अनुवाकः 14 TS 1.4.14

(A14)

(मधु॑श्च-त्रिꣳ॒॒शत्)

अनुवाकः 14 - Complete Audio

TS 1.4.14 - स्वरानुगामी

0:00 0:00
PS1.1 मधु॑श्च॒ माध॑वश्च शु॒क्रश्च॒ शुचि॑श्च॒
PS1.2 नभ॑श्च नभ॒स्य॑श्चे॒षश्चो॒र्जश्च॒ सह॑श्च सह॒स्य॑श्च॒
PS1.3 तप॑श्च तप॒स्य॑श्चो-पया॒मगृ॑हीतोऽसि सꣳ॒॒सर्पो᳚- ऽस्यꣳहस्प॒त्याय॑
PS1.4 त्वा

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.14.1 TS 1.4.14.1
मधु॑श्च॒ माध॑वश्च शु॒क्रश्च॒ शुचि॑श्च॒ नभ॑श्च नभ॒स्य॑श्चे॒षश्चो॒र्जश्च॒ सह॑श्च सह॒स्य॑श्च॒ तप॑श्च तप॒स्य॑श्चो-पया॒मगृ॑हीतोऽसि सꣳ॒॒सर्पो᳚- ऽस्यꣳहस्प॒त्याय॑ त्वा ॥
पदपाठः (Word-by-word)
मधुः॑ । च॒ । माध॑वः । च॒ । शु॒क्रः । च॒ । शुचिः॑ । च॒ । नभः॑ । च॒ । न॒भ॒स्यः॑ । च॒ । इ॒षः । च॒ । ऊ॒र्जः । च॒ । सहः॑ । च॒ । स॒ह॒स्यः॑ । च॒ । तपः॑ । च॒ । त॒प॒स्यः॑ । च॒ । उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म-गृ॒ही॒तः॒ । अ॒सि॒ । सꣳ॒॒सर्प॒ इति॑ सं - सर्पः॑ । अ॒सि॒ । अꣳ॒॒ह॒स्प॒त्यायेत्यꣳ॑हः - प॒त्याय॑ । त्वा॒ ॥
पदसंख्या: 30
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमाष्टके चतुर्थप्रपाठके चतुर्दशोऽनुवाकः)।

कल्पः – “ऋतुग्रहैः प्रचरतो द्रोणकलशाद्गृह्यन्ते न साद्यन्ते पूर्वेषां शेषे-षूत्तरानभिगृह्णीतः पूर्वोऽध्वर्युर्गृह्णाति जघन्यः प्रतिप्रस्थातोपयामगृहीतोऽसि मधुश्चेत्येतैः प्रतिमन्त्रं ससर्पोऽस्यहस्पत्याय त्वेति त्रयोदशचतुर्दशौ गृह्येते” इति।

मन्त्रपाठस्तु — मधुश्चेति। अत्र मध्वादिशब्दाः क्रमेण चैत्रादिमासानां वाचकाः। संसर्पांहस्पतिशब्दयोरर्थोऽन्यत्र दर्शितः –

“असंक्रान्तावेकवर्षे द्वौ चेत्संसर्प आदिमः।

क्षयमासो द्विसंक्रान्तः स चांहस्पतिसंज्ञकः” इति।

मन्त्रादावुपयामेति प्रयुञ्जीत। हे सोम त्वमुपयामगृहीतो मधुश्चासि। एवमन्यत्रापि योज्यम्।

“यज्ञेन वै देवाः सुवर्गं लोकमायन्तेऽमन्यन्त मनुष्या नोऽन्वाभविष्यन्तीति ते संवत्सरेण योपयित्वा सुवर्गं लोकमायन्तमृषय ऋतुग्रहैरेवानु प्राजानन्यदृतुग्रहा गृह्यन्ते सुवर्गस्य लोकस्य प्रज्ञात्यै” (सं. का. ६ प्र. ५ अ. ३ इति।

