प्रश्नः 7 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.7.9.3 TS 5.7.9.3
-त्यापो॒ वै सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒वैनꣳ॒॒ सꣳ सृ॑जति॒ यन्मृ॒दा चि॒नोती॒यं ॅवा अ॒ग्निर्वै᳚श्वान॒रो᳚ऽग्निनै॒व तद॒ग्निं चि॑नोति ब्रह्मवा॒दिनो॑ वदन्ति॒ यन्मृ॒दा चा॒द्भिश्चा॒ग्निश्ची॒यतेऽथ॒ कस्मा॑द॒ग्निरु॑च्यत॒ इति॒ यच्छन्दो॑भि-श्चि॒नोत्य॒ग्नयो॒ वै छन्दाꣳ॑सि॒ तस्मा॑द॒ग्निरु॑च्य॒तेऽथो॑ इ॒यं ॅवा अ॒ग्निर्वै᳚श्वान॒रो य - [ ]
पदपाठः (Word-by-word)
आपः॑ । वै । सर्वाः᳚ । दे॒वताः᳚ । दे॒वता॑भिः । ए॒व । ए॒न॒म् । समिति॑ । सृ॒ज॒ति॒ । यत् । मृ॒दा । चि॒नोति॑ । इ॒यम् । वै । अ॒ग्निः । वै॒श्वा॒न॒रः । अ॒ग्निना᳚ । ए॒व । तत् । अ॒ग्निम् । चि॒नो॒ति॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । यत् । मृ॒दा । च॒ । अ॒द्भिरित्य॑त् - भिः । च॒ । अ॒ग्निः । ची॒यते᳚ । अथ॑ । कस्मा᳚त् । अ॒ग्निः । उ॒च्य॒ते॒ । इति॑ । यत् । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । चि॒नोति॑ । अ॒ग्नयः॑ । वै । छन्दाꣳ॑सि । तस्मा᳚त् । अ॒ग्निः । उ॒च्य॒ते॒ । अथो॒ इति॑ । इ॒यम् । वै । अ॒ग्निः । वै॒श्वा॒न॒रः॒ । यत् ।
पदसंख्या: 50