चीयते॒ यद॒ग्निर्येन॑ दे॒वा ज्योति॑षो॒र्द्ध्वा उ॒दाय॒न्नित्युख्यꣳ॒॒ समि॑न्ध॒ इष्ट॑का ए॒वैता उप॑ धत्ते वानस्प॒त्याः सु॑व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै श॒तायु॑धाय श॒तवी᳚र्याय श॒तोत॑ये ऽभिमाति॒षाहे᳚ । श॒तं ॅयो नः॑ श॒रदो॒ अजी॑ता॒निन्द्रो॑ नेष॒दति॑ दुरि॒तानि॒ विश्वा᳚ ॥ये च॒त्वारः॑ प॒थयो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ ।तेषां॒ ॅयो अज्या॑नि॒- मजी॑ति-मा॒वहा॒त् तस्मै॑ नो देवाः॒ - [ ]
पदपाठः (Word-by-word)
ची॒य॒ते॒ । यत् । अ॒ग्निः । येन॑ । दे॒वाः । ज्योति॑षा । उ॒द्र्ध्वाः । उ॒दाय॒न्नित्यु॑त्-आयन्न्॑ । इति॑ । उख्य᳚म् । समिति॑ । इ॒न्धे॒ । इष्ट॑काः । ए॒व । ए॒ताः । उपेति॑ । ध॒त्ते॒ । वा॒न॒स्प॒त्याः । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ । श॒तायु॑धा॒येति॑ श॒त - आ॒यु॒धा॒य॒ । श॒तवी᳚र्या॒येति॑ श॒त - वी॒र्या॒य॒ । श॒तोत॑य॒ इति॑ श॒त - ऊ॒त॒ये॒ । अ॒भि॒मा॒ति॒षाह॒ इत्य॑भिमाति - साहे᳚ ॥ श॒तम् । यः । नः॒ । श॒रदः॑ । अजी॑तान् । इन्द्रः॑ । ने॒ष॒त् । अतीति॑ । दु॒रि॒तानीति॑ दुः - इ॒तानि॑ । विश्वा᳚ ॥ ये । च॒त्वारः॑ । प॒थयः॑ । दे॒व॒याना॒ इति॑ देव - यानाः᳚ । अ॒न्त॒रा । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । वि॒यन्तीति॑ वि - यन्ति॑ ॥ तेषा᳚म् । यः । अज्या॑निम् । अजी॑तिम् । आ॒वहा॒दित्या᳚ - वहा᳚त् । तस्मै᳚ । नः॒ । दे॒वाः॒ ।