पञ्चशत् 1 #
ज्योति॑ष्मतीं त्वा सादयामि ज्योति॒ष्कृतं॑ त्वा सादयामि ज्योति॒र्विदं॑ त्वा सादयामि॒ भास्व॑तीं त्वा सादयामि॒ ज्वल॑न्तीं त्वा सादयामि मल्मला॒भव॑न्तीं त्वा सादयामि॒ दीप्य॑मानां त्वा सादयामि॒ रोच॑मानां त्वा सादया॒म्यज॑स्रां त्वा सादयामि बृ॒हज्ज्यो॑तिषं त्वा सादयामि बो॒धय॑न्तीं त्वा सादयामि॒ जाग्र॑तीं त्वा सादयामि ॥
पदपाठः (Word-by-word)
ज्योति॑ष्मतीम् । त्वा॒ । सा॒द॒या॒मि॒ । ज्यो॒ति॒ष्कृत॒मिति॑ ज्योतिः-कृत᳚म् । त्वा॒ । सा॒द॒या॒मि॒ । ज्यो॒ति॒र्विद॒मिति॑ ज्योतिः - विद᳚म् । त्वा॒ । सा॒द॒या॒मि॒ । भास्व॑तीम् । त्वा॒ । सा॒द॒या॒मि॒ । ज्वल॑न्तीम् । त्वा॒ । सा॒द॒या॒मि॒ । म॒ल्म॒ला॒भव॑न्ती॒मिति॑ मल्मला - भव॑न्तीम् । त्वा॒ । सा॒द॒या॒मि॒ । दीप्य॑मानाम् । त्वा॒ । सा॒द॒या॒मि॒ । रोच॑मानाम् । त्वा॒ । सा॒द॒या॒मि॒ । अज॑स्राम् । त्वा॒ । सा॒द॒या॒मि॒ । बृ॒हज्ज्यो॑तिष॒मिति॑ बृ॒हत् - ज्यो॒ति॒ष॒म् । त्वा॒ । सा॒द॒या॒मि॒ । बो॒धय॑न्तीम् । त्वा॒ । सा॒द॒या॒मि॒ । जाग्र॑तीम् । त्वा॒ । सा॒द॒या॒मि॒ ॥
सायणभाष्यम् (Sayana Commentary)
अथोपोषणे दाहे विनियुक्तानि यजूंष्याह -
प्रेतं दग्धुं या समित्प्रक्षिप्यते तां संबोध्योच्यते - हे समित्वामस्य प्रेतस्योपरि सादयामि स्थापयामि । ज्योतिष्मतीमित्यादिभिर्विशेषणैस्तत्समिन्निष्ठाया ज्वालाया उत्तरोत्तराभिवृध्याऽवस्थाविशेषा उच्यन्ते । अत्यल्पप्रकाशोपेता ज्योतिष्मती । ईषदधिकप्रकाशोपेता ज्योतिष्कृत् । ततोऽप्यधिकप्रकाशोपेता ज्योतिर्वित् । एवं भास्वत्यादिषु योजनीयम् । मल्मलेति दह्यमानकाष्ठध्वनेरनुकरणम् । लिङ्गानुसारेणायं मन्त्र इष्टकोपधानेऽपि विनियोक्तव्यः ॥