पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे चतुर्थप्रपाठके षष्टसप्तमानुवाकौ)।
कल्पः – ‘आश्विनं गृह्णाति या वां कशेति ग्रहणसादनौ द्रोणकलशादधाराग्रहाः परिप्लवया गृह्यन्ते वचनादन्यतः’ इति।
पाठस्तु – या वां कशेति। हेऽश्विनाऽश्विनौ देवौ वां युवयोर्या कशा या वाक्तया यज्ञं मिमिक्षतं सेक्तुमिच्छतं निष्पादयतमित्यर्थः। कशासमानया जिह्वयोत्पन्नत्वाद्वागेवात्र कशा। कीदृशी। मधुमती परुषशब्दरहिता। सूनृतावती प्रियवचनोपेता। मधुना पूर्णा(र्णो) दृतिर्माध्वी। तादृशीभ्यामश्विमूर्तिभ्यां त्वां सादयामि।
आश्विनग्रहायान्यो विकल्पितो मन्त्र एवमाम्नायते – प्रातर्युजाविति। हेऽश्विनौ युवां प्रातर्युजौ प्रातःकाल एवानेन यजमानेन युक्तौ सन्तावितरैर्यजमानैर्विमुच्येथाम्। इह कर्मण्यागच्छतम्। किमर्थम्। अस्य सोमस्य पीयते पानाय। स्पष्टमन्यत्।
एतान्मन्त्रानपेक्ष्याऽऽश्विनग्रहणं विधत्ते – ‘यज्ञस्य शिरोऽच्छिद्यत ते देवा अश्विनावब्रुवन्भिषजौ वै स्थ इदं यज्ञस्य शिरः प्रति धत्तमिति तावब्रूतां वरं वृणावहै ग्रह एव नावत्रापि गृह्यतामिति ताभ्यामेतमाश्विनमगृह्णन्ततो वै तौ यज्ञस्य शिरः प्रत्यधत्तां यदाश्विनो गृह्यते यज्ञस्य निष्कृत्यै’ (सं. का. ६ प्र. ४ अ. ९) इति।
यज्ञपुरुषः पुरा कदाचिद्देवानां वस्तु गृहीत्वा देवैः सह योद्धुं सज्यं धनुर्वाम– हस्ते धृत्वा धनुष एकां कोटिं भूमौ द्वितीयां कोटिं गले प्रतिष्कभ्यातिष्ठत्। तदानीमुपदीकानामभिर्जन्तुभिर्भूमिष्ठे ज्याभागे भक्षिते सति त्रुटितज्याकस्य धनुष ऊर्ध्वकोटिः स्वयमुद्गच्छन्ती यज्ञस्य शिरोऽपि च्छित्त्वा स्वात्मना सहोर्ध्वमुदगमयत्। सोऽयं वृत्तान्तः प्रवर्ग्यब्राह्मणे समाम्नातः – ‘तस्य धनुर्विप्रवमाण शिर उदवर्तयत्’ इति। तदिदमत्र संगृह्यते – यज्ञस्य शिरोऽच्छिद्यतेति। अत्राप्यग्निष्टोमेऽप्यावयोर्ग्रह एव ग्रहीतव्यः। यद्यप्याश्विनं द्विकपालमाश्विनं धूम्रललाममालभेतेतीष्टिपश्वोरस्त्यावयोर्हविस्तथाऽप्यग्निष्टोमे पूर्वं नास्ति। तत्रापि लेपमार्जनादिना नाऽऽवयोः परितोषः किंतु ग्रहेणैवेत्यभिप्रायः। तस्मादाश्विनग्रहणं यज्ञस्य निष्कृत्यै भवति।
आश्विनग्रहणस्य स्तोत्रादूर्ध्वकालं विधत्ते– ‘तौ देवा अब्रुवन्नपूतौ वा इमौ मनुष्यचरौ भिषजाविति तस्माद्ब्राह्मणेन भेषजं न कार्यमपूतो ह्येषोऽमेध्यो यो भिषक्तौ बहिष्पवमानेन पवयित्वा ताभ्यामेतमाश्विनमगृह्णन्तस्माद्बहिष्पवमाने स्तुत आश्विनो गृह्यते’ (सं. का. ६ प्र. ४ अ. ९) इति।
छन्दोगानामुत्तरग्रन्थोपक्रमे सूक्तत्रयमुपास्मै गायता नर इत्यादिकमाम्नातं तच्च गायत्रसाम्ना गातव्यम्। तदिदं बहिष्पवमानस्तोत्रम्। यावश्विनौ चिकित्सारूपेण मनुष्यचारित्वेन युक्तत्वादपूतौ तयोः स्तोत्रेण शुद्धत्वात्तत्स्तोत्रादूर्ध्वं तदीयग्रहस्य कालः।
विधत्ते– “तस्मादेवं विदुषा बहिष्पवमान उपसद्यः पवित्रं वै बहिष्पवमानं आत्मानमेव पवयते” (सं. का. ६ प्र. ४ अ. ९) इति।