संवत्सरेण योपयित्वा कालविलम्बेन मोहयित्वा। यत ऋषयो मनुष्येष्वभिज्ञाः। संख्यां विधत्ते — “द्वादश गृह्यन्ते द्वादश मासाः संवत्सरः संवत्सरस्य प्रज्ञात्यै” (सं. का. ६ प्र. ५ अ. ३ इति।

त्रयोदशचतुर्दशयोरप्येतदुपलक्षणम्। अत एव सूत्रकार आह– “द्वादश त्रयोदश चतुर्दश वा गृह्यन्ते” इति।

आदावन्ते च द्वयोर्ग्रहणं विधत्ते — “सह प्रथमौ गृह्येते सहोत्तमौ तस्माद्द्वौद्वावृतू” (सं. का. ६ प्र. ५ अ. ३) इति।

मधुश्च माधवश्चेत्येतौ प्रथमौ। तपश्च तपस्यश्चेत्येतावुत्तरौ। यस्माद्द्वयोः साहित्यमत्र विहितं तस्माद्द्वौद्वौ मासावृत्ववयवौ।

पात्रस्थसोमं वह्नौ स्रावयितुं बिलस्य पार्श्वयोर्द्वे मुखे विधत्ते — “उभयतोमुखमृतुपात्रं भवति को हि तद्वेद यत ऋतूनां मुखम्” (सं. का. ६ प्र. ५ अ. ३) इति।

ऋतूनां मुखमृतुधर्मप्रवृत्त्यारम्भो यतो यस्मात्कालादारभ्य भवति तत्को नाम वेद। तस्मादृतुपात्रस्य मुखद्वयं कुर्यात्।

अध्वर्युप्रतिप्रस्थात्रोः प्रैषमन्त्रावुत्पादयति — “ऋतुना प्रेष्येति षट्कृत्व आह षड्वा ऋतव ऋतूनेव प्रीणात्यृतुभिरिति चतुश्चतुष्पद एव पशून्प्रीणाति द्विः पुनतुनाऽऽह द्विपद एव प्रीणाति” (सं. का. ६ प्र. ५ अ. ३) इति।

हे मैत्रावरुण ऋतुना निमित्तेन होतारं प्रेष्य तमिमं मन्त्रं प्रथमतृतीयपञ्चमेष्वध्वर्ब्रूयात्। द्वितीयचतुर्थषष्ठेषु प्रतिप्रस्थाता ब्रूयात्। एवं षट्कृत्वस्तद्वचनम्। तेन भवत्यृतूनां प्रीतिः। ऋतुभिः प्रेष्येति सप्तमनवमयोरध्वर्युर्ब्रूयात्। अष्ठमदशमयोः प्रतिप्रस्थाता। तेन चतुरावर्तनेन पशूनां प्रीतिः। ऋतुना प्रेष्येत्यध्वर्युरेकादशे ब्रूयात्। प्रतिप्रस्थाता द्वादशे। तेन द्विरावर्तनेन मनुष्याणां पक्षिणां च प्रीतिः।

पूर्वोक्तामेव षट्चतुर्द्विसंख्यामुपजीव्योपजीवकभावेन प्रशंसति — “ऋतुना प्रष्येति षट्कृत्व आहर्तुभिरिति चतुस्तस्माच्चतुष्पादः पशव ऋतूनुपविन्ति द्विः पुनतुनाऽऽह तस्माद्द्विपादश्चतुष्पदः पशूनुप जीवन्ति” (सं. का. ६ प्र. ५ अ. ३) इति।

गवादयश्चतुष्पादः शीतोष्णादीनृतुधर्मानुपजीवन्ति। मनुष्याश्च द्विपादः पशुगतक्षीरादीनुपजीवन्ति।

“ऋतुना प्रेष्येति षट्कृत्व आहर्तुभिरिति चतुर्द्विः पुनतुनाऽऽहाऽऽऋमणमेव

तत्सेतुं यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्यै” (सं. का. ६ प्र. ५ अ. ३) इति।

