितः॑ । ति॒ष्ठे॒ता॒म् । कृ॒ष्णः । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । श्वे॒तः । दक्षि॑णः । तौ । आ॒लभ्येत्या᳚ - लभ्य॑ । इष्ट॑काः । उपेति॑ । द॒द्ध्या॒त् । ए॒तत् । वै । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । रू॒पम् । प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । अश्वः॑ । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । प्र॒ति॒प्रोच्येति॑ प्रति - प्रोच्य॑ । अ॒ग्निम् । चि॒नो॒ति॒ । न । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । ए॒तत् । वै । अह्नः॑ । रू॒पम् । यत् । श्वे॒तः । अश्वः॑ । रात्रि॑यै । कृ॒ष्णः । ए॒तत् । अह्नः॑ ।