प्रति॒ष्ठां ॅवेद॒ प्रत्ये॒व ति॑ष्ठति॒ यदाज्य॑मु॒च्छिष्ये॑त॒ तस्मि॑न् ब्रह्मौद॒नं प॑चे॒त् तं ब्रा᳚ह्म॒णाश्च॒त्वारः॒ प्राश्नी॑युरे॒ष वा अ॒ग्निर्वै᳚श्वान॒रो यद्ब्रा᳚ह्म॒ण ए॒षा खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूर्यद्-वै᳚श्वान॒रः प्रि॒याया॑मे॒वैनां᳚ त॒नुवां॒ प्रति॑ ष्ठापयति॒ चत॑स्रो धे॒नूर्द॑द्या॒त् ताभि॑रे॒व यज॑मानो॒ऽमुष्मि॑न् ॅलो॒के᳚ऽग्निं दु॑हे ॥
पदपाठः (Word-by-word)
प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । वेद॑ । प्रतीति॑ । ए॒व । ति॒ष्ठ॒ति॒ । यत् । आज्य᳚म् । उ॒च्छिष्ये॒तेत्यु॑त् - शिष्ये॑त । तस्मिन्न्॑ । ब्र॒ह्मौ॒द॒नमिति॑ ब्रह्म - ओ॒द॒नम् । प॒चे॒त् । तम् । ब्रा॒ह्म॒णाः । च॒त्वारः॑ । प्रेति॑ । अ॒श्नी॒युः॒ । ए॒षः । वै । अ॒ग्निः । वै॒श्वा॒न॒रः । यत् । ब्रा॒ह्म॒णः । ए॒षा । खलु॑ । वै । अ॒ग्नेः । प्रि॒या । त॒नूः । यत् । वै॒श्वा॒न॒रः । प्रि॒याया᳚म् । ए॒व । ए॒ना॒म् । त॒नुवा᳚म् । प्रतीति॑ । स्था॒प॒य॒ति॒ । चत॑स्रः । धे॒नूः । द॒द्या॒त् । ताभिः॑ । ए॒व । यज॑मानः । अ॒मुष्मिन्न्॑ । लो॒के । अ॒ग्निम् । दु॒हे॒ ॥