हिरण्येष्ट॒का उ॑प॒दधा॑ती॒-माने॒वैताभि॑-र्लो॒का-ञ्ज्योति॑ष्मतः कुरु॒तेऽथो॑ ए॒ताभि॑रे॒वास्मा॑ इ॒मे लो॒काः प्र भा᳚न्ति॒ यास्ते॑ अग्ने॒ सूर्ये॒ रुच॑ उद्य॒तो दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑ । ताभिः॒ सर्वा॑भी रु॒चे जना॑य नस्कृधि ॥ या वो॑ देवाः॒ सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑ । इन्द्रा᳚ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते ॥ रुच॑न्नो धेहि - [ ]
पदपाठः (Word-by-word)
हि॒र॒ण्ये॒ष्ट॒का इति॑ हिरण्य - इ॒ष्ट॒काः । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । इ॒मान् । ए॒व । ए॒ताभिः॑ । लो॒कान् । ज्योति॑ष्मतः । कु॒रु॒ते॒ । अथो॒ इति॑ । ए॒ताभिः॑ । ए॒व । अ॒स्मै॒ । इ॒मे । लो॒काः । प्रेति॑ । भा॒न्ति॒ । याः । ते॒ । अ॒ग्ने॒ । सूर्ये᳚ । रुचः॑ । उ॒द्य॒त इत्यु॑त् - य॒तः । दिव᳚म् । आ॒त॒न्वन्तीत्या᳚ - त॒न्वन्ति॑ । र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ ॥ ताभिः॑ । सर्वा॑भिः । रु॒चे । जना॑य । नः॒ । कृ॒धि॒ ॥ याः । वः॒ । दे॒वाः॒ । सूर्ये᳚ । रुचः॑ । गोषु॑ । अश्वे॑षु । याः । रुचः॑ ॥ इन्द्रा᳚ग्नी॒ इतीन्द्र॑-अ॒ग्नी॒ । ताभिः॑ । सर्वा॑भिः । रुच᳚म् । नः॒ । ध॒त्त॒ । बृ॒ह॒स्प॒ते॒ ॥ रुच᳚म् । नः॒ । धे॒हि॒ ।