प्रश्नः 7 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.7.20.1 TS 5.7.20.1
अह॑र्माꣳ॒॒सेन॒ रात्रिं॒ पीव॑सा॒ऽपो यू॒षेण॑ घृ॒तꣳ रसे॑न॒ श्यां ॅवस॑या दू॒षीका॑भि-र्ह्रा॒दुनि॒-मश्रु॑भिः॒ पृष्वां॒ दिवꣳ॑ रू॒पेण॒ नक्ष॑त्राणि॒ प्रति॑रूपेण पृथि॒वीं चर्म॑णा छ॒वीं छ॒व्यो॑ पाकृ॑ताय॒ स्वाहा ऽऽल॑ब्धाय॒ स्वाहा॑ हु॒ताय॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
अहः॑ । माꣳ॒॒सेन॑ । रात्रि᳚म् । पीव॑सा । अ॒पः । यू॒षेण॑ । घृ॒तम् । रसे॑न । श्याम् । वस॑या । दू॒षीका॑भिः । ह्रा॒दुनि᳚म् । अश्रु॑भि॒रित्यश्रु॑ - भिः॒ । पृष्वा᳚म् । दिव᳚म् । रू॒पेण॑ । नक्ष॑त्राणि । प्रति॑रूपे॒णेति॒ प्रति॑ - रू॒पे॒ण॒ । पृ॒थि॒वीम् । चर्म॑णा । छ॒वीम् । छ॒व्या᳚ । उ॒पाकृ॑ता॒येत्यु॑प - आकृ॑ताय । स्वाहा᳚ । आल॑ब्धा॒येत्या - ल॒ब्धा॒य॒ । स्वाहा᳚ । हु॒ताय॑ । स्वाहा᳚ ॥
पदसंख्या: 28
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अहर्मांसेन । गतम् । रात्रिः प्रसिद्धा । पीवसा रेतः प्रावरणचर्मणा । अपः प्रसिद्धाः । यूषेण यूष्णा पक्वमांसान्निस्स्रुतेन जलेन । घृतं रसेन । गतम् । श्याम् अवश्यायः, श्वायतेर्विच् । वसया स्नेहविशेषेण । दूषिका अक्षिमलम् । छान्दसं दीर्घत्वम् । ह्रादुनि हृदयस्थं जलम् । अश्रूणि प्रसिद्धानि । पृष्वां निम्नस्थं जलम् । द्यौः प्रसिद्धा । रूपं मुख्यं स्वरूपम् । नक्षत्राणि प्रसिद्धानि । प्रतिरूपं मुखसदृशम् । पृथिवीं चर्मणा । गतम् । छविं आकारशोभाम् । 'कृदिकारादक्तिनः' इति ङीष् । छव्या चर्मपुटेन सूक्ष्मेण । उपाकृतायेत्यादि । गतम् । उपाकृतावस्थोऽश्वो देवता । आलब्धा नियुक्ता ॥
इति पञ्चमे सप्तमे विंशोनुवाकः ॥