अनुवाकः 12 TS 1.4.12

(A12)

(उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य॒-द्वाविꣳ॑शतिः)

अनुवाकः 12 - Complete Audio

TS 1.4.12 - स्वरानुगामी

0:00 0:00
PS1.1 उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत
PS1.2 उक्था॒युवे॒ यत्त॑ इन्द्र बृ॒हद्वय॒स्तस्मै᳚
PS1.3 त्वा॒ विष्ण॑वे त्वै॒ष ते॒
PS1.4 योनि॒रिन्द्रा॑य त्वोक्था॒युवे᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.12.1 TS 1.4.12.1
उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत उक्था॒युवे॒ यत्त॑ इन्द्र बृ॒हद्वय॒स्तस्मै᳚ त्वा॒ विष्ण॑वे त्वै॒ष ते॒ योनि॒रिन्द्रा॑य त्वोक्था॒युवे᳚ ॥
पदपाठः (Word-by-word)
उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । इन्द्रा॑य । त्वा॒ । बृ॒हद्व॑त॒ इति॑ बृ॒हत् - व॒ते॒ । वय॑स्वते । उ॒क्था॒युव॒ इत्यु॑क्थ - युवे᳚ । यत् । ते॒ । इ॒न्द्र॒ । बृ॒हत् । वयः॑ । तस्मै᳚ । त्वा॒ । विष्ण॑वे । त्वा॒ । ए॒षः । ते॒ । योनिः॑ । इन्द्रा॑य । त्वा॒ । उ॒क्था॒युव॒ इत्यु॑क्थ - युवे᳚ ॥
पदसंख्या: 22
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे चतुर्थप्रपाठके द्वादशोऽनुवाकः)।

कल्पः – “स्थाल्योक्थ्यं गृह्णाति उपयामगृहीतोऽसीन्द्राय त्वा बृहद्वते वयस्वत इति ग्रहणासादनौ” इति।

पाठस्तु — उपयामगृहीत इति। हे सोमोपयामेन स्थाल्या गृहीतोऽसि, इन्द्राय त्वां गृह्णामि। कीदृशाय। बृहद्वते बृहत्सामप्रियाय। तत्सामयोन्यामृचि त्वां वृत्रेष्विन्द्र सत्पतिमिति हि श्रुतम्। वयस्वते वयोऽन्नं सोमरूपं तद्वते तत्प्रियाय। उक्थं शस्रं तदात्मानं इच्छतीत्युक्थायुस्तस्मै ते। इन्द्र यत्ते तव बृहद्वयो महदन्नं सोमरूपं तस्मै पानार्थं त्वां, प्रार्थय इति शेष। हे सोम विष्णवे त्वां गृह्णामि। एष खरप्रदेशस्तव स्थानम्। उक्थशस्त्रप्रियायेन्द्राय त्वां खरे सादयामि।

मन्त्रव्याख्यानायाऽऽदावुक्थ्यग्रहणं विधत्ते — “इन्द्रो वृत्राय वज्रमुदयच्छत्स वृत्रौ वज्रादुद्यतादबिभेत्सोऽब्रवीन्मा मे प्र हारस्ति वा इदं मयि वीर्यं तत्ते प्र दास्यामीति तस्मा उक्थ्यमेव प्रायच्छत्तस्मै द्वितीयमुदयच्छत्सोऽब्रवीन्मा मे प्र हारस्ति वा इतं मयि वीर्यं तत्ते प्र दास्यामीति तस्मा उक्थ्यमेव प्रायच्छत्तस्मै तृतीयमुदयच्छत्तं विष्णुरन्वतिष्ठत जहीति सोऽब्रवीन्मा मे प्र हारस्ति वा इदं मयि वीर्यं तत्ते प्र दास्यामीति तस्मा उक्थ्यमेव प्रायच्छत्तं निर्मायं भूतमहन्यज्ञो हि तस्य मायाऽऽसीद्यदुक्थ्यो गृह्यत इन्द्रियमेव तद्वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते” (सं. का. ६ प्र. ५ अ. १) इति।

