प्रश्नः 7 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.7.9.4 TS 5.7.9.4
-न्मृ॒दा चि॒नोति॒ तस्मा॑द॒ग्निरु॑च्यते हिरण्येष्ट॒का उप॑ दधाति॒ ज्योति॒र्वै हिर॑ण्यं॒ ज्योति॑रे॒वाऽस्मि॑न् दधा॒त्यथो॒ तेजो॒ वै हिर॑ण्यं॒ तेज॑ ए॒वाऽऽ*त्मन् ध॑त्ते॒ यो वा अ॒ग्निꣳ स॒र्वतो॑मुखं चिनु॒ते सर्वा॑सु प्र॒जास्वन्न॑मत्ति॒ सर्वा॒ दिशो॒ऽभि ज॑यति गाय॒त्रीं पु॒रस्ता॒दुप॑ दधाति त्रि॒ष्टुभं॑ दक्षिण॒तो जग॑तीं प॒श्चाद॑नु॒ष्टुभ॑मुत्तर॒तः प॒ङ्क्तिं मद्ध्य॑ ए॒ष वा ( ) अ॒ग्निः स॒र्वतो॑मुख॒स्तं ॅय ए॒वं ॅवि॒द्वाꣳश्चि॑नु॒ते सर्वा॑सु प्र॒जास्वन्न॑मत्ति॒ सर्वा॒ दिशो॒ऽभि ज॑य॒त्यथो॑ दि॒श्ये॑व दिशं॒ प्र व॑यति॒ तस्मा᳚द्-दि॒शि दिक् प्रोता᳚ ॥
पदपाठः (Word-by-word)
मृ॒दा । चि॒नोति॑ । तस्मा᳚त् । अ॒ग्निः । उ॒च्य॒ते॒ । हि॒र॒ण्ये॒ष्ट॒का इति॑ हिरण्य - इ॒ष्ट॒काः । उपेति॑ । द॒धा॒ति॒ । ज्योतिः॑ । वै । हिर॑ण्यम् । ज्योतिः॑ । ए॒व । अ॒स्मि॒न्न् । द॒धा॒ति॒ । अथो॒ इति॑ । तेजः॑ । वै । हिर॑ण्यम् । तेजः॑ । ए॒व । आ॒त्मन्न् । ध॒त्ते॒ । यः । वै । अ॒ग्निम् । स॒र्वतो॑मुख॒मिति॑ स॒र्वतः॑ - मु॒ख॒म् । चि॒नु॒ते । सर्वा॑सु । प्र॒जास्विति॑ प्र - जासु॑ । अन्न᳚म् । अ॒त्ति॒ । सर्वाः᳚ । दिशः॑ । अ॒भीति॑ । ज॒य॒ति॒ । गा॒य॒त्रीम् । पु॒रस्ता᳚त् । उपेति॑ । द॒धा॒ति॒ । त्रि॒ष्टुभ᳚म् । द॒क्षि॒ण॒तः । जग॑तीम् । प॒श्चात् । अ॒नु॒ष्टुभ॒मित्य॑नु-स्तुभ᳚म् । उ॒त्त॒र॒त इत्यु॑त्-त॒र॒तः । प॒ङ्क्तिम् । मद्ध्य᳚ । ए॒षः । वै ( ) । अ॒ग्निः । स॒र्वतो॑मुख॒ इति॑ स॒र्वतः॑ - मु॒खः॒ । तम् । यः । ए॒वम् । वि॒द्वान् । चि॒नु॒ते । सर्वा॑सु । प्र॒जास्विति॑ प्र-जासु॑ । अन्न᳚म् । अ॒त्ति॒ । सर्वाः᳚ । दिशः॑ । अ॒भीति॑ । ज॒य॒ति॒ । अथो॒ इति॑ । दि॒शि । ए॒व । दिश᳚म् । प्रेति॑ । व॒य॒ति॒ । तस्मा᳚त् । दि॒शि । दिक् । प्रोतेति॒ प्र - उ॒ता॒ ॥
पदसंख्या: 75