अनुवाकः 21 TS 1.4.21

(A21)

(म॒हान् नृ॒वथ् - षड्विꣳ॑शतिः)

अनुवाकः 21 - Complete Audio

TS 1.4.21 - स्वरानुगामी

0:00 0:00
PS1.1 म॒हाꣳ इन्द्रो॑ नृ॒वदा च॑र्.षणि॒प्रा
PS1.2 उ॒त द्वि॒बर्.हा॑ अमि॒नः सहो॑भिः
PS1.3 अ॒स्म॒द्रिय॑ग्वावृधे वी॒र्या॑यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत्
PS1.4 उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒
PS1.5 योनि॑र् महे॒न्द्राय॑ त्वा

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.21.1 TS 1.4.21.1
म॒हाꣳ इन्द्रो॑ नृ॒वदा च॑र्.षणि॒प्रा उ॒त द्वि॒बर्.हा॑ अमि॒नः सहो॑भिः । अ॒स्म॒द्रिय॑ग्वावृधे वी॒र्या॑यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥ उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र् महे॒न्द्राय॑ त्वा ॥
पदपाठः (Word-by-word)
म॒हान् । इन्द्रः॑ । नृ॒वदिति॑ नृ - वत् । एति॑ । च॒र्॒.ष॒णि॒प्रा इति॑ चर्.षणि - प्राः । उ॒त । द्वि॒बर्.हा॒ इति॑ द्वि - बर्.हाः᳚ । अ॒मि॒नः । सहो॑भि॒रिति॒ सहः॑ - भिः॒ ॥ अ॒स्म॒द्रिय॒गित्य॑स्म - द्रिय॑क् । वा॒वृ॒धे॒ । वी॒र्या॑य । उ॒रुः । पृ॒थुः । सुकृ॑त॒ इति॒ सु - कृ॒तः॒ । क॒र्तृभि॒रिति॑ क॒र्तृ - भिः॒ । भू॒त् ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । म॒हे॒न्द्रायेति॑ महा - इ॒न्द्राय॑ । त्वा॒ । ए॒षः । ते॒ । योनिः॑ । म॒हे॒न्द्रायेति॑ महा - इ॒न्द्राय॑ । त्वा॒ ॥
पदसंख्या: 26
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 बृहत्पृष्ठपक्षे माहेन्द्रं गृह्णाति - महाꣳइन्द्रो नृवदिति चतुष्पदया त्रिष्टुभा ॥ महानयमिन्द्रः यश्चर्षणिप्राः, चर्षणयो मनुष्यास्तेषां पूरयिता कामैः । प्रा पूरणे, 'आतो मनिन्क्वनिब्वनिपश्च' इति विच्प्रत्ययः । नृवत् मनुष्यवत्, यथा मनुष्या आराधयितॄन् कामैः पूरयन्ति तद्वत् । यद्वा - चर्षणीनां चर्षणवतामाचारवतां कामः पूरयिता । समन्तादित्यर्थे आकारः, सर्वत्र पूरयिता, तस्मान्महान् । यद्वा - नृवत् एकस्मिन्निव नरे समन्तात् सर्वेष्वपि लोकेषु चरणशीलानां पूरयिता, ततोयं महानिति । चरेरनिप्रत्ययो बहुलवचनात्सुडागमः । यद्वा - 'कृषेरादेश्च चः' इति कृषेरेतद्रूपम् । आङापि कृष्यर्थो विशेष्यते । उदात्तश्रुतेश्चायमसमस्त एव कृष्यर्थं विशिनष्टि । हविःप्रदानादिना आकर्षवतां वशीकुर्वतां कामैः पूरयितेति । उत अपिच द्विबर्हाः द्वयोर्लोकयोर्बृंहितः प्रवृद्धस्तेजसास्मिन्नमुष्मिंश्च । ब्रहेरनिदितोसुन्प्रत्ययः, 'परादिश्छन्दसि बहुलम्' । पुनश्च विशेष्यते - स होभिर्बलैः अमिनः अपरिच्छेदः । मानं मिनम् । मातेर्निष्ठा, छान्दसं निष्ठानत्वम् । तदस्य नास्तीत्यमिनः, न ह्यस्यैतादृग्बलमस्तीति निश्चेतुं शक्यते । यद्वा - सहोभिरमिनः सङ्गतः । अम गत्यादिषु, 'बहुलमन्यत्रापि' इतीनच्प्रत्ययः । इर्दृश इन्द्रो वीर्याय वीर्यार्थम् । यद्वा - कर्म वृत्रवधादि तदर्थम् । अस्मद्र्यक् वावृधे वर्धताम् । 'छन्दसि लुङ्लङ्लिटः' इति लिट्, तुजादित्वाद्दीर्घः । अस्मास्व ञ्चतीत्यस्मद्र्यक् । 'विष्वग्देवयोश्च' इत्यद्र्यादेशः, क्रियाविशेषणत्वान्नपुंसकत्वम् । अस्माभिर्यजमानैर्दत्तानि हवींषि गृहीत्वा वर्धतामिति यावत् । किञ्च - कर्तृभिः परिचरद्भिः अस्माभिर्यजमानैरिन्द्रः उरुर्विस्तीर्णो बलेन, पृथुः प्रथितस्सर्वत्र यशसा, सुकृतः सुष्ठुकृतः वशीकृतश्च, भूत् भवतु । भवतेर्लुङि पूर्ववच्छपो लुक्, 'भूसुवोस्तिङि' इति गुणाभावः । यद्वा - कर्तृभिरस्माभिः सुकृतस्सम्यक्कृतोयमुरुः पृथुश्च भवतु । 'सुः पूजायाम्' इति कर्मप्रवचनीयत्वम् । 'स्वती पूजायाम्' इति प्रादिसमासः, तेन गतित्वाभावात् 'सूपमानात्कः' इत्युत्तरपदान्तोदात्तत्वाभावे अव्ययपूर्वपदप्रकृतिस्वरत्वमेव भवति ॥

ग्रहण2सादने पूर्ववदेव ॥

इति चतुर्थे एकविंशः ॥