मा मे प्रहा मां मा प्रहार्षीः। वीर्यमुक्थ्यरूपं श्रेष्ठं वस्तु, उक्थ्यस्थाल्यां मन्त्रेण गृहीतः सोम इत्यर्थेः। तस्य सवनत्रयापेक्षया त्रिः प्रदानम्। अग्निष्टोमे तृतीयसवन उक्थ्याभावेऽपि संस्थान्तरेषु विद्यते। अथवा प्रातःसवन एवोक्थ्यस्थाल्यामुक्थ्यपात्रे त्रिर्ग्रहीतव्यं, तदपेक्षया त्रिः प्रदानम्। तृतीयपर्याये विष्णुर्जहीत्येवं वदन्निन्द्रमन्वतिष्ठत सहकारी सन्नवस्थितः। उक्थ्यरूपो यज्ञो वृत्रस्य माया। यस्मादुक्थ्यलोभेन मोहित इन्द्रो वृत्रं न जघान, त्रिष्वप्युक्थ्येषु दत्तेषु निर्मायं मोहयितुमसमर्थं वृत्रं हतवांस्तस्मादिन्द्रवद्वैरिगतमिन्द्रियसामर्थ्यं विनाशयितुमुक्थ्यं गृह्णीयात्।

वृत्रेणेन्द्राय दत्तत्वान्मन्त्रेऽपीन्द्रायेत्युक्तिर्युक्तेत्याह — “इन्द्राय त्वा बृहद्वते वयस्वत इत्याहेन्द्राय हि स तं प्रायच्छत्” (सं. का. ६ प्र. ५ अ. १) इति।

विष्णोरपि सहकारित्वेन भागित्वात्तन्मन्त्रोऽपि युक्त इत्याह — “तस्मै त्वा विष्णवे त्वेत्याह यदेव विष्णुरन्वतिष्ठत जहीति तस्माद्विष्णुमन्वाभजति” इति।

स्थाल्यां गृहीत्वा सादितस्य सोमस्य होमकाले पुनर्दारुपात्रे त्रिवारग्रहणं विधत्ते —

“त्रिर्निर्गृह्णाति त्रिर्हि स तं तस्मै प्रायच्छत्” (सं. का. ६ प्र. ५ अ. ११) इति।

स वृत्रस्तमुक्थ्यं तस्मा इन्द्राय त्रिः प्रायच्छत्। तस्मात्स्थालीगतं सोमं त्रेधा निष्कृष्य पर्यायत्रेण गृह्णीयात्।

दारुपात्रे गृहीतस्याऽऽसादनमन्त्रं स्थाल्यभिमर्शनमन्त्रं चोत्पाद्य व्याचष्टे — “एष ये योनिः पुनर्हविरसीत्याह पुनः पुनर्ह्यस्मान्निर्गृह्णाति” (सं. का. ६ प्र.५ अ. १) इति।

हे दारुपात्रे गृहीत सोम तवैष खरप्रदेशः स्थानम्। अनेन मन्त्रेण सादयेत्। हे स्थालीगत सोम त्वं गृहीतशेषोऽपि पुनर्गृह्यमाणत्वाद्धविरेवासि। अस्मात्स्थालीगतात्सोमाद्ग्रहीष्यमाणं पर्यायद्वयमपेक्ष्य पुनः पुनरित्युक्तिः। अत्र सूत्रम् — “उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वा जुष्टं गृह्णामि देवेभ्यो देवायुवमुक्थ्येभ्य उक्थ्यायुवमित्युक्थ्यात्तृतीयं गृहीत्वैष ते योनिर्मित्रावरुणाभ्यां त्वेति सादयित्वा पुनर्हविरसीति स्थालीमभिमृशति, एवं विहितावुत्तरौ पर्यायौ ताभ्यां प्रतिप्रस्थाता चरति” इति।

उक्थ्यहोमचमसहोमान्विधत्ते — “चक्षुर्वा एतद्यज्ञस्य यदुक्थ्यस्तस्मादुथ्य हुत सोमा अन्वायन्ति तस्मादात्मा चक्षुरन्वेति तस्मादेकं यन्तं बहवोऽनुयन्ति तस्मादेको बहूनां भद्रो भवति तस्मादेको बह्वीर्जाया विन्दते यदि कामयेताध्वर्युरात्मानं यज्ञयशसेनार्पयेयमित्यन्तराऽऽहवनीयं च हविर्धानं च तिष्ठन्नव नयेदात्मानमेव यज्ञयशसेनार्पयति यदि कामयेत यजमानं यज्ञयशसेनार्पयेयमित्यन्तरा सदोहविर्धाने तिष्ठन्नव नयेद्यजमानमेव यज्ञ यशसेनार्पयति” (सं. का. ६ प्र. ५ अ. १) इति।

