रू॒पं ॅयदिष्ट॑का॒ रात्रि॑यै॒ पुरी॑ष॒मिष्ट॑का उपधा॒स्यञ्छ्वे॒त-मश्व॑म॒भि मृ॑शे॒त् पुरी॑षमुपधा॒स्यन् कृ॒ष्णम॑होरा॒त्राभ्या॑मे॒वैनं॑ चिनुते हिरण्य पा॒त्रं मधोः᳚ पू॒र्णं द॑दाति मध॒व्यो॑ ऽसा॒नीति॑ सौ॒र्या चि॒त्रव॒त्याऽवे᳚क्षते चि॒त्रमे॒व भ॑वति म॒द्ध्यन्दि॒नेऽश्व॒मव॑ घ्रापयत्य॒सौ वा आ॑दि॒त्य इन्द्र॑ ए॒ष प्र॒जाप॑तिः प्राजाप॒त्योऽश्व॒स्तमे॒व सा॒क्षादृ॑द्ध्नोति ॥
पदपाठः (Word-by-word)
रू॒पम् । यत् । इष्ट॑काः । रात्रि॑यै । पुरी॑षम् । इष्ट॑काः । उ॒प॒धा॒स्यन्नित्यु॑प - धा॒स्यन्न् । श्वे॒तम् । अश्व᳚म् । अ॒भीति॑ । मृ॒शे॒त् । पुरी॑षम् । उ॒प॒धा॒स्यन्नित्यु॑प - धा॒स्यन्न् । कृ॒ष्णम् । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् । ए॒व । ए॒न॒म् । चि॒नु॒ते॒ । हि॒र॒ण्य॒पा॒त्रमिति॑ हिरण्य-पा॒त्रम् । मधोः᳚ । पू॒र्णम् । द॒दा॒ति॒ । म॒ध॒व्यः॑ । अ॒सा॒नि॒ । इति॑ । सौ॒र्या । चि॒त्रव॒त्येति॑ चि॒त्र-व॒त्या॒ । अवेति॑ । ई॒क्ष॒ते॒ । चि॒त्रम् । ए॒व । भ॒व॒ति॒ । म॒द्ध्यन्दि॑ने । अश्व᳚म् । अवेति॑ । घ्रा॒प॒य॒ति॒ । अ॒सौ । वै । आ॒दि॒त्यः । इन्द्रः॑ । ए॒षः । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । अश्वः॑ । तम् । ए॒व । सा॒क्षादिति॑ स - अ॒क्षात् । ऋ॒द्ध्नो॒ति॒ ॥