एवं विदुषा स्तोत्रस्य शुद्धिहेतुत्वं जानतोपसद्योऽनुष्ठेयः।
तत्प्रकारः सूत्रे दर्शितः – “उदाञ्चः प्रह्वा बहिष्पवमानाय पञ्चर्त्विजः समन्वारब्धा सर्पन्त्यध्वर्युं प्रस्तोताऽन्वारभते प्रस्तोतारं प्रतिहर्ता प्रतिहर्तारमुद्गातोद्गातारं ब्रह्मा ब्रह्माणं यजमानः” इत्यादिः।
अत्र प्रसङ्गाल्लौकिकविकित्सायामदृष्टोपकारजनकं किंचिदङ्गं विधत्ते – ‘तयोस्त्रेधा भैषज्यं वि न्यदधुरग्नौ तृतीयमप्सु तृतीयं ब्राह्मणे तृतीयं तस्मादुदपात्रमुपनिधाय ब्राह्मणं दक्षिणतो निषाद्य भेषजं कुर्याद्यावदेव भेषजं तेन करोति समर्धुकमस्य कृतं भवति’ (सं. का. ६ प्र. ४ अ. ९) इति।
अग्न्युदकब्राह्मणेष्वदृष्टद्वारेणोपकारकं यद्भैषज्यं त्रेधा स्थितं तद्देवास्तयोरश्विनोः स्थापितवन्तः। तस्मादश्विनोरनुग्रहाय लौकिको भिषगुदकुम्भं समीपे निधाय ब्राह्यणमुपवेश्याग्निं चोपसमिध्य भैषज्यं कुर्यात्। तथा सति यावदङ्गजातमावश्यकं तेन सर्वेण सह कृतत्वात्समृद्धं भैषज्यं भवति।
अत्र द्विदेवत्यानामैन्द्रवायवमैत्रावरुणाश्विनग्रहाणां तत्तत्प्रतिनिग्राह्यपात्रैः सह होमविधिमर्थवादेनोन्नेतुकामः प्रश्नमुत्थापयति – ‘ब्रह्मवादिनो वदन्ति कस्मात्सत्यादेकपात्रा द्विदेवत्या गृह्यन्ते द्विपात्रा हूयन्त इति’ (सं. का. ६ प्र. ४ अ. ९) इति।
ग्रहणकाले सोमानामेकैकपात्रत्वमुक्तरीत्या द्रष्टव्यम्। होमकाले द्विपात्रत्वं सूत्रे दर्शितम् – ‘हविर्धानं गच्छन्संप्रेष्यति वायव इन्द्रवायुभ्यामनुब्रूहीति, उपयामगृहीतोऽसि वाक्षसदसीत्यादित्यपात्रेण प्रतिप्रस्थाता द्रोणकलशादैन्द्रवायवस्य प्रतिनिग्राह्यं गृहीत्वा सादयत्यैन्द्रवायवमादायाध्वर्युर्द्रोणकलशाच्च परिप्लवया राजानमुभौ निष्क्रम्य दक्षिणतोऽवस्थाय दक्षिणं परिधिसंधिमन्ववहृत्याध्वरो यज्ञोऽयमस्तु देवा इति परिप्लवयाऽऽघारमाघारयत्याश्राव्य प्रत्याश्राविते संप्रेष्यति वायव इन्द्रवायुभ्यां प्रेष्येति वषट्कृते जुहुत एवमुत्तराभ्यां ग्रहाभ्यां प्रचरतः’ इति।
प्रश्नस्योत्तरं दर्शयति– ‘यदेकपात्रा गृह्यन्ते तस्मादेकोऽन्तरतः प्राणो द्विपात्रा हूयन्ते तस्माद्द्वौद्वौ बहिष्ठात्प्राणाः’ (सं. का. ६ प्र. ४ अ. ९) इति।
चक्षुरादिप्राणानामन्तरेकात्मकत्वाद्बहिर्द्वारभेदेन द्वित्वात्तत्साम्यायैकपात्रत्वं द्विपात्रत्वं च कुर्यादित्यर्थः। अत्र सवनीयपुरोडाशानां स्विष्टकृति हुते सति द्विदेवत्यग्रहप्रचारो विहितः। पुरोडाशसंबन्धिन इडोपाह्वानस्यापि स्विष्टकृदनन्तरभावी चोदकप्राप्तः कालस्तं बाधित्वा द्विदेवत्यशेषभक्षणादूर्ध्वमुपाह्वानस्योत्कर्षं विधत्ते–
‘प्राणा वा एते यद्द्विदेवत्याः पशव इडा यदिडां पूर्वां द्विदेवत्येभ्य उपह्वयेत पशुभिः प्राणानन्तर्दधीत प्रमायुकः स्याद्द्विदेवत्यान्भक्षयित्वेडामुप ह्वयते प्राणानेवाऽऽत्मन्धित्वा पशूनुप ह्वयते’ (सं. का. ६ प्र. ४ अ. ९) इति।
द्विदेवत्यशेषभक्षणेभ्यः प्रागिडायाः पशुरूपाया उपाह्वाने प्राणानां व्यवहितत्वाद्यजमानो म्रियेत, पश्चादाह्वाने तु नायं दोषोऽस्ति।
