पञ्चशत् 1 #
प्र॒या॒साय॒ स्वाहा॑ ऽऽया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहा॑ संॅया॒साय॒ स्वाहो᳚द्या॒साय॒ स्वाहा॑ऽवया॒साय॒ स्वाहा॑ शु॒चे स्वाहा॒ शोका॑य॒ स्वाहा॑ तप्य॒त्वै स्वाहा॒ तप॑ते॒ स्वाहा᳚ ब्रह्मह॒त्यायै॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
प्र॒या॒सायेति॑ प्र - या॒साय॑ । स्वाहा᳚ । आ॒या॒सायेत्या᳚ - या॒साय॑ । स्वाहा᳚ । वि॒या॒सायेति॑ वि - या॒साय॑ । स्वाहा᳚ । स॒म्ॅया॒सायेति॑ सं - या॒साय॑ । स्वाहा᳚ । उ॒द्या॒सायेत्यु॑त् - या॒साय॑ । स्वाहा᳚ । अ॒व॒या॒सायेत्य॑व - या॒साय॑ । स्वाहा᳚ । शु॒चे । स्वाहा᳚ । शोका॑य । स्वाहा᳚ । त॒प्य॒त्वै । स्वाहा᳚ । तप॑ते । स्वाहा᳚ । ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अथ स्रुवाहुतिमन्त्रा उच्यन्ते । तत्र द्वादश मन्त्रानाह -
प्रेतस्य यमलोके बाधका देवताविशेषाः प्रयासादिशब्दवाच्याः, तन्निर्वचनानि तु यतायोगमुन्नेयानि । तस्यै तस्यै देवतायै स्रुवेण गृहीतमिदमाज्यं स्वाहुतमस्तु ॥