वयो॒ वा अ॒ग्निर्यद॑ग्नि॒चित् प॒क्षिणो᳚ऽश्नी॒यात् तमे॒वाग्निम॑द्या॒दा-र्ति॒मार्च्छे᳚थ् संॅवथ्स॒रं ॅव्र॒तं च॑रेथ् संॅवथ्स॒रꣳ हि व्र॒तं नाति॑ प॒शुर्वा ए॒ष यद॒ग्निर्.हि॒नस्ति॒ खलु॒ वै तं प॒शुर्य ए॑नं पु॒रस्ता᳚त् प्र॒त्यञ्च॑मुप॒चर॑ति॒ तस्मा᳚त् प॒श्चात् प्राङु॑प॒चर्य॑ आ॒त्मनोऽहिꣳ॑सायै॒ तेजो॑ऽसि॒ तेजो॑ मे यच्छ पृथि॒वीं ॅय॑च्छ - [ ]
पदपाठः (Word-by-word)
वयः॑ । वै । अ॒ग्निः । यत् । अ॒ग्नि॒चिदित्य॑ग्नि - चित् । प॒क्षिणः॑ । अ॒श्नी॒यात् । तम् । ए॒व । अ॒ग्निम् । अ॒द्या॒त् । आर्ति᳚म् । एति॑ । ऋ॒च्छे॒त् । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । व्र॒तम् । च॒रे॒त् । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । हि । व्र॒तम् । न । अतीति॑ । प॒शुः । वै । ए॒षः । यत् । अ॒ग्निः । हि॒नस्ति॑ । खलु॑ । वै । तम् । प॒शुः । यः । ए॒न॒म् । पु॒रस्ता᳚त् । प्र॒त्यञ्च᳚म् । उ॒प॒चर॒तीत्यु॑प - चर॑ति । तस्मा᳚त् । प॒श्चात् । प्राङ् । उ॒प॒चर्य॒ इत्यु॑प - चर्यः॑ । आ॒त्मनः॑ । अहिꣳ॑सायै । तेजः॑ । अ॒सि॒ । तेजः॑ । मे॒ । य॒च्छ॒ । पृ॒थि॒वीम् । य॒च्छ॒ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 वयो वा इत्यादि ॥ श्येनाकारत्वात् पक्षी भवत्यग्निः । तस्माद्यदग्निचित्पक्षिणोश्नीयात् पक्षिणो मांसमश्नीयात् तमेवाग्निमद्यात् । तत आर्तिं गच्छेत् म्रियेत । 'उपसर्गादृतिधातौ' इति वृद्धिः । तस्मात्संवत्सरं न मांसमश्नीयादिति विधिः । यस्मात्संवत्सरविधिर्नात्येति ततस्संवत्सरादूर्ध्वमनुवर्त ते । 'ससाधनां क्रियां उपसर्ग आह' इति सोपसर्गक्रियापदमध्याह्रियते । संवत्सरादर्वागेव सर्वव्रतं प्रवर्तते नाति नोर्ध्वम् ॥
2 पशुर्वा इत्यादि ॥ लुप्तोपमेयम् । यथा पशुः प्रतिकूलकारिणमाभिमुख्येन स्थितं हिनस्ति एवमयमग्निः । यस्मादेवं तस्मात्पशुसदृशोयमग्निः तमपि हिनस्ति । कं? य एनं पुरस्तात् पूर्वस्यां दिशि स्थितः प्रत्यङ्मुखः स प्रत्यञ्चं प्रतिमुखावस्थितमुपचरति आरोहणोपधानप्रोक्षणादिकमस्य करोति । तस्मात्पश्चादपरस्यां दिशि स्थितेन प्राङ्मुखोग्निः उपचर्यः उपचरितव्य इति विधिः । आत्मन एवाहिंसार्थम् । छान्दसो यत् ॥
3 प्रथममध्यमोत्तमासु चितिषु हिरण्येष्टका उपदधाति - तेजोसीत्याद्याः ॥ तेजोसि तेजोहेतुस्त्वमसि तेजो मह्यं देहि पृथिवीं च यच्छ विधेयां कुरु । पृथिव्यै ष्टथिवीनिमित्तात् रोगादेः मां पाहि । पञ्चम्यर्थे चतुर्थी, 'उदात्तयणः' इति तस्या उदात्तत्वम् । एवमुत्तरौ व्याख्येयौ । तेजः कीर्तिः । ज्योतिः दीप्तिः । सुवः स्सुखम् ॥