भक्षणे विशेषं विधत्ते– ‘वाग्वा ऐन्द्रवायवश्चक्षुर्मैत्रवरुणः श्रोत्रमाश्विनः पुरस्तादैन्द्रवायवं भक्षयति तस्मात्पुरस्ताद्वाचा वदति पुरस्तान्मैत्रावरुणं तस्मात्पुरस्ताच्चक्षुषा पश्यति सर्वतः परिहारमाश्विनं तस्मात्सर्वतः श्रोत्रेण शृत्रेण शृणोति’ (सं. का. ६ प्र. ४ अ. ९) इति।
पुरस्तादग्रतो यथागृहीतमेवेत्यर्थः। सर्वतः परिहारं शिरः प्रदक्षिणीकृत्येत्यर्थः।
पात्राणां सादने पुरोडाशशकलादिसहितत्वं विधत्ते– ‘प्राणा वा एते यद्द्विदेवत्या अरिक्तानि पात्राणि सादयति तस्मादरिक्ता अन्तरतः प्राणा यतः खलु वै यज्ञस्य विततस्य न क्रियते तदनु यज्ञ रक्षास्यव चरन्ति यदरिक्तानि पात्राणि सादयति क्रियमाणमेव तद्यज्ञस्य शये रक्षसामनन्वयचाराय’ (सं. का. ६ प्र. ४ अ. ९) इति।
शकलादियोगः सूत्रे दर्शितः – ‘पुरोडाशशकलमैन्द्रवायवस्य पात्रेऽवदधाति पयस्यां मैत्रावरुणस्य धाना आश्विनस्य’ इति। अन्तरतः प्राणानामरिक्तत्वं नामाऽऽर्द्रस्थानोपेतत्वम्। पात्राणामरिक्तत्वेन यज्ञे विस्मृतमप्यङ्गं क्रियमाणमेव संतिष्ठत इति रक्षसां संचारद्वारं नास्ति।
सादनस्थानं विधत्ते– ‘दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्या सादयति वाच्येव वाचं दधाति’ (सं. का. ६ प्र. ४ अ. ९) इति।
उत्तरस्य चक्रस्य मार्गे सादयेत्। वर्त्मरूपायां वाच्येव ग्रहरूपां वाचं स्थापयति।
सादितानां ग्रहाणामवस्थानावधिं विधत्ते– ‘आ तृतीयसवनात्परि शेरे यज्ञस्य संतत्यै’ (सं. का. ६ प्र. ४ अ. ९) इति। शेरे वसन्तीत्यर्थः।
पञ्चमाध्यायस्य चतुर्थपादे चिन्तितम् —
“आश्विनो दशमः पाको यवाग्वा ऐच्छिकः क्रमः।
नियतो वाऽग्रिमः पाठश्रुत्यर्थानां समत्वतः।
पाठात्क्रमः कल्पनीयः प्रत्यक्षस्तु श्रुतेः क्रमः।
कॢप्तिर्न शक्तिमुल्लङ्घ्य श्रुत्यर्थौ प्रबलौ ततः”
ज्योतिष्टोम ऐन्द्रवायवादिग्रहेष्वाश्विनग्रहस्तृतीयस्थाने पठितः। तस्य च दशमस्थानत्वं वाचकेनैव शब्देनाऽऽम्नायते — ‘आश्विनो दशमो गृह्यते’ इति।
तत्र क्रमबोधकौ श्रुतिपाठौ समबलौ। तथाऽग्निहोत्रहोमादूर्ध्वं यवागूपाकः पठितः। स चार्थवशात्पूर्वं प्राप्तः। तत्रार्थपाठौ समबलौ। तस्मादुभयत्रैच्छिकः क्रम इति प्राप्ते ब्रूमः – पाठो हि न क्रमस्याभिधायकः, किंत्वन्यथाऽनुपपत्त्या क्रमं कल्पयति। दशम इत्येषा श्रुतिस्तु साक्षादेव क्रममभिधत्ते। ततः माठादपि श्रुतिः प्रबला। अतः पाठः क्रमं कल्पयन्वस्तुसामर्थ्यमनुसृत्यैव कल्पयति। असामर्थ्यं च यवाग्वाः पूर्वमग्निहोत्रं निष्पत्तुं, द्रव्यमन्तरेण होमासंभवात्। तस्मात्पाठेन वस्तुसामर्थ्यलक्षणोऽर्थ उपजीव्य इत्यर्थस्य पाठात्प्रबल्यम्। श्रुत्यर्थौ पाठं बाधित्वा क्रमं नियच्छतः।
( अथ च्छन्दः–)
या वां कशा प्रातर्युजावित्येते गायत्र्यौ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
इत्यनुद्रुत्योपयामगृहीतोस्यश्विभ्यां त्वेति गृह्णाति ॥