पृथि॒व्यै मा॑ पाहि॒ ज्योति॑रसि॒ ज्योति॑र्मे यच्छा॒न्तरि॑क्षं ॅयच्छा॒न्तरि॑क्षान्मा पाहि॒ सुव॑रसि॒ सुव॑र्मे यच्छ॒ दिवं॑ ॅयच्छ दि॒वो मा॑ पा॒हीत्या॑है॒ताभि॒र्वा इ॒मे लो॒का विधृ॑ता॒ यदे॒ता उ॑प॒दधा᳚त्ये॒षां ॅलो॒कानां॒ ॅविधृ॑त्यै स्वयमातृ॒ण्णा उ॑प॒धाय॑ हिरण्येष्ट॒का उप॑दधाती॒मे वै लो॒काः स्व॑यमातृ॒ण्णा ज्योति॒र्॒.हिर॑ण्यं॒ ॅयथ् स्व॑यमातृ॒ण्णा उ॑प॒धाय॑ - [ ]
पदपाठः (Word-by-word)
पृ॒थि॒व्यै । मा॒ । पा॒हि॒ । ज्योतिः॑ । अ॒सि॒ । ज्योतिः॑ । मे॒ । य॒च्छ॒ । अ॒न्तरि॑क्षम् । य॒च्छ॒ । अ॒न्तरि॑क्षात् । मा॒ । पा॒हि॒ । सुवः॑ । अ॒सि॒ । सुवः॑ । मे॒ । य॒च्छ॒ । दिव᳚म् । य॒च्छ॒ । दि॒वः । मा॒ । पा॒हि॒ । इति॑ । आ॒ह॒ । ए॒ताभिः॑ । वै । इ॒मे । लो॒काः । विधृ॑ता॒ इति॒ वि - धृ॒ताः॒ । यत् । ए॒ताः । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । ए॒षाम् । लो॒काना᳚म् । विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । स्व॒य॒मा॒तृ॒ण्णा इति॑ स्वयं - आ॒तृ॒ण्णाः । उ॒प॒धायेत्यु॑प - धाय॑ । हि॒र॒ण्ये॒ष्ट॒का इति॑ हिरण्य - इ॒ष्ट॒काः । उपेति॑ । द॒धा॒ति॒ । इ॒मे । वै । लो॒काः । स्व॒य॒मा॒तृ॒ण्णा इति॑ स्वयं-आ॒तृ॒ण्णाः । ज्योतिः॑ । हिर॑ण्यम् । यत् । स्व॒य॒मा॒तृ॒ण्णा इति॑ स्वयं - आ॒तृ॒ण्णाः । उ॒प॒धायेत्यु॑प - धाय॑ ।