4 अत्रैव ब्राह्मणम् - इत्याहेति ॥ एताभिः हिरण्येष्टकाभिः इमे लोकाः विधृताः एतासामुपधानेनेत्यर्थः ॥
5 यदित्यादि ॥ गतम् । अथो इति । एताभिरिष्टकाभिः ज्योतिष्मन्तः कृता लोका अस्मै यजमानाय प्रकर्षेण भान्ति ॥
6 अथ तिस्रः ऋचः - यास्ते अग्ने इत्याद्याः ॥ प्रथमाद्वितीये 'ध्रुवासि' इत्यत्र व्याख्याते । सर्वा अनुष्टुभः प्रथमा कृतिर्नामानुष्टुप् । तत्र प्रथमा - उद्यतस्तव सूर्ये स्थिता याः रुचः दिवं रश्मिभिः व्याप्तामातन्वन्ति ताभिस्सर्वाभिः रश्मिभिः नो यजमानाय दीप्तिं कुरु ॥
7 द्वितीया - हे देवा या वः सूर्ये स्थिताः सूर्यनिवन्धना रुचः गोष्वश्वेषु या रुचः हे इन्द्राग्नी हे बृहस्पते ताभिः सर्वाभिः अस्मभ्यं रुचं धत्त ॥
8 तृतीया - नः अस्माकं ब्राह्मणेषु रुचं धेहि स्थापय ॥
9 अथात्र ब्राह्मणम् - द्वेधा वा इत्यादि ॥ अग्निं चिक्यानस्य चितवतः यश इन्द्रियं च द्वेधा गच्छति तमग्निं वा गच्छति ईजानं वा अनग्निकेन क्रतुना इष्टवन्तं न सर्वथाऽग्निचितम् । उभयत्र लिटः कानजादेशः । तस्मादेताभिः 'यास्ते अग्ने' इत्यादिभिराहुतिभिः यश इन्द्रियं चात्मनि स्थापयति, ततो नान्यं गच्छति ॥
10 ईश्वरो वा इति ॥ 'ईश्वरे तोसुन्कसुनौ' इति हेतौ शता । चयनेन हेतुना अग्निमतिक्रामति । आरोहति वारुण्या । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम्, 'उदात्तयणः' इति विभक्तेः । एषा सञ्चिताहुतिरग्नेश्शान्तिः अधिक्रमणदोषशान्तिहेतुरात्मनश्च गुप्तिः रक्षाहेतुः ॥
11 हविष्कृतो वा इत्यादि ॥ एष हविष्कृतः निर्वर्तितहवीरूप इति यावत् । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - हविष्कृतः कृतहविः भावप्रधानो हविश्शब्दः । 'जातिकालसुखादिम्यः परवचनम्' इति परनिपातः । हविस्थानीयोऽयमग्निश्चिन्वानः तस्मात् हविस्कन्दनं यथा दोषवदेवमस्याः स्त्रिया उपायनम् । तस्मान्मैत्रावरुण्याऽऽमिक्षया यजेतेति विधिः । अनूबन्ध्यास्थानीयं बिधीयते मैत्रावरुणम् । तामिति । मित्रावरुणयोर्भागो मैत्रावरुणः । तद्भावमुपैति स्कन्दनम् । ततश्च हुतकल्पत्वात् स्कन्दनदोषो नास्यात्मनः । यद्वा - स्वार्थिकोऽण् - मित्रावरुणभावमुपैति । ततश्च तद्भावेन स्थितत्वादात्मनः स्यन्दने दोषाप्रसङ्ग इति ॥
12 यो वा अग्निमित्यादि ॥ ऋतुषु वसन्तादिषु तिष्ठतीत्यृतुस्था । आकारान्तलक्षणः कः । ऋतुरृतुः सर्वः ऋतुः अस्मै यनमानाय कल्पमानः संवर्धमान एति प्रवर्तते । प्रतितिष्ठति यजमानः ॥
13 संवत्सरो वा इदि ॥ गतम् ॥
14 प्रजापतिर्वा इत्यादि ॥ एवमृतुस्थां अग्निं क्रतुषु न्यधत्त । गतमन्यत् ॥
इति पञ्चमे सप्तमे षष्ठोनुवाकः ॥