अनुवाकः 25 TS 1.4.25

(A25)

(हिर॑ण्यपाणिं॒-चतु॑र्दश)

अनुवाकः 25 - Complete Audio

TS 1.4.25 - स्वरानुगामी

0:00 0:00
PS1.1 हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये
PS1.2 स चेत्ता॑ दे॒वता॑ प॒दं
PS1.3 उ॒प॒या॒मगृ॑हीतो-ऽसि दे॒वाय॑ त्वा सवि॒त्रे

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.25.1 TS 1.4.25.1
हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दं ॥ उ॒प॒या॒मगृ॑हीतो-ऽसि दे॒वाय॑ त्वा सवि॒त्रे ॥
पदपाठः (Word-by-word)
हिर॑ण्यपाणि॒मिति॒ हिर॑ण्य - पा॒णि॒म् । ऊ॒तये᳚ । स॒वि॒तार᳚म् । उपेति॑ । ह्व॒ये॒ ॥ सः । चेत्ता᳚ । दे॒वता᳚ । प॒दम् ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । दे॒वाय॑ । त्वा॒ । स॒वि॒त्रे ॥
पदसंख्या: 14
सायणभाष्यम् (Sayana Commentary)

तृतीयो मन्त्रो विकल्पित एवमाम्नायते — हिरण्यपाणिमिति। अस्मभ्यं दातुं हिरण्यं पाणौ यस्य स हिरण्यपाणिः। तादृशं सवितारमुपगम्य ह्वय आह्वयामि। किमर्थम्। ऊतये रक्षणाय। स सविता दवतारूपः पदमस्मद्योग्यं स्थानं चेत्ता ज्ञाता।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पुनश्च सावित्रं गृह्णाति - हिरण्यपाणिमिति त्रिपदया गायत्र्या ॥ पूर्ववद्विकल्प एव । हिरण्यस्य विकारः कटककेयूराङ्गुलीयादीनि आभरणानि पाण्योः यस्य स हिरण्यपाणिः । समुदायविकारषष्ठ्या बहुव्रीहिर्वाचोत्तरपदलोपश्च । यद्वा - रसहरणशीलाः पाणयो रश्मयो यस्य । हितरमणीयपाणिर्वा । तं हिरण्यपाणिं सवितारमुपह्वये मनसा उपेत्याह्वयामि ऊतये अवनाय तर्पणाय वा । 'ऊतियूति' इति क्तिन उदात्तत्वम् । कः पुनस्तस्य विशेष इत्याह - स हि देवस्सविता अस्माकं पदमास्पदं स्थानमित्यर्थः । कीदृशः? चेत्ता ज्ञाता, रक्षाविधानोपायज्ञः । साधुकारिणि त्रण्, व्यत्ययेनेडभावः । देवता चास्माकम् ॥
2 उपयामगृहीतोसीत्यादि पूर्ववत् ॥
इति चतुर्थे पञ्चविंशः ॥