प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सो᳚ऽस्माथ् सृ॒ष्टः प्राङ् प्राऽ*द्र॑व॒त् तस्मा॒ अश्वं॒ प्रत्या᳚स्य॒थ् स द॑क्षि॒णाऽऽव॑र्तत॒ तस्मै॑ वृ॒ष्णिं प्रत्या᳚स्य॒थ् स प्र॒त्यङ्ङाऽव॑र्तत॒ तस्मा॑ ऋष॒भं प्रत्या᳚स्य॒थ् स उद॒ङ्ङाऽव॑र्तत॒ तस्मै᳚ ब॒स्तं प्रत्या᳚स्य॒थ् स ऊ॒र्द्ध्वो᳚ऽद्रव॒त् तस्मै॒ पुरु॑षं॒ प्रत्या᳚स्य॒द्यत् प॑शुशी॒र्॒.षाण्यु॑प॒दधा॑ति स॒र्वत॑ ए॒वैन॑ - [ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒ग्निम् । अ॒सृ॒ज॒त॒ । सः । अ॒स्मा॒त् । सृ॒ष्टः । प्राङ् । प्रेति॑ । अ॒द्र॒व॒त् । तस्मै᳚ । अश्व᳚म् । प्रतीति॑ । आ॒स्य॒त् । सः । द॒क्षि॒णा । एति॑ । अ॒व॒र्त॒त॒ । तस्मै᳚ । वृ॒ष्णिम् । प्रतीति॑ । आ॒स्य॒त् । सः । प्र॒त्यङ् । एति॑ । अ॒व॒र्त॒त॒ । तस्मै᳚ । ऋ॒ष॒भम् । प्रतीति॑ । आ॒स्य॒त् । सः । उदङ्॑ । एति॑ । अ॒व॒र्त॒त॒ । तस्मै᳚ । ब॒स्तम् । प्रतीति॑ । आ॒स्य॒त् । सः । ऊ॒द्र्ध्वः । अ॒द्र॒व॒त् । तस्मै᳚ । पुरु॑षम् । प्रतीति॑ । आ॒स्य॒त् । यत् । प॒शु॒शी॒र्॒.षाणीति॑ पशु - शी॒र्॒.षाणि॑ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । स॒र्वतः॑ । ए॒व । ए॒न॒म् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 प्रजापतेरित्यादि पशुशिरसां विधिः ॥ प्रजापतिना सृष्टोग्निरस्मात्प्रजापतेः प्राङ्मुखतः प्राद्रवत् । तस्मै तन्निवृत्त्यर्थं अश्वं प्रत्यास्यत् प्रातिकूल्येनाग्रतः क्षिप्तवान्, अश्वेन प्रतिरुद्धवानिति यावत् । ततस्सोग्निरावृत्य दक्षिणस्यां दिशि आवर्तत । ततो सक्तुं(?) तस्मै वृष्णिं प्रत्यास्यत् । एवं सर्वत्र । दक्षिणादाच् । तस्मात्पशुशिरसामुपधानेन सर्वतो रुद्धस्य सर्वाभ्यो दिग्भ्यो निर्निरुद्धोग्निश्चितो भवति ॥
2 एता वा इत्यादि ॥ भूतपूर्वं प्राणभृत्त्वं चक्षुष्मत्त्वं च शिरस्सूपचर्यते । उपधेयत्वाच्चेष्टकात्वम् । तदुपधानेन यजमानोमुष्मिन् लोके प्राणिति जीवति । लोकाश्चेमे अस्मै प्रभान्ति प्रकर्षेण प्रकाशन्ते उपकारका भवन्ति ॥
3 मृदाऽभिलिप्येति विधिः ॥
4 पशुर्वा इत्यादि ॥ पशुशिरसु गुणविध्यर्थम् । पशुसाधनत्वात् पशवोग्निः । अन्नसाधनत्वात् अन्नं पशवः । किञ्च - एषोग्निरेव पशुशीर्षाणि, अवयवावयविनोरभिन्नत्वात् पशुत्वस्य च समानत्वात् । तस्माद्यजमानमध्वर्युः कामयते कनीयोल्पतरं अस्यान्नं स्यादिति तस्य संतरां सन्निकृष्टतराणि पशुशीर्षाण्युपदध्यात् । 'किमेत्तिङ्व्यय' इत्यामुप्रत्ययः । कनीय एवेत्यादि । गतम् । समावत् समम् । समादावतुप् स्वार्थिकः । मध्यतो नातिसन्निकृष्टा दिक् । भूयः बहुतरम् । अन्तेष्वित्यादि । अन्तेषु प्रान्तेषु ०युदूह्य व्युदूह्योपदद्ध्यात् । अन्ततो दिगन्तेभ्योस्मै यजमानायान्नमवरुन्धे । ततो बहुतरं तस्यान्नं भवति ॥
इति पञ्चमे सप्तमे दशमोनुवाकः ॥