आक्रम्यते प्राप्यते स्वर्गोऽनेनेत्याक्रमणः सेतुः यथा सेतोरधोभागो विशाल ऊर्ध्वभागः संकुचितस्तथैवात्र षट्चतुर्द्विसंख्या द्रष्टव्या। सोपानेष्वप्येतत्समानम्।

अध्वर्युप्रतिप्रस्थात्रोर्युगपद्गमनं निषेधति — “नान्योऽन्यमनु प्र पद्येत यदन्योऽन्यमनुप्रपद्येतर्तुतुमनु प्र पद्येतर्तवो मोहुकाः स्युः” (सं. का. ६ प्र. ५ अ. ३) इति।

अध्वर्युप्रतिप्रस्थातृभ्यां प्रथमद्वितीयौ ग्रहौ सह गृहीतौ। ततो हविर्धाना-न्निष्क्रम्य गत्वाऽऽहवनीये हुत्वा पुनः प्रत्यागत्य हविर्धाने ग्रहान्तरं ग्रहीतव्यम्। तत्रैकः पुरतोऽन्यः पृष्ठत इत्येवं युगपन्न गन्तव्यं किंतु पर्यायेण। यद्यृतुग्रहे तयोः सहगमनं स्यात्तदानीमेकमृतुमन्योऽनुप्रविशेत्। तदा सांकर्यादृतवो मोहहेतवो भवेयुः।

कालभेदवदुभयोर्मार्गभेदं विधत्ते — “प्रसिद्धमेवाध्वर्युर्दक्षिणेन प्र पद्यते प्रसिद्धं प्रतिप्रस्थातोत्तरेण तस्मादादित्यः षण्मासो दक्षिणेनैति षडुत्तरेण” (सं. का. ६ प्र. ५ अ. ३) इति।

प्रथमतः सिद्धं प्रसिद्धमादित आरभ्येत्यर्थः। यस्मादृत्विजोर्दक्षिणोत्तरौ द्वौ मार्गौ तस्मादादित्यस्यापि दक्षिणायनोत्तरायणे भवतः। अत्र सूत्रम्– “ग्रहावादायोपनिष्क्रामतो दक्षिणमेवाध्वर्युर्द्वार्बाहुं निश्रयमाण उपनिष्क्रामत्युत्तरं प्रतिप्रस्थाता द्वार्बाहुं निश्रयमाण उपरमत्यथाध्वर्युराश्रावयति आश्रावयास्तु श्रौषड्ऋतुना प्रेष्येति वषट्कृते जुहोति निष्क्रामत्येवं प्रतिप्रस्थाता प्रपद्यते तथाऽध्वर्युः” इति। यदा हविर्धानात्प्रतिप्रस्थाता निष्क्रामति तदाऽध्वर्युर्हविर्धानं प्रविशतीत्येवं व्यत्ययेनोभयोर्गमनम्।

