अनुवाकः 3 TS 1.4.3

(A3)

योनि॑रपा॒नाय॑ त्वा ॥ 4 (दे॒वेभ्यः॑-स॒प्त च॑)

अनुवाकः 3 - Complete Audio

TS 1.4.3 - स्वरानुगामी

0:00 0:00
PS1.1 उ॒प॒या॒मगृ॑हीतो ऽस्य॒न्तर्य॑च्छ मघवन् पा॒हि
PS1.2 सोम॑मुरु॒ष्य रायः॒ समिषो॑ यजस्वा॒ऽन्तस्ते॑
PS1.3 दधामि॒ द्यावा॑पृथि॒वी अ॒न्तरु॒र्व॑न्तरि॑क्षꣳ स॒जोषा॑
PS1.4 दे॒वैरव॑रैः॒ परै᳚श्चाऽन्तर्या॒मे म॑घवन् मादयस्व॒
PS1.5 स्वांकृ॑तोऽसि॒ मधु॑मतीर्न॒ इष॑स्कृधि॒ विश्वे᳚भ्यस्त्वेन्द्रि॒येभ्यो॑
PS1.6 दि॒व्येभ्यः॒ पार्त्थि॑वेभ्यो॒ मन॑स्त्वाऽष्टू॒र्व॑न्तरि॑क्ष॒मन्वि॑हि॒ स्वाहा᳚
PS1.7 त्वा सुभवः॒ सूर्या॑य दे॒वेभ्य॑
PS1.8 ( ) स्त्वा मरीचि॒पेभ्य॑
PS1.9 ए॒ष ते॒

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.3.1 TS 1.4.3.1
उ॒प॒या॒मगृ॑हीतो ऽस्य॒न्तर्य॑च्छ मघवन् पा॒हि सोम॑मुरु॒ष्य रायः॒ समिषो॑ यजस्वा॒ऽन्तस्ते॑ दधामि॒ द्यावा॑पृथि॒वी अ॒न्तरु॒र्व॑न्तरि॑क्षꣳ स॒जोषा॑ दे॒वैरव॑रैः॒ परै᳚श्चाऽन्तर्या॒मे म॑घवन् मादयस्व॒ स्वांकृ॑तोऽसि॒ मधु॑मतीर्न॒ इष॑स्कृधि॒ विश्वे᳚भ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्त्थि॑वेभ्यो॒ मन॑स्त्वाऽष्टू॒र्व॑न्तरि॑क्ष॒मन्वि॑हि॒ स्वाहा᳚ त्वा सुभवः॒ सूर्या॑य दे॒वेभ्य॑ ( ) स्त्वा मरीचि॒पेभ्य॑ ए॒ष ते॒
पदपाठः (Word-by-word)
उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । अ॒न्तः । य॒च्छ॒ । म॒घ॒व॒न्निति॑ मघ - व॒न्न् । पा॒हि । सोम᳚म् । उ॒रु॒ष्य । रायः॑ । समिति॑ । इषः॑ । य॒ज॒स्व॒ । अ॒न्तः । ते॒ । द॒धा॒मि॒ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । अ॒न्तः । उ॒रु । अ॒न्तरि॑क्षम् । स॒जोषा॒ इति॑ स - जोषाः᳚ । दे॒वैः । अव॑रैः । परैः᳚ । च॒ । अ॒न्त॒र्या॒म इत्य॑न्तः-या॒मे । म॒घ॒व॒न्निति॑ मघ - व॒न्न् । मा॒द॒य॒स्व॒ । स्वाङ्कृ॑तः । अ॒सि॒ । मधु॑मती॒रिति॒ मधु॑ - म॒तीः॒ । नः॒ । इषः॑ । कृ॒धि॒ । विश्वे᳚भ्यः । त्वा॒ । इ॒न्द्रि॒येभ्यः॑ । दि॒व्येभ्यः॑ । पार्त्थि॑वेभ्यः । मनः॑ । त्वा॒ । अ॒ष्टु॒ । उ॒रु । अ॒न्तरि॑क्षम् । अन्विति॑ । इ॒हि॒ । स्वाहा᳚ । त्वा॒ । सु॒भ॒व॒ इति॑ सु - भ॒वः॒ । सूर्या॑य । दे॒वेभ्यः॑( ) । त्वा॒ । म॒री॒चि॒पेभ्य॒ इति॑ मरीचि - पेभ्यः॑ । ए॒षः । ते॒ । योनिः॑ । अ॒पा॒नायेत्य॑प - अ॒नाय॑ । त्वा॒ ॥
पदसंख्या: 57
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमाष्टके चतुर्थप्रपाठके तृतीयोऽनुवाकः)।

