इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्नस्तनू॒पा नः॑ प्रतिस्प॒शः । यो नः॑ पु॒रस्ता᳚द् दक्षिण॒तः प॒श्चा-दु॑त्तर॒तो॑-ऽघा॒युर॑भि॒दास॑त्ये॒तꣳ सोऽश्मा॑नमृच्छतु ॥ दे॒वा॒सु॒राः संॅय॑त्ता आस॒न् तेऽसु॑रा दि॒ग्भ्य आऽबा॑धन्त॒ तान् दे॒वा इष्वा॑ च॒ वज्रे॑ण॒ चापा॑नुदन्त॒ यद्-व॒ज्रिणी॑रुप॒दधा॒तीष्वा॑ चै॒व तद्-वज्रे॑ण च॒ यज॑मानो॒ भ्रातृ॑व्या॒नप॑ नुदते दि॒क्षूप॑ - [ ]
पदपाठः (Word-by-word)
इन्द्र॑स्य । वज्रः॑ । अ॒सि॒ । वार्त्र॑घ्न॒ इति॒ वार्त्र॑ - घ्नः॒ । त॒नू॒पा इति॑ तनू - पाः । नः॒ । प्र॒ति॒स्प॒श इति॑ प्रति - स्प॒शः ॥ यः । नः॒ । पु॒रस्ता᳚त् । द॒क्षि॒ण॒तः । प॒श्चात् । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । अ॒घा॒युरित्य॑घ - युः । अ॒भि॒दास॒तीत्य॑भि - दास॑ति । ए॒तम् । सः । अश्मा॑नम् । ऋ॒च्छ॒तु॒ ॥ दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । संॅय॑त्ता॒ इति॒ सं - य॒त्ताः॒ । आ॒स॒न्न् । ते । असु॑राः । दि॒ग्भ्य इति॑ दिक्-भ्यः । एति॑ । अ॒बा॒ध॒न्त॒ । तान् । दे॒वाः । इष्वा᳚ । च॒ । वज्रे॑ण । च॒ । अपेति॑ । अ॒नु॒द॒न्त॒ । यत् । व॒ज्रिणीः᳚ । उ॒प॒दधा॒तीत्यु॑प-दधा॑ति । इष्वा᳚ । च॒ । ए॒व । तत् । वज्रे॑ण । च॒ । यज॑मानः । भ्रातृ॑व्यान् । अपेति॑ । नु॒द॒ते॒ । दि॒क्षु । उपेति॑ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 वज्रिणीरुपदधाति - इन्द्रस्य वज्रोसीति ॥ अयमेव मन्त्रः प्रतिदिशं पुरस्ताद्दक्षिणतः पश्चादुत्तरत इति । दिशिदिशि विशेषः 'यो नः पुरस्तादभिदासति' 'यो नो दक्षिणतोभिदासति' इत्यादि । तेनैताश्चतस्रः पथ्याः, 'तृतीयश्चेद्द्वादशाक्षरः पथ्या' इति हे इष्टके इन्द्रस्य वज्रोसि । व्याख्यातम् । सा त्वं नोस्माकं तनूपाश्शरीरस्य रक्षिता । पातेर्विच् । भवेति शेषः । यद्वा - असीति सम्बध्यते । इन्द्रस्य वज्रोसीति वृत्रहननसाधनं अस्माकं त्वं तनूपा इति प्रतिस्पशः बाधितॄणां बाधिता प्ररीपं बाधकः । स्पश बाधने, पचाद्यच् । वज्रापेक्षया पुछिङ्गत्वम् । यो नः पुरस्तात् पूर्वस्यां दिशि अघायुः अघं पापमिच्छन् । 'छन्दसि परेच्छायामपि' इति क्यच् । 'अश्वाघस्यात्' इत्यात्वम् । 'क्याच्छन्दसि' इत्युप्रत्ययः । अभिदासति - आभिमुख्येन उपक्षपयति । छान्दसमात्वम्, विकरणव्यत्ययश्च । यद्वा - ण्यन्ताल्लिटि 'छन्दस्युभयथा' इति शप आर्धधातुकत्वात् णिलोपः । स एतमस्माकं व्यापकं इष्टकात्मानं वा पाषाणमृच्छतु अनुप्रविशतु वा, पाषाणीभवत्विति यावत् ॥
