अनुवाकः 16 TS 1.4.16

(A16)

(ओमा॑सो विꣳश॒तिः)

अनुवाकः 16 - Complete Audio

TS 1.4.16 - स्वरानुगामी

0:00 0:00
PS1.1 ओमा॑सश्चर्.षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त
PS1.2 दा॒श्वाꣳसो॑ दा॒शुषः॑ सु॒तं
PS1.3 उ॒प॒या॒मगृ॑हीतो-ऽसि॒ विश्वे᳚भ्यस्त्वा दे॒वेभ्य॑ ए॒ष
PS1.4 ते॒ योनि॒र् विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.16.1 TS 1.4.16.1
ओमा॑सश्चर्.षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त । दा॒श्वाꣳसो॑ दा॒शुषः॑ सु॒तं ॥ उ॒प॒या॒मगृ॑हीतो-ऽसि॒ विश्वे᳚भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र् विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ ॥
पदपाठः (Word-by-word)
ओमा॑सः । च॒र्॒.ष॒णी॒धृ॒त॒ इति॑ चर्.षणि - धृ॒तः॒ । विश्वे᳚ । दे॒वा॒सः॒ । एति॑ । ग॒त॒ ॥ दा॒श्वाꣳसः॑ । दा॒शुषः॑ । सु॒तम् ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । विश्वे᳚भ्यः । त्वा॒ । दे॒वेभ्यः॑ । ए॒षः । ते॒ । योनिः॑ । विश्वे᳚भ्यः । त्वा॒ । दे॒वेभ्यः॑ ॥
पदसंख्या: 20
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमाष्टके चतुर्थप्रपाठके पञ्चदशषोडशानुवाकौ)।

कल्पः – “अभक्षितेन पात्रेणाध्वर्युरैन्द्राग्नं गृह्णातीन्द्राग्नी आ गत सुतमिति ग्रहणसादनौ” इति।

पाठस्तु — इन्द्राग्नी इति। हे इन्द्राग्नी॑ सुतमभिषुतं सोमं प्रत्यागतमागच्छतम्। कीदृशं सोमम्। गीर्भिः स्तुतिभिर्युक्तमिति शेषः। नभो नभोवस्थितैः स्वर्गनिवा–सिभिर्देवैर्वरेण्यं प्रार्थनीयम्। अस्य सोमस्य संबन्धिनं स्वकीयमंशं पातं युवां पिबतम्। कादृशौ युवाम्। धिया बुद्ध्येषिता प्रार्थितौ स्पष्टमन्यत्।

कल्पः – ‘वैश्वदेवं शुक्रपात्रेण गृह्णात्योमासश्चर्षणीधृत इति ग्रहणसादनौ’ इति।

पाठस्तु — ओमास इति। हे विश्वे देवा आगताऽऽगच्छत। कीदृशाः। ओमासो रक्षितारः। चर्षणीधृतो मनुष्यपोषकाः। अनिष्टनिवारणं रक्षणम्। इष्टप्रापणं पोषणम्। सुतमभिषुतं दाशुषो दत्तवतो यजमानस्य दाश्वांसः फलं पूर्वं दत्तवन्तः। स्पष्टमन्यत्।

मन्त्रानुपेक्ष्यैन्द्राग्नग्रहं विधत्ते — “सुवर्गाय वा एते लोकाय गृह्यन्ते यदृतुग्रहा ज्योतिरिन्द्राग्नी यदैन्द्राग्नमृतुपात्रेण गृह्णाति ज्योतिरेवास्मा उपरिष्टाद्दधाति सुवर्गस्य लोकस्यानुख्यात्यै” (सं. का. ६ प्र. ५ अ. ४) इति।

यदेतदृतुपात्रमध्वर्युहस्ते भक्षणीयेन सोमेनोपेतं तेनैन्द्राग्नं गृह्णीयात्। तथा सत्यृतुग्रहैः प्राप्तः स्वर्ग इन्द्राग्निज्योतिषा प्रकाशितो भवति।

बलप्रदत्वेनैन्द्राग्नं प्रशंसति — ‘ओजोभृतौ वा एतौ देवनां यदिन्द्राग्नी यदैन्द्राग्नो गृह्यत ओज एवाव रुन्धे’ (सं. का. ६ प्र. ५ अ. ४) इति।

ग्रहान्तरं विधत्ते — ‘वैश्वदेव शुक्रपात्रेण गृह्णाति वैश्वदेव्यो वै प्रजा असावादित्यः शुक्रो यद्वैश्वदेव शुक्रपात्रेण गृह्णाति तस्मादसावादित्यः सर्वाः प्रजाः प्रत्यङ्ङुदेति तस्मात्सर्व एव मन्यते मां प्रत्युदगादिति’ (सं. का. ६ प्र. ५ अ. ४) इति। शुक्रग्रहस्य यत्पात्रं तेन वैश्वदेवं गृह्णीयात्। वैश्वदेवीः सर्वाः प्रजाः प्रति शुक्रग्रहाभिमान्यादित्यः प्रत्यङ् प्रत्येकमभिमुख उदेति। तदेतत्सर्वस्याप्यनुभवसिद्धम्।

तेजःप्रदत्वेन वैश्वदेवं प्रशंसति — वैश्वदेव शुक्रपात्रेण गृह्णाणि वैश्वदेव्यो वै प्रजास्तेजः शुक्रो यद्वैश्वदेव शुक्रपात्रेण गृह्णाति प्रजास्वेव तेजो दधाति’ (सं. का. ६ प्र. ५ अ. ४) इति। इन्द्राग्नी ओमास इत्येते गायत्र्यौ ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके पञ्चदशषोडशाऽनुवाकौ॥१५॥१६॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 