मधुश्चेत्यादिमन्त्रैरेव द्वादशमासानां प्रीतत्वात्संसर्पमन्त्रस्य निर्विषयत्वमाशङ्क्य व्याचष्टे — “उपयामगृहीतोऽसि ससर्पोऽस्यहस्पत्याय त्वेत्याहास्ति त्रयोदशो मास इत्याहुस्तमेव तत्प्रीणाति” (सं. का. ६ प्र. ५ अ. ३) इति। अधिकमासस्त्रयोदशः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके चतुर्दशोनुवाकः॥१४॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ ऋतुग्रहास्त्रयोदश । तेषां ग्रहणमन्त्रास्त्रयोदशैव यजूंषि । तत्र तेषामन्त्यस्य पुरस्तादुपयामत्वमाम्नायते 'उपयामगृहीतोसि संसर्पोस्यंहस्पत्याय त्वा' इति । पूर्वेपि 'पुरस्तादुपयामा यजुषा गृह्यन्ते' इति पुरस्तादुपयामाः कर्तव्याः । तदर्थमन्त्यमन्त्रादौ समाम्नातं तैरप्यनुषज्यते, तेषां साकाक्षत्वाच्च; उपयामगृहीतोसि मधुश्चेत्यादि । हे सोम उपयाम गृहीतोसि । ततस्त्वां मधुश्च प्रतिपद्यतां सम्प्रदानत्वेन तव वर्तताम् । मधुर्नाम वासन्तिको मासः; 'मधुश्च माधवश्च वासन्तिकावृतू' इति । ऋत्ववयवौ मासावित्यर्थः; यथा 'तस्माद्द्वौद्वावृतू' इति । स च मधुप्रायत्वान्मधुरुच्यते । भूम्नि मत्वर्थीयः, 'मत्वर्थे मासतन्वोः' इति । तस्य 'लुगकारेकाररेफाश्च' इति लुक् । मधुमानित्यर्थः । सोमश्च चार्थः । मासाश्च चान्द्राः; त्रयोदशस्य चान्द्रत्वात्, पौर्णमासी निमित्तस्य चैत्रादिव्यपदेशस्य चान्द्राणामेव सम्भवात् । अत एव मासानुविधायी मधुशब्दः । 'यज्ञेन वै देवास्सुवर्गं लोकमायन्' इत्यादि ब्राह्मणं समस्तोनुवाकः ॥
2 द्वितीयं गृह्णाति - उपयामगृहीतोसि माधवश्चेति ॥ माधवश्च त्वां प्रतिपद्यतामिति शेषः । एवं सर्वत्र । माधव इति तस्यैव द्वितीयो मासः । 'मधोर्ञ च' इति मत्वर्थे ञप्रत्ययः । मधुमानित्येवार्थः ॥
3 तृतीयं गृह्णाति - शुक्रश्चेति ॥ शूग्दीप्तिरस्मिन्निति भूम्नि तेनैव मत्वर्थीयो रप्रत्ययः । ग्रैष्मो मास उच्यते ॥
4 चतुर्थं गृह्णाति - शुचिश्चेति ॥ शोचयिता शोषयिता सलिलानां शुचिः; स हि बहूष्णत्वात्सर्वं सलिलं शोषयति । 'इन् सर्वधातुभ्यः' इति शुचेरिन्प्रत्ययः ॥
5 पञ्चमं गृह्णाति - नभश्चेति ॥ नह्यति बध्नाति जन्तूनिति नभः । 'नहेर्दिवि भश्च' इत्यसुन्प्रत्ययः । वार्षिको मास उच्यते । स हि वर्षाभिभवेन जन्तून्प्रवृत्तिशून्यान् करोतीति बध्नाति । यद्वा - न भातीति नभः, स हि मेघाच्छादितत्वात् न भाति । भातेरसुनि नञ्समासे नलोपाभावो बहुलवचनत्वात् ॥
6 षष्ठं गृह्णाति - नभस्यश्चेति ॥ नभातीति नभः, भातेरसुन् । समानमन्यत् । अप्रकाशो नभोस्यास्तीति नभस्यः, 'मत्वर्थे मासतन्वोः' इति यत् ॥
7 सप्तमं गृह्णाति - इषश्चेति ॥ इडन्नम् । भूम्नि मत्वर्थीयोकारप्रत्ययः । इष इति शारदो मास उच्यते, शरदि हि प्रायेनौषधयस्सम्पद्यन्ते ॥
8 अष्टमं गृह्णाति - ऊर्जश्चेति ॥ ऊर्ग् रसः, स एव मत्वर्थीयोकारः । तत्र हि गावो बहुक्षीरा भवन्ति । प्रसन्नाश्च सरित्तटाकादयो रसवन्तो भवन्ति ॥
9 नवमं गृह्णाति - सहश्चेति ॥ हैमन्तिको मास उच्यते । सहते अभिभवतीति सहः । स हि शीतेन प्रजा अभिभवति । कर्तर्यसुन् ॥
10 दशमं गृह्णाति - सहस्यश्चेति ॥ प्रजानामभिभावकेन शीतेन तद्वान् । तेनैव यत्प्रत्ययः । शीतवानिति यावत् ॥
11 एकादशं गृह्णाति - तपश्चेति ॥ शैशिर उच्यते । तपति दहति हिमेनेति तपः । कर्तर्येवासुन् ॥
12 द्वादशं गृह्णाति - तपस्यश्चेति । तपता हिमेन तद्वान् तपस्यः । स एव यत् । एवं नभस्सहस्तपश्शब्दाः स्वरानुरोधेनासुन्प्रत्ययान्ता व्याख्याताः । तथैव चाहुर्लौकिकाः -

