प्रश्नः 7 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.7.17.1 TS 5.7.17.1
पू॒ष्णो व॑नि॒ष्ठुर॑न्धा॒हेः स्थू॑रगु॒दा स॒र्पान् गुदा॑भिर्. ऋ॒तून् पृ॒ष्टीभि॒र्दिवं॑ पृ॒ष्ठेन॒ वसू॑नां प्रथ॒मा कीक॑सा रु॒द्राणां᳚ द्वि॒तीया॑ ऽऽदि॒त्यानां᳚ तृ॒तीया ऽङ्गि॑रसां चतु॒र्थी सा॒द्ध्यानां᳚ पञ्च॒मी विश्वे॑षां दे॒वानाꣳ॑ ष॒ष्ठी ॥
पदपाठः (Word-by-word)
पू॒ष्णः । व॒नि॒ष्ठुः । अ॒न्धा॒हेरित्य॑न्ध-अ॒हेः । स्थू॒र॒गु॒देति॑ स्थूर - गु॒दा । स॒र्पान् । गुदा॑भिः । ऋ॒तून् । पृ॒ष्टीभि॒रिति॑ पृ॒ष्टि - भिः॒ । दिव᳚म् । पृ॒ष्ठेन॑ । वसू॑नाम् । प्र॒थ॒मा । कीक॑सा । रु॒द्राणा᳚म् । द्वि॒तीया᳚ । आ॒दि॒त्याना᳚म् । तृ॒तीया᳚ । अङ्गि॑रसाम् । च॒तु॒र्थी । सा॒द्ध्याना᳚म् । प॒ञ्च॒मी । विश्वे॑षाम् । दे॒वाना᳚म् । ष॒ष्ठी ॥
पदसंख्या: 24
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पूष्णो वनिष्ठुः । पूर्ववत् षष्ठीनिर्दिष्टा देवता । गुदसदृशं मांसं वनिष्ठुः । अन्धाहेः स्थूरगुदा 'सर्पान् गुदाभिः' इति वक्ष्यमाणस्य अयं पुरस्तादपवादः । गुदमूलं स्थूलगुदा । कपिलकादित्वाल्लत्वविकल्पः । सर्पाः प्रसिद्धाः । गुदाः गुदभागाः । ऋतवः प्रसिद्धाः । पृष्टयो बाह्वोरुपरिस्थितान्यस्थीनि । छान्दसं सांहितिकं दीर्धत्वम् । द्यौः प्रसिद्धा । पृष्टं ग्रीवोपरिस्थितं वंशास्थि । वसूनां प्रथमा कीकसेति । ग्रीवाया आरभ्य ष्टष्ठवंशस्थितान्यस्थिगो- ळकानि क्रमेण वस्वादीनाम् ॥
इति पञ्चमे सप्तमे सप्तदशोनुवाकः ॥