पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमाष्टके चतुर्थप्रपाठके तृतीयोऽनुवाकः)।
द्वितीयेऽनुवाक उपांशुग्रहोऽभिहितः। अथ तृतीयमारभ्य षट्त्रिंशान्तेष्वनुवा-केष्वन्तर्यामादिकाः षोडश्यन्ता ग्रहा अभिधीयन्ते। तत्र पौर्वापर्ये पाठ एव नियामकः।
उपयामगृहीत इति। कल्पः – “उदित आदित्येऽन्तर्यामं गृह्णात्यतिपवमानस्य राज्ञ उपयामगृहीतोऽस्यन्तर्यच्छ मघवन्पाहि सोममुरुष्य रायः समिषो यजस्वान्तस्ते दधामि द्यावापृथिवी अन्तरुर्वन्तरिक्ष सजोषा देवैरवरैः परैश्चान्तर्यामे मघवन्मादयस्वेति” (सं. का. ६ प्र. ४ अ. ५) इति।
अतिपवमानस्य दशापवित्रेणात्यन्तशुद्धस्य। हे सोमरस त्वमुपयामगृहीतोऽसि। उपयामः पृथिवी। “इयं वा उपयामः” इति श्रुतेः। पृथिव्यामुत्पन्नं दारुमयमन्तर्यामसंज्ञकं पात्रमन्तर्यामशब्देनोच्यते। हे मघवन्नन्तर्यच्छ, इदं पात्रमस्माकं भ्रातृव्येभ्योऽन्तर्धानं यथा भवति तथा नियमय। ततः सोमं पालय। रायो धनानि उरुष्य रक्ष। समिषः समीचीनान्यन्नानि यजस्व देहि। द्यावापृथिव्यौ तवानुग्रहादन्तर्दधामि व्यवधायिके करोमि। विस्तीर्णमन्तरिक्षमप्यन्तर्दधामि। हे मघवन्नवरैः परैश्च सर्वैर्देवैः सजोषाः सह (प्रीयमाणः सेवमानो वा) अस्मिन्नन्तर्यामग्रहे मादयस्व। त्वं हृष्टः सन्नन्यानपि हर्षय।
अन्तर्यामपात्रे सोमरसग्रहणं विधत्ते – “देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा उपाशौ यज्ञ सस्था-प्यमपश्यन्तमुपाशौ समस्थापयन्तेऽसुरा वज्रमुद्यत्य देवानभ्यायन्त ते देवा बिभ्यत इन्द्रमुपाधावन्तानिन्द्रोऽन्तर्यामेणान्तरधत्त तदन्तर्यामस्यान्तर्यामत्वं यदन्तर्यामो गृह्यते भ्रातृव्यानेव तद्यजमानोऽन्तर्धत्ते” (सं. का. ६ प्र. ४ अ. ६) इति।
देववद्यज्ञमनुतिष्ठतामसुराणां व्यामोहार्थमुपांशुग्रहे यज्ञं समापनीयं मत्वा रहसि देवास्तं तथा चक्रुः। तं प्रकारमज्ञात्वा क्रुद्धानसुरानिन्द्रोऽन्तर्यामग्रहेणान्तर्हितानकरोत्। ततो भ्रातृव्यान्तर्धानायान्तर्यामो ग्रहीतव्यः।
मन्त्रभागे द्यावापृथिव्युक्तेः प्रयोजनमाह – “अन्तस्ते दधामि द्यावापृथिवी अन्तरुर्वन्तरिक्षमित्याहैभिरेव लोकैर्यजमानो भ्रातृव्यानन्तर्धत्ते” (सं. का. ६ प्र. ४ अ. ६) इति।
सजोषा इत्यादेः प्रयोजनमाह – “ते देवा अमन्यन्तेन्द्रो वा इदमभूद्यद्वय स्म इति तेऽब्रुवन्मघवन्ननु न आ भजेति सजोषा देवैरवरैः परैश्चेत्यब्रवीद्ये चैव देवाः परे ये चावरे तानुभयानन्वाभजत्सजोषा देवैरवरैः परैश्चेत्याह ये चैव देवाः परे ये चावरे तानुभयानन्वाभजति” (सं. का. ६ प्र. ४ अ. ६) इति।
यदैश्वर्यं प्राप्तुं वयमिच्छावन्तः स्म इदं सर्वमिन्द्र एवाभूत्प्राप्तवानिति मत्वा ते देवा अब्रुवन्। हे मघवंस्त्वामन्वस्मानपि भागिनः कुर्विति। तत इन्द्रः सजोषा इत्यादि वाक्येनानुजज्ञौ। तयाऽनुज्ञया ये चोत्कृष्टा देवा ये च निकृष्टास्तान्सर्वान्भागिनोऽकरोत्। अतोऽत्रापि सजोषा इत्याद्युक्त्या सर्वान्भागिनः करोति।
