स्ते॒गान् दꣳष्ट्रा᳚भ्यां म॒ण्डूका॒न् जंभ्ये॑भि॒राद॑कां-खा॒देनोर्जꣳ॑ सꣳ सू॒देना*ऽर॑ण्यं॒ जांबी॑लेन॒ मृदं॑ ब॒र्.स्वे॑भिः॒ शर्क॑राभि॒रव॑का॒मव॑काभिः॒ शर्क॑रामुथ्सा॒देन॑ जि॒ह्वाम॑वक्र॒न्देन॒ तालुꣳ॒॒ सर॑स्वतीं जिह्वा॒ग्रेण॑ ॥
पदपाठः (Word-by-word)
स्ते॒गान् । दꣳष्ट्रा᳚भ्याम् । म॒ण्डूकान्॑ । जंभ्ये॑भिः । आद॑काम् । खा॒देन॑ । ऊर्ज᳚म् । सꣳ॒॒सू॒देनेति॑ सं-सू॒देन॑ । अर॑ण्यम् । जांबी॑लेन । मृद᳚म् । ब॒र्स्वे॑भिः । शर्क॑राभिः । अव॑काम् । अव॑काभिः । शर्क॑राम् । उ॒थ्सा॒देनेत्यु॑त् - सा॒देन॑ । जि॒ह्वाम् । अ॒व॒क्र॒न्देनेत्य॑व - क्र॒न्देन॑ । तालु᳚म् । सर॑स्वतीम् । जि॒ह्वा॒ग्रेणेति॑ जिह्वा - अ॒ग्रेण॑ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 समन्त्रकः सब्राह्मणोऽग्निस्समाप्तः । अतः परमश्वमेधकाण्डं वैश्वदेवम् । तत्र हविषा प्रचर्याज्यमवदानं कृत्वा 'स्तेगान्' इत्यादिचतुर्दशभिरनुवाकैः प्रतिमन्त्रं शरीरहोमं जुहोति । अत्र द्वितीयया निर्दिष्टा देवताः स्तेगाद्याः । तृतीयानिर्दिष्टान्यश्वस्याङ्गानि दंष्ट्रादीनि । इमां देवतामनेन अश्वेन यजामीति होमकाल उभयं स्मर्तव्यमिति मन्त्राभिप्रायः । अत्र ब्राह्मणं 'वैश्वदवो वा अश्वः । तं यत्प्राजापत्यं कुर्यात् । समदं दधाति' इति । स्तेगाः क्षुद्रजन्तुविशेषाः गोकर्णकण्टका इति प्रसिद्धाः । महाकण्टका इत्यन्ये । तदधिष्ठातृदेवता गृह्यते । दंष्ट्रे दन्ते उन्नते । मण्डूकाः प्रसिद्धाः । तद्दन्तमूलं जम्भः तत्र भवा जम्भ्या: पार्श्वदन्ताः । यद्वा - स्वार्थिको यत् । आदका भक्षयित्री प्राणाभिमानिनी देवता । पावकादित्वादित्वाभावः । खादः दन्तः येन खाद्यन्ते । करणे घञ्, 'कर्षात्वतः' इत्यन्तोदात्तत्वम् । ऊर्क् रसः । तदभिमानिनी देवता सर्वत्र ग्राह्या । संसूदः सन्ततक्षरणो नासिकादिः । थाथादिना उत्तरपदान्तोदात्तत्वम् । आरण्यं प्रसिद्धम् । जाम्बीलं भक्षिततृणादि यत्र निधीयते आमाशय इति प्रसिद्धम् । मृत् प्रसिद्धा । बर्स्वः दन्तमूलमांसादीनि । शर्कराः तत्सदृशान्यस्थीनि । अवका अवित्री देवता अग्निस्थानाभिमानिनी । पूर्ववदित्वाभावः । शैवालाभिमानिनी वा गृह्यते । अवकाः शैवालसदृशानि मांसानि । अस्थिविशेषा इत्यस्ये । शर्कराः प्रसिद्धाः । उत्सादः उच्चप्रदेशः । जिह्वा प्रसिद्धा । अवक्रन्दः आन्तःकायिकः । तालुः शब्दाभिव्यक्तिस्थानं जिह्वामूलम् । सरस्वतीं जिह्वाग्रेण । गतम् ॥
इति पञ्चमे सप्तमे एकादशोनुवाकः ॥