पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
अत्र द्वितीयान्ताश्चित्तादिशब्दा देवताविशेषवाचिनः । तृतीयान्ताः संतानादिशब्दाः पशोर्मांसविशेषवाचिनः । संतानाख्येन मांसविशेषेण चित्ताख्यं देताविशेषं परितोषयाम इति वाक्यशेषः । एवं सर्वत्र योजनीयम् । तदेवमस्मिन्प्रपाठके ब्रह्मचितिब्रह्ममेधयोरङ्गभूता मन्त्रा उक्ताः । चातुर्होत्रियचितिर्ब्रह्मचितिः । ब्रह्म वै चतुर्होतार इत्याम्नातत्वात् । तस्यां ब्रह्मचितौ चित्तिः स्रुगित्यादयः सुवर्णं घर्ममित्येवमन्ता अनुवाका विनियुक्ताः । ब्रह्ममेधे तु कृत्नोऽपि प्रपाठको विनियुक्तः । आहिताग्नेर्यो दहनादिसंस्कारः सोऽयं पितृमेधः । आहिताग्नित्वे सति यो ब्रह्मतत्वं जानाति तस्य दहनादिसंस्कारो ब्रह्ममेध इत्युच्यते । तस्मिन्ब्रह्ममेधेऽस्य प्रपाठकस्य विनियोगं भरद्वाज आह - "अथात उत्तरं पितृमेधं व्याख्यास्यामो ब्रह्ममेध इत्याचक्षते । तथाऽप्युदाहरन्ति द्विजातीनामपवर्गार्थस्तत्वदर्शिभिः । ऋषिभिस्तपसो योगाद्वेष्टितुं पुरुषोत्तमम् । होतॄंश्च पितृमेधं च संसृज्य विधिरुत्तरः । विहितस्तु समासेन क्रतूनामुत्तमः क्रतुः" इति । तस्य सग्रहैर्होतृभिर्होमो भर्तृसूक्तेन भरणं पत्नीभिरुपसादनं दक्षिणाप्रतिग्रहैर्निर्मार्गो हृदयैर्हिरण्यशकलान्संभारयजुर्भिः पात्रचयनं ज्योतिष्मतीभिरुपोषणं नारायणाभ्यामुपस्थानं ब्राह्मण एकहोतेति चानुमन्त्रणं चित्तँ संतानेनेति हविराहुतीः प्रयासायस्वाहेति स्रुवाहुतीर्मृत्युसूक्तेनानुशंसनं सौम्या संगाहनं सौर्येणाऽऽदित्योपस्थानमीयुष्ट इत्यवगाहनं समानमत ऊर्ध्वं पैतृमेधिकमायवौदनप्राशनात्परं ब्रह्मेत्याचक्षते तानसाधारणे श्मशाने प्रयुञ्जीत नानाचार्याय द्विजातीनामेव संतिष्ठते ब्रह्ममेधः ॥