द्वितीयेऽनुवाक उपांशुग्रहोऽभिहितः। अथ तृतीयमारभ्य षट्त्रिंशान्तेष्वनुवा-केष्वन्तर्यामादिकाः षोडश्यन्ता ग्रहा अभिधीयन्ते। तत्र पौर्वापर्ये पाठ एव नियामकः।

उपयामगृहीत इति। कल्पः – “उदित आदित्येऽन्तर्यामं गृह्णात्यतिपवमानस्य राज्ञ उपयामगृहीतोऽस्यन्तर्यच्छ मघवन्पाहि सोममुरुष्य रायः समिषो यजस्वान्तस्ते दधामि द्यावापृथिवी अन्तरुर्वन्तरिक्ष सजोषा देवैरवरैः परैश्चान्तर्यामे मघवन्मादयस्वेति” (सं. का. ६ प्र. ४ अ. ५) इति।

अतिपवमानस्य दशापवित्रेणात्यन्तशुद्धस्य। हे सोमरस त्वमुपयामगृहीतोऽसि। उपयामः पृथिवी। “इयं वा उपयामः” इति श्रुतेः। पृथिव्यामुत्पन्नं दारुमयमन्तर्यामसंज्ञकं पात्रमन्तर्यामशब्देनोच्यते। हे मघवन्नन्तर्यच्छ, इदं पात्रमस्माकं भ्रातृव्येभ्योऽन्तर्धानं यथा भवति तथा नियमय। ततः सोमं पालय। रायो धनानि उरुष्य रक्ष। समिषः समीचीनान्यन्नानि यजस्व देहि। द्यावापृथिव्यौ तवानुग्रहादन्तर्दधामि व्यवधायिके करोमि। विस्तीर्णमन्तरिक्षमप्यन्तर्दधामि। हे मघवन्नवरैः परैश्च सर्वैर्देवैः सजोषाः सह (प्रीयमाणः सेवमानो वा) अस्मिन्नन्तर्यामग्रहे मादयस्व। त्वं हृष्टः सन्नन्यानपि हर्षय।

अन्तर्यामपात्रे सोमरसग्रहणं विधत्ते – “देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा उपाशौ यज्ञ सस्था-प्यमपश्यन्तमुपाशौ समस्थापयन्तेऽसुरा वज्रमुद्यत्य देवानभ्यायन्त ते देवा बिभ्यत इन्द्रमुपाधावन्तानिन्द्रोऽन्तर्यामेणान्तरधत्त तदन्तर्यामस्यान्तर्यामत्वं यदन्तर्यामो गृह्यते भ्रातृव्यानेव तद्यजमानोऽन्तर्धत्ते” (सं. का. ६ प्र. ४ अ. ६) इति।

देववद्यज्ञमनुतिष्ठतामसुराणां व्यामोहार्थमुपांशुग्रहे यज्ञं समापनीयं मत्वा रहसि देवास्तं तथा चक्रुः। तं प्रकारमज्ञात्वा क्रुद्धानसुरानिन्द्रोऽन्तर्यामग्रहेणान्तर्हितानकरोत्। ततो भ्रातृव्यान्तर्धानायान्तर्यामो ग्रहीतव्यः।

मन्त्रभागे द्यावापृथिव्युक्तेः प्रयोजनमाह – “अन्तस्ते दधामि द्यावापृथिवी अन्तरुर्वन्तरिक्षमित्याहैभिरेव लोकैर्यजमानो भ्रातृव्यानन्तर्धत्ते” (सं. का. ६ प्र. ४ अ. ६) इति।

