जु॑हुया॒च्छान्ति॑रे॒वैषा ऽग्नेर्गुप्ति॑रा॒त्मनो॑ ह॒विष्कृ॑तो॒ वा ए॒ष यो᳚ऽग्निं चि॑नु॒ते यथा॒ वै ह॒विः स्कन्द॑त्ये॒वं ॅवा ए॒ष स्क॑न्दति॒ यो᳚ऽग्निं चि॒त्वा स्त्रिय॑मु॒पैति॑ मैत्रावरु॒ण्याऽऽ*मिक्ष॑या यजेत मैत्रावरु॒णता॑-मे॒वोपै᳚त्या॒त्मनो ऽस्क॑न्दाय॒ यो वा अ॒ग्निमृ॑तु॒स्थां ॅवेद॒र्तुर्.ऋ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति संॅवथ्स॒रो वा अ॒ग्निर् - [ ]
पदपाठः (Word-by-word)
जु॒हु॒या॒त् । शान्तिः॑ । ए॒व । ए॒षा । अ॒ग्नेः । गुप्तिः॑ । आ॒त्मनः॑ । ह॒विष्कृ॑त॒ इति॑ ह॒विः - कृ॒तः॒ । वै । ए॒षः । यः । अ॒ग्निम् । चि॒नु॒ते । यथा᳚ । वै । ह॒विः । स्कन्द॑ति । ए॒वम् । वै । ए॒षः । स्क॒न्द॒ति॒ । यः । अ॒ग्निम् । चि॒त्वा । स्त्रिय᳚म् । उ॒पैतीत्यु॑प - एति॑ । मै॒त्रा॒व॒रु॒ण्येति॑ मैत्रा - व॒रु॒ण्या । आ॒मिक्ष॑या । य॒जे॒त॒ । मै॒त्रा॒व॒रु॒णता॒मिति॑ मैत्रा - व॒रु॒णता᳚म् । ए॒व । उपेति॑ । ए॒ति॒ । आ॒त्मनः॑ । अस्क॑न्दाय । यः । वै । अ॒ग्निम् । ऋ॒तु॒स्थामित्यृ॑तु - स्थाम् । वेद॑ । ऋ॒तुर्.ऋ॑तु॒रित्यृ॒तुः - ऋ॒तुः॒ । अ॒स्मै॒ । कल्प॑मानः । ए॒ति॒ । प्रतीति॑ । ए॒व । ति॒ष्ठ॒ति॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वै । अ॒ग्निः ।