अनुवाकः 26 TS 1.4.26

(A26)

(सु॒शर्मा॒-द्वाद॑श)

अनुवाकः 26 - Complete Audio

TS 1.4.26 - स्वरानुगामी

0:00 0:00
PS1.1 सु॒शर्मा॑ऽसि सुप्रतिष्ठा॒नो बृ॒हदु॒क्षे नम॑
PS1.2 ए॒ष ते॒ योनि॒र् विश्वे᳚भ्यस्त्वा
PS1.3 दे॒वेभ्यः॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.26.1 TS 1.4.26.1
सु॒शर्मा॑ऽसि सुप्रतिष्ठा॒नो बृ॒हदु॒क्षे नम॑ ए॒ष ते॒ योनि॒र् विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ ॥
पदपाठः (Word-by-word)
सु॒शर्मेति॑ सु - शर्मा᳚ । अ॒सि॒ । सु॒प्र॒ति॒ष्ठा॒न इति॑ सु - प्र॒ति॒ष्ठा॒नः । बृ॒हत् । उ॒क्षे । नमः॑ । ए॒षः । ते॒ । योनिः॑ । विश्वे᳚भ्यः । त्वा॒ । दे॒वेभ्यः॑ ॥
पदसंख्या: 12
सायणभाष्यम् (Sayana Commentary)

कल्पः – “एतेनैव सशेषेण वैश्वदेव पूतभूतो गृह्णाति उपयामगृहीतोऽसि सुशर्माऽसीति ग्रहणसादनौ” इति।

पाठस्तु — सुशर्मेति। हे वैश्वदेवग्रह शोभनं यस्य एव स त्वं सुशर्माऽसि। सुष्ठु प्रतिष्ठानं पात्रे स्थितिर्यस्यासौ सुप्रतिष्ठानोऽसि। उक्षे शस्रे शस्यमानाय तुभ्यं बृहन्नमोऽस्तु। स्पष्टमन्यत्।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सवितृपात्रेण वैश्वदेवं कलशाद्गृह्णाति - सुशर्मेति यजुषा ॥ वैश्वदेवो गण उच्यते । सुशर्मा सुसुखः शोभनग्रहो वा त्वमसि । 'सोर्मनसी' इत्युत्तरपदाद्युदात्तत्वम् । सुप्रतिष्ठानः शोभनं प्रतिष्ठानं प्रतिष्ठा यज्ञाख्या यस्य त्वम् । यद्वा - सुष्टु प्रतिष्ठन्ति सर्वे यागाभिनिवृत्तिद्वारेणेति सुप्रतिष्ठानः । 'मन्क्तिन्व्याख्यान' इत्यादिना उत्तरपदान्तोदात्तत्वमकारकादावपि भविष्यति । तस्मै तुभ्यं उक्षे सेक्त्रे वृष्टिमुत्पादयित्रे । 'सावेकाचः' इति चतुर्थ्या उदात्तत्वम् । इदं बृहन्नमः । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । अन्नं सोमाख्यं गृह्यते त्वदर्थं गृह्नीमः । यद्वा - सोम एवोच्यते, हे सोम सुशमासीत्यादि समानम् । तादृशस्त्वं बृहन्नमः प्रभूतमन्नं अदनीयमस्मै उक्षे वैश्वदेवाय गणाय गृह्यस इति ॥
2 एष ते योनिः इत्यादि व्याख्यातप्रायम् । 'वैश्वदेव्यो वै प्रजा वैश्वदेवः कलशः' इत्यादि ब्राह्मणम् ॥
इति चतुर्थे षड्विंशः ॥