2 अथ तत्रैव ब्राह्मणम् - देवासुरा इत्यादि ॥ आबाधन्त सर्वतो दिक्षु बाधितवन्तोसुराः । तानित्यादि । गतम् । यद्वज्रिणीरिति । 'इन्द्रस्य वज्रोसि' इत्येवमाद्या ॥
3 दिक्ष्वित्यादि ॥ देवानां पुरो नगराणि देवपुराः । 'ऋक्पूरब्धूः' इत्यकारस्समासान्तः, परवल्लिङ्गता । शरीररक्षार्था देवपुरा एव पर्यूहते सर्वासु दिक्षु प्रतिष्ठापयति यद्दिक्षु वज्रिणीरुपदधाति ॥
4 अथ वसोर्धाराहोमविशेषविधित्सया पुनरपि विधित्सन् तन्मन्त्राग्रगतामृचं स्तोतुं पुनः पठति - अग्नाविष्णू इति ॥ व्याख्यातेयं चतुर्थे । अग्नाविष्णू समानप्रीतिकौ युवां अस्मदीया गिरो वर्धयन्तु । युवामपि द्युम्नैः धनैः दीप्तिमद्भिर्वा अन्नैश्च अस्मभ्यं देयैस्समागच्छतमिति ॥
5 ब्रह्मवादिन इत्यादि ॥ इयं वसोर्धारा कस्यैचिद्देवतायै न हूयते । 'वाजश्च मे' इत्यादौ देवताया अनिर्देशादियं किंदेवत्येति पर्यनुयोगं वदन्ति ब्रह्मवादिनः । जुह्वतीत्यत्र 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । कस्यै देवतायै इयम् । 'देवतान्तात्तादर्थ्ये यत्' । तत्रोत्तरं - अग्निरित्यादि । वासहेतुः प्रजानां वसुः अग्निर्विष्णुश्च । तस्माद्वसोर्धारेतिनामधेया देवता गम्यत इति । तस्मादाग्नावैष्णव्या 'अग्नाविष्णू' इत्येतयर्चा होमात् ते एव देवते भागधेयेन प्रीणाति । अथो अपि च एतामाहुतिं आयतनवतीं करोति न परदेवतावतीमिति । अन्यथा 'च मे च मे' इति निगद्य हूयमानेयं कुत्र तिष्ठेत् । तस्मात् यत्कामः यज्जातिकं कामयमान एनां जुहोति देवतालाभात् स्थानलाभात् । 'शीलिकामि' इत्यादिना णः, पूर्वपदप्रकृतिस्वरत्वं च ॥
6 रुद्रो वा इत्यादि ॥ घोरां क्रुद्धां देवस्य तनुं शतरुद्रीयेण 'नमस्ते रुद्र मन्यवे' इत्येतेन शमयति शिवां प्रागेव शान्तां तनुं वसोर्धारया प्रीणयतीति । यो वा इत्यादि । गतम् ॥
7 उच्छिष्येत अतिरिच्येत ब्राह्मणेभ्यो देयमोदनं ब्रह्मौदनम् । प्रियायामेवेति । अग्नेः प्रियशरीरभूते वैश्वानरात्मनि ब्राह्मण इत्यर्थः । तत्रेयमाहुतिः प्रतिष्ठाप्यते यत् ब्राह्मणा ब्रह्मौदनं प्राश्नन्ति इयं वै वसोर्धारा प्रतिष्ठेति ॥
8 चतस्र इति ॥ भुक्तवद्भ्यो ब्राह्मणेभ्यः । ताभिरेवेति । ताभिः धेनुभिः वत्सस्थानीयाभिः अमुष्मिन् लोके भोगस्थाने अग्निं दुहे गोस्थानीयं दुग्धे कामान् दुहे । 'लोपस्त आत्मनेपदेषु' इति तलोपः ॥
इति पञ्चमे सप्तमे तृतीयोनुवाकः ॥