पञ्चशत् 1 #
ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन् व्यु॒च्छन्ती॑मु॒षसं॒ मर्त्या॑सः । अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑ऽभू॒दो ते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्यान्॑ ॥
पदपाठः (Word-by-word)
ई॒युः । ते । ये । पूर्व॑तरा॒मिति॒ पूर्व॑ - त॒रा॒म् । अप॑श्यन्न् । व्यु॒च्छन्ती॒मिति॑ वि - उ॒च्छन्ती᳚म् । उ॒षस᳚म् । मर्त्या॑सः ॥ अ॒स्माभिः॑ । उ॒ । नु । प्र॒ति॒चक्ष्येति॑ प्रति - चक्ष्या᳚ । अ॒भू॒त् । ओ इति॑ । ते । य॒न्ति॒ । ये । अ॒प॒रीषु॑ । पश्यान्॑ ॥
सायणभाष्यम् (Sayana Commentary)
अथावगाहने विनियुक्तामृचमाह -
ये मर्त्यासो मनुष्या व्युच्छन्तीं प्रभातं कुर्वतीमुषसमुषःकालदेवतां पूर्वतरामितरेभ्योऽत्यन्तं पूर्वामपश्यन्पश्यन्ति, ते मनुष्या ईयुस्तां देवतां प्राप्नुवन्ति । (सा)अस्माभिरू नु अस्माभिरपि नु क्षिप्रं प्रतिचक्ष्याऽभूत्प्रत्यक्षं दर्शनीयाऽभूत् । येऽन्येऽप्यपरीष्वपररात्रिषु रात्रीणामवसानेषु पश्यान्पश्यन्ति ते ओ यन्ति तेऽपि तां देवतां सर्वथा प्राप्नुवन्ति ॥