पञ्चशत् 1 #
इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ ॅयथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ । तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना-वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ॥ उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥
पदपाठः (Word-by-word)
इन्द्र॑ । म॒रु॒त्वः॒ । इ॒ह । पा॒हि॒ । सोम᳚म् । यथा᳚ । शा॒र्या॒ते । अपि॑बः । सु॒तस्य॑ ॥ तव॑ । प्रणी॒तीति॒ प्र - नी॒ती॒ । तव॑ । शू॒र॒ । शर्मन्न्॑ । एति॑ । वि॒वा॒स॒न्ति॒ । क॒वयः॑ । सु॒य॒ज्ञा इति॑ सु - य॒ज्ञाः ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । इन्द्रा॑य । त्वा॒ । म॒रुत्व॑ते । ए॒षः । ते॒ । योनिः॑ । इन्द्रा॑य । त्वा॒ । म॒रुत्व॑ते ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 द्वितीयं मरुत्वतीयं गृह्णाति - इन्द्र मरुत्व इति चतुष्पदया त्रिष्टुभा । हे इन्द्र मरुत्वः । 'मतुवसोः' इति रुत्वम् । 'नामन्त्रिते समानाधिकरणे' इति पूर्वपदस्याविद्यमानवत्त्वनिषेधान्निहन्यते । इहास्मिन्कर्मणि सोमं पाहि पिब । पूर्ववच्छपो लुक् । शर्यातिर्नाम राजा, तस्येदं शार्यातम् । यथा शर्यातेर्यागे सुतस्य सोमस्यापिबः । पूर्ववत्सम्प्रदानत्वं षष्ठ्याः षष्ठी च । कस्मात्पुनरेवमभ्यर्थ्यत इत्याह - हे शूर इन्द्र तव प्रणीती प्रणीत्या । 'सुपां सुलुक्' इति तृतीयायाः पूर्वसवर्णदीर्घत्वम् । तद्विषयेन प्रणयनेन तवैव शर्मन् शर्मणि शरणभावे । निमित्तसप्तमी, भावेसुखे वा निमित्ते सप्तमी । त्वमेव शरणं मे यथा भवसि, तदर्थं सुयज्ञाः शोभनयज्ञाः कवयो मेधाविनस्त्वामेवाविवासन्ति परिचरन्ति । तस्मात्त्वामेव प्रार्थयामहे ॥
पूर्ववड्ग्रहणं सादनं च ॥
इति चतुर्थेष्टादशोनुवाकः ॥