मादयस्वेत्यत्र यथा भागलाभेन देवानां हर्षस्तथा यज्ञविघ्नाभावेन यजमानस्यापि हर्षं द्योतयति – “अन्तर्यामे मघवन्मादयस्वेत्याह यज्ञादेव यजमानं नान्तरेति” (सं. का. ६ प्र. ४ अ. ६) इति।
मन्त्रोपक्रमगतस्य गृहीतशब्दस्य प्रयोजनमाह – “उपयामगृहीतोऽसीत्याहापानस्य धृत्यै” (सं. का. ६ प्र. ४ अ. ६) इति।
अपानदेवताया अन्तर्यामाभिमानितया तस्मिन्गृहीते प्राणिनामपानो धृतो भवति।
नात्रोपांशोरिवाञ्जलिना ग्रहणं किंतु दशापवित्रनाभिस्रुतया धारयेत्यभिप्रेत्याऽऽह –
“यदुभावपवित्रौ गृह्येयातां प्राणमपानोऽनु न्यृच्छेत्प्रमायुकः स्यात्पवित्रवानन्तर्यामो गृह्यते प्राणापानयोर्विधृत्यै” (सं. का. ६ प्र. ४ अ. ६) इति।
प्राणवृत्तिः स्वभावतो बहिर्गच्छत्यतः प्राणरूपस्योपांशोः पवित्रेण नियमनं नापेक्षितम्। यद्यन्तर्यामोऽपि तद्वदपवित्रः स्यात्तर्ह्यनियमितत्वात्तद्रूपोऽपानोऽपि निर्गच्छन्तं प्राणमनु निर्गच्छेत्। ततः प्राणापानयोरभावान्म्रियेत। पवित्रेण नियमिते त्वपानेऽग्रे तदविनाभूतः प्राणो निर्गच्छन्नपि नात्यन्तं देहं परित्यजेत्। तस्मादुभयोर्धारणाय दशापवित्रेणान्तर्यामं गृह्णीयात्। तत्प्रकारः सूत्रेऽभिहितः – “अदाभ्यांशुमु(भ्यो)पांशुपा(स)वनौ चापिसृज्य सर्वेऽध्वर्यवो दिग्भ्यो महाभिषवमभिषुण्वन्ति अभिषुतमध्वर्युरञ्जलिना संसिञ्चति तमुन्नेताऽन्तरेषेणो(चो)द्धृत्योत्तरत आधवनीयेऽवनयति उद्गातारो द्रोणकलशं प्रतिष्ठाप्य तस्मिन्नुदीचीनं दशापवित्रं वितन्वन्ति पवित्रस्य यजमानो नाभिं कृत्वा तस्मिन्होतृचमसेन धारां स्रावयत्युदञ्चनेनोन्नेताऽऽधवनीयाद्धोतृचमस आनयति संतता धारा स्रावयितव्या धाराया अन्तर्यामं गृह्णाति सर्वांश्चातो ग्रहानाध्रुवात्” इति। ग्रहणादूर्ध्वमन्तर्यामस्योपांशुवत्स्वांकृतादिमन्त्प्रयोगः कर्तव्यः।
स्वांकृत इति। एते मन्त्रा उपेक्षिताः।
उपांश्वन्तर्यामपात्रयोरासादने मध्यगतेनोपांशुसवनेन सह स्पर्शं विधत्ते – “प्राणापानौ वा एतौ यदुपाश्वन्तर्यामौ व्यान उपाशुसवनो यं कामयेत प्रमायुकः स्यादित्यासस्पृष्टौ तस्य सादयेद्व्यानेनैवास्य प्राणापानौ वि च्छिनत्ति ताजक्प्र मीयते यं कामयेत सर्वमायुरियादिति सस्पृष्टौ तस्य सादयेद्व्यानेनैवास्य प्राणापानौ सं तनोति सर्वमायुरेति” (सं. का. ६ प्र. ४ अ. ६) इति।
अत्र सूत्रम् – “सर्वमाग्रयणस्थाल्यां संपातमानीयैष ते योनिरपानाय त्वेति रिक्तं पात्रमायतने सादयति व्यानाय त्वेति ते अन्तरेण ग्रावाणमुपांशुसवनं दक्षिणामुखं संस्पृष्टं पात्राभ्याम्” इति।
अत्र विनियोगसंग्राहः –– “उपान्तर्यामकस्तत्र स्वांकृतादि तु पूर्ववत्” ॥१॥ इति।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
व्याख्याता मन्त्राः ॥