'नभोनभस्यौ कथिताविषोर्जौ सहस्सहस्य्हौ च तपस्तपस्यौ' इति । आचार्याभिप्रायेण त्वेते अकारान्ता लक्ष्यन्ते; यथोक्तं - 'नभाय त्वा जुष्टं गृह्णामि' इत्यादि । तदा ते इमे मत्वर्थीयाकारान्ता द्रष्टव्याः । क्विबन्तेभ्यो वाऽसुन् कार्यः । पचाद्यजन्तेभ्यो वा मत्वर्थीयो लुप्यते । सर्वथा त्वेते वृषादयो द्रष्टव्याः ॥

13 त्रयोदशं गृह्णाति - उपयामगृहीतोसि संसर्पोस्यंहस्पत्याय त्वा जुष्टं गृह्नामि इति ॥ हे सोम उपयामगृहीतोसि, ततस्त्वामंहस्पत्याय त्वां जुष्टं गृह्णमीति वक्ष्यमाणेन सम्बध्यते । संसर्प इति त्रयोदशो मास उच्यते । स हि द्वादशेन मासेन संसर्पति सङ्गच्छते । यद्वा - यस्मादयं मासिमास्यंशेनांशेन निष्पद्यते तस्मात्संतुष्ट एव मासान्तरैस्सर्पति । त्रिंशता च मासैर्मासत्वेन सम्पद्यते । इदृशस्त्वमसि न कर्मणां त्रयोदशमासार्होसीति । 'परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । अधुना सोम उच्यते - अंहस्पत्याय त्वा जुष्टं गृह्णामीति शेषः । अंहस्पत्यस्त्रयोदशो मासः । अंहांसि पापानि पातयति । 'अमेर्हुच्च' इत्यसुन् । पातयिता नाशयिता अंहस्पत्यः । पततेर्ण्यन्तात् 'कृत्यल्युटो बहुळम्' इति कर्तरि यत्प्रत्ययः, 'बहुलं संज्ञाछन्दसोः' इति णिहुक्, 'कस्कादिषु च' इति सत्वम् । यद्वा - अंहतेर्गतिकर्मणोऽसुन्, अंहसां गतीनां पतिः पाता प्रवर्तक आदित्यः, तदधीनत्वात्सर्वचेष्टानाम् । 'पातेर्डतिः' । यद्वा - कृतानुस्वारोपजनमहरेवांह इत्युच्यते; यथोक्तं - 'वर्णागमो वर्णविपर्ययश्च' इति । तस्य पतिर्दिनपतिरादित्य एव । तत आगतस्तस्यापत्यं वा अंहस्पत्यः, पत्युत्तरपदलक्षणो ण्यः, छान्दसः आदिवृद्ध्यभावः, 'संज्ञापूर्वको विधिरनित्यः' इति वा । आदित्यवशेन हि त्रयोदशो मासो जायते । यथोक्तम् -

'अधिमासका युगे ते रविमासेभ्योधिकास्तु ये चान्द्राः ।

इति । तस्मात्तत आगत इति वा तदपत्यमिति वा शक्यते वक्तुम् । 'अस्ति त्रयोदशो मास इत्याहुः' इति च ब्राह्मणम् । यद्वा - संसर्पार्थस्सोम एव संसर्प इत्युच्यते । यद्वा - उपयामगृहीतोसि संसर्पार्थश्चासि, तस्मादंहस्पत्याय त्वां गृह्णामीति । चतुर्थ्यर्थे वा द्वितीया, अंहस्पत्याय तुभ्यमिमं सोमं गृह्णमीति शेषः ॥
इति चतुर्थे चतुर्दशोनुवाकः ॥