यज॑मानाय चिनुयाद॒ग्निं खलु॒ वै प॒शवोऽनूप॑ तिष्ठन्तेऽप॒क्रामु॑का अस्मात् प॒शवः॑ स्यु॒र्मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निमित्या॑हा॒ऽऽत्मन्ने॒व स्वम॒ग्निं दा॑धार॒ नास्मा᳚त् प॒शवोऽप॑ क्रामन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ यन्मृच्चाऽऽप॑श्चा॒ग्नेर॑ना॒द्यमथ॒ कस्मा᳚न्मृ॒दा चा॒द्भिश्चा॒ग्निश्ची॑यत॒ इति॒ यद॒द्भिः सं॒ ॅयौ - [ ]
पदपाठः (Word-by-word)
यज॑मानाय । चि॒नु॒या॒त् । अ॒ग्निम् । खलु॑ । वै । प॒शवः॑ । अनु॑ । उपेति॑ । ति॒ष्ठ॒न्ते॒ । अ॒प॒क्रामु॑का॒ इत्य॑प - क्रामु॑काः । अ॒स्मा॒त् । प॒शवः॑ । स्युः॒ । मयि॑ । गृ॒ह्णा॒मि॒ । अग्रे᳚ । अ॒ग्निम् । इति॑ । आ॒ह॒ । आ॒त्मन्न् । ए॒व । स्वम् । अ॒ग्निम् । दा॒धा॒र॒ । न । अ॒स्मा॒त् । प॒शवः॑ । अपेति॑ । क्रा॒म॒न्ति॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ । यत् । मृत् । च॒ । आपः॑ । च॒ । अ॒ग्नेः । अ॒ना॒द्यम् । अथ॑ । कस्मा᳚त् । मृ॒दा । च॒ । अ॒द्भिरित्य॑त्-भिः । च॒ । अ॒ग्निः । ची॒य॒ते॒ । इति॑ । यत् । अ॒द्भिरित्य॑त् - भिः । सं॒ॅयौतीति॑ सं - यौति॑ ।