चक्षुःस्थानीय उक्थ्ये हुते सत्यनन्तरमेवेतरस्थानीयाश्चमसा होतव्याः। आत्मा सर्वावयवसंधानरूपः पुरुषः। अवयवेषु मुख्यस्य चक्षुषो दृष्टिः पुरतो मार्गे प्रसरति। ततः संघातरूप आत्माऽनुगच्छति। एकं मुख्यं परिगच्छन्तं बहवो भृत्या अनुगच्छन्ति। एको मुख्यश्चक्षुरिव ज्ञापक आचार्यो बहूनां शिष्याणां मध्ये भद्रः पूज्यो भवति। एको मुख्यः स्वतन्त्रः पुरुषः परतन्त्राः बह्वीर्जाया लभते। एभिर्दृष्टान्तैश्चमसानामुक्थ्यानन्तरं होमो युक्तः।

अत्र सूत्रम् — “ग्रहमध्वर्युरादत्ते चमसांश्चमसाध्वर्यव आश्राव्य प्रत्याश्राविते संप्रेष्यति उक्थशा यज सोमानामिति वषट्कृतानुषट्कृते जुह्वति भक्षान्हरन्ति” इति।

मुख्यचमसे संपातस्यावनयनं विधत्ते — “यदि कामयेत सदस्यान्यज्ञयशसेनार्पयेयमिति सद आलभ्यावनयेत्सदस्यानेव यज्ञयशसेनार्पयति” (सं. का. ६ प्र. ५ अ. १) इति।

यज्ञयशसं यज्ञफलम्। आलभ्य प्रविश्य। अत्र सूत्रम् — “देवेभ्यस्त्वा देवायुवं पृणज्मि यज्ञस्याऽऽयुष इति मुख्ये संपातमवनयति यदि कामयेताध्वर्युरात्मानं यज्ञयशसेनार्पयेयमित्युक्तम्” इति।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तीरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके द्वादशोऽनुवाकः॥१२॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 स्थाल्योक्थ्यं गृह्णाति - उपयामगृहीतोसीति यजुरादिकया 'इन्द्राय त्वा बृहद्वते' इति चतुष्पदयानुष्टुभा । ऋक्त्वादुपरिष्टादुपयामत्वे प्राप्ते अपवादत्वेन पुरस्तादुपयामत्वमाम्नायते ॥ हे सोम उपयामगृहीतोसि, तस्मात्त्वामिन्द्राय वक्ष्यमाणगुणाय गृह्णामीति शेषः । बृह्द्वते बृहता साम्ना पृष्ठाख्येन तद्वए । वयस्वते अन्नवते । उक्थायुवे उक्थं शस्त्रं कामयमानाय । 'क्याच्छन्दसि' इत्युप्रत्ययः, 'न च्छन्दस्यपुत्रस्य' इतीत्वाभावः । 'जसादिषु वा वचनम्' इति 'घेर्ङिति' इति गुणाभावः । हे इन्द्र तव बृहत् प्रभूतं यद्वयः अन्नं सोमलक्षणं गृह्यमाणं तस्मै तदर्थं तत्पानार्थं त्वां प्रार्थयामह इति शेषः । विष्णवे व्यापकाय तस्मै वयसे त्वां प्रार्थयामह इति । यद्वा - हे सोम विष्णवे भगवते च त्वां गृह्णामीत्येव शेषः । अत्र विष्णुर्ग्रहणकाल एव देवता । यागकाले तु मित्रावरुणाविन्द्राग्नी च । विष्णुर्हि वृत्रवधे साहाय्यकमिन्द्रस्याचरत् । 'यदेव विष्णुरन्वतिष्ठत जहीति तस्माद्विष्णुमन्वाभजति' इति ब्राह्मणम् । इन्द्रस्य सखा विष्णुः तस्मै तदर्थं तत्प्रीत्यर्थं इन्द्राय त्वां गृह्णामीति ॥
2 'एष ते योनिरिन्द्राय त्वोक्थायुवे' इति सादयति । 'इन्द्रो वृत्राय वज्रमुदयच्छत्' इत्यादि ब्राह्मणम् । 'चक्षुर्वा एतद्यज्ञस्य यदुक्थ्यः' इत्यादि च ॥
इति चतुर्थे द्वादशः ॥