सजोषा इत्यादेः प्रयोजनमाह – “ते देवा अमन्यन्तेन्द्रो वा इदमभूद्यद्वय स्म इति तेऽब्रुवन्मघवन्ननु न आ भजेति सजोषा देवैरवरैः परैश्चेत्यब्रवीद्ये चैव देवाः परे ये चावरे तानुभयानन्वाभजत्सजोषा देवैरवरैः परैश्चेत्याह ये चैव देवाः परे ये चावरे तानुभयानन्वाभजति” (सं. का. ६ प्र. ४ अ. ६) इति।

यदैश्वर्यं प्राप्तुं वयमिच्छावन्तः स्म इदं सर्वमिन्द्र एवाभूत्प्राप्तवानिति मत्वा ते देवा अब्रुवन्। हे मघवंस्त्वामन्वस्मानपि भागिनः कुर्विति। तत इन्द्रः सजोषा इत्यादि वाक्येनानुजज्ञौ। तयाऽनुज्ञया ये चोत्कृष्टा देवा ये च निकृष्टास्तान्सर्वान्भागिनोऽकरोत्। अतोऽत्रापि सजोषा इत्याद्युक्त्या सर्वान्भागिनः करोति।

मादयस्वेत्यत्र यथा भागलाभेन देवानां हर्षस्तथा यज्ञविघ्नाभावेन यजमानस्यापि हर्षं द्योतयति – “अन्तर्यामे मघवन्मादयस्वेत्याह यज्ञादेव यजमानं नान्तरेति” (सं. का. ६ प्र. ४ अ. ६) इति।

मन्त्रोपक्रमगतस्य गृहीतशब्दस्य प्रयोजनमाह – “उपयामगृहीतोऽसीत्याहापानस्य धृत्यै” (सं. का. ६ प्र. ४ अ. ६) इति।

अपानदेवताया अन्तर्यामाभिमानितया तस्मिन्गृहीते प्राणिनामपानो धृतो भवति।

नात्रोपांशोरिवाञ्जलिना ग्रहणं किंतु दशापवित्रनाभिस्रुतया धारयेत्यभिप्रेत्याऽऽह –

“यदुभावपवित्रौ गृह्येयातां प्राणमपानोऽनु न्यृच्छेत्प्रमायुकः स्यात्पवित्रवानन्तर्यामो गृह्यते प्राणापानयोर्विधृत्यै” (सं. का. ६ प्र. ४ अ. ६) इति।

प्राणवृत्तिः स्वभावतो बहिर्गच्छत्यतः प्राणरूपस्योपांशोः पवित्रेण नियमनं नापेक्षितम्। यद्यन्तर्यामोऽपि तद्वदपवित्रः स्यात्तर्ह्यनियमितत्वात्तद्रूपोऽपानोऽपि निर्गच्छन्तं प्राणमनु निर्गच्छेत्। ततः प्राणापानयोरभावान्म्रियेत। पवित्रेण नियमिते त्वपानेऽग्रे तदविनाभूतः प्राणो निर्गच्छन्नपि नात्यन्तं देहं परित्यजेत्। तस्मादुभयोर्धारणाय दशापवित्रेणान्तर्यामं गृह्णीयात्। तत्प्रकारः सूत्रेऽभिहितः – “अदाभ्यांशुमु(भ्यो)पांशुपा(स)वनौ चापिसृज्य सर्वेऽध्वर्यवो दिग्भ्यो महाभिषवमभिषुण्वन्ति अभिषुतमध्वर्युरञ्जलिना संसिञ्चति तमुन्नेताऽन्तरेषेणो(चो)द्धृत्योत्तरत आधवनीयेऽवनयति उद्गातारो द्रोणकलशं प्रतिष्ठाप्य तस्मिन्नुदीचीनं दशापवित्रं वितन्वन्ति पवित्रस्य यजमानो नाभिं कृत्वा तस्मिन्होतृचमसेन धारां स्रावयत्युदञ्चनेनोन्नेताऽऽधवनीयाद्धोतृचमस आनयति संतता धारा स्रावयितव्या धाराया अन्तर्यामं गृह्णाति सर्वांश्चातो ग्रहानाध्रुवात्” इति। ग्रहणादूर्ध्वमन्तर्यामस्योपांशुवत्स्वांकृतादिमन्त्प्रयोगः कर्तव्यः।

स्वांकृत इति। एते मन्त्रा उपेक्षिताः।

उपांश्वन्तर्यामपात्रयोरासादने मध्यगतेनोपांशुसवनेन सह स्पर्शं विधत्ते – “प्राणापानौ वा एतौ यदुपाश्वन्तर्यामौ व्यान उपाशुसवनो यं कामयेत प्रमायुकः स्यादित्यासस्पृष्टौ तस्य सादयेद्व्यानेनैवास्य प्राणापानौ वि च्छिनत्ति ताजक्प्र मीयते यं कामयेत सर्वमायुरियादिति सस्पृष्टौ तस्य सादयेद्व्यानेनैवास्य प्राणापानौ सं तनोति सर्वमायुरेति” (सं. का. ६ प्र. ४ अ. ६) इति।

अत्र सूत्रम् – “सर्वमाग्रयणस्थाल्यां संपातमानीयैष ते योनिरपानाय त्वेति रिक्तं पात्रमायतने सादयति व्यानाय त्वेति ते अन्तरेण ग्रावाणमुपांशुसवनं दक्षिणामुखं संस्पृष्टं पात्राभ्याम्” इति।

अत्र विनियोगसंग्राहः –– “उपान्तर्यामकस्तत्र स्वांकृतादि तु पूर्ववत्” ॥१॥ इति।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै-त्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके तृतीयोऽनुवाकः ॥३॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 उदित आदित्येन्तर्यामं गृह्णाति अतिधारया पवमानस्य राज्ञः - उपयामगृहीतोसि ॥ उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । 'इयं वा उपयामः' इति ब्राह्मणम् । 'हलश्च' इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम । ननु 'स्वाहा त्वा सुभवस्सूर्याय' इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य 'उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन' इति, अदितिः पृथ्वी । 'चतुर्थी' इति योगविभागात्समासः । 'क्ते च' इति पूर्वपदप्रकृतिस्वरत्वम् । 'इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते' इति ब्राह्मणम् ॥
2 सम्प्रति सोमस्य स्वामिनं प्रार्थयते - 'अन्तर्यच्छ' इत्यादिकयाऽष्ट्या षट्पदया । 'अन्तरुवन्तरिक्षम्' इति चतुर्थः पादः, अन्य एकादशाक्षराः । ननु पुरस्तादुपयामत्वाद्यजुषानेन भवितव्यम्, यथा 'पुरस्तादुपयामा यजुषा गृह्यन्ते' इति । नैवम् ; वृत्तिसंयोगादृचैवानया भवितव्यम् । किञ्च पुरस्तादुपयामाम्नानमेवास्य ऋक्त्वे लिङ्गम् ; तथा हि - 'ये यजुषा गृह्यन्ते ते पुरस्तादुपयामाः कार्याः' इति वचनप्राप्तत्वादेव पुरस्तादुपयामस्य पाठोनर्थकस्स्यात् । ऋक्त्वे तु 'ये ऋचा गृह्यन्ते ते उपरिष्तादुपयामाः कार्याः' इति प्राप्ते तदपवादत्वेन पुरस्तादुपयामस्य पाठो युज्यते । एष एव न्यायः 'उपयामगृहीतोसीन्द्राय त्वा बृहद्वते' इत्यत्रापि । 'आ वायो भूष शुचिपाः' इत्यादय ऋच उपरिष्टादुपयामाः पठ्यन्ते । ऋचामेव हि पूरस्तादुपरिष्टाद्वा उपयामः पठ्यते ; यजूंषि पुनः निरुपयामान्येव पठ्यन्ते 'सुशर्मासि' इत्यादीनि । तेषां तु वचनप्राप्तं पुरस्तादुपयामतम् । तत्रापि क्वचिदपवादत्वेन उपरिष्टादुपयामत्वमारभ्यते, 'मधुश्च माधवश्च' इत्यादौ । अन्ये तु - तान्यपि पुरस्तादुपयामान्येवेत्याहुः यथा - 'उपयामगृहीतोसि' इति 'मधुश्च' इत्यादि ॥ मन्त्रार्थस्तूच्यते - हे मघवन् धनवन् इन्द्र, सोमेन धनेनान्नेन वा, इमं गृह्यमाणं सोमं, होमकाले सूर्यात्मना स्थित्वा, पाहि पिब, पीत्वा चान्तरुदरस्य मध्ये यच्छ स्थापय । पिबतेर्लोटि 'बहुलं छन्दसि' इति शपो लुक्, वाक्यादित्वान्न निहन्यते । एवमुरुष्य रक्ष रायः धनानि च यजमानस्य स्वभूतानि । छान्दसः कण्ड्वादियगन्तः उरुष्यतिः । किञ्च, इषः अन्नानि संयजस्व सम्यक्सङ्गमय, देहि वा यजमानाय । यद्वा - इषः प्रजा एषणीयत्वात्, तास्सम्यग्याजय यथा यजनशीला भवन्ति तथा कुरु । अन्तर्भावितण्यर्थोत्र यजिः, णिलुग्वा 'बहुलं संज्ञाच्छन्दसोः' इति । किञ्च ते तव प्रसादादहं द्यावापृथिवी द्यावापृथिव्यौ उरु चान्तरिक्षं अनेन ग्रहेणान्तर्दधामि अन्तर्हिर्तं करोमि भ्रातृव्याणाम्, यथा भ्रातृव्यैरदृश्यमाना एषु लोकेषु यजेम । यद्वा - भ्रातृव्याणामस्माकं च मध्ये इमान् लोकान्दधामि एभ्यो लोकेभ्यस्स्तानपसारयामीत्यर्थः । यद्वा - द्युप्रभृतिभिश्शब्दैस्तत्स्था भ्रातृव्या उच्यन्ते, तानन्तर्दधामि अन्तरितान्करोमि नाशयामीत्यर्थः । 'एभिरेव लोकैर्यजमानो भ्रातृव्यानन्तर्धत्ते' इति ब्राह्मणम् । यद्वा - द्युप्रभृतीन् लोकान् मदीयेन तेजसान्तर्दधामि छादयामि यथा हमेवेदं सर्वं स्यां, यथान्तर्यामेण सर्वमन्तर्धाय त्वमेव सर्वमभूः । यथा 'ते देवा अमन्यन्तेन्द्रो वा इदमभूद्यद्वयꣳस्म इति तेब्रुवन्मघवन्ननु न आ भज' इति ; इन्द्र एवेदं सवर्मभूत्, यद्वयमपि भवितुमिच्छामः ; तस्मान्मघवन्नस्मानाभज विभक्तान्कुर्विति तेब्रुवन् देवाः ; मघवांस्तानपि ये चैव देवाः परे उपरिस्थिताः उत्तमाः ये चावरे अधस्स्थिता निकृष्टास्तानुभयानन्वाभजत् विभक्तानकरोदिति । तदिदमाह – अवरैः परैश्च देवैस्सजोषाः सहप्रीयमाणः सेवमानो वा । 'परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । अन्तर्यामे हूयमाने, मघवन् मादयस्व तर्पयस्व यज्ञात्मना स्थितमात्मानं द्विप्रकारांश्च देवान् न केवलमात्मानमेव । 'यज्ञादेव यजमानं नान्तरेति' इति ब्राह्मणम् । 'देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा उपांशौ यज्ञं सꣳस्थाप्यमपश्यन्' इत्यादि ब्राह्मणम् । 'यदुभावपवित्रौ गृह्येयाताम्' इत्यादि च । केचिदाहुः - हे मघ्वन् सोममिममन्तर्यच्छ तस्याधोदेशे निधाय तिरोहितं कुरु । तथा च कृत्वा पाहि रक्ष यथा न मे भ्रातृव्याः पश्येयुः । 'उरुष्य रायः' इत्यादि पूर्ववत् ॥
3 स्वां कृतोसीति ग्रहमादत्ते ॥
4 मधुमतीर्न इतीक्षते ॥
5 विश्वेभ्य इत्युन्मार्ष्टि ॥
6 मनस्त्वेत्युत्तिष्ठति ॥
7 उर्वन्तरिक्षमित्येति ॥
8 स्वाहेत्याहवनीये जुहोति ॥
9 देवेभ्य इति परिधौ निमार्ष्टि ॥
10 एष ते योनिरित्याग्रयणस्थाल्यां संस्रावमपनयति ॥
11 उत्तरत उपांशुसवनेन संस्पृष्टं सादयति - अपानाय त्वेति ॥

व्याख्याता मन्त्राः ॥

इति चतुर्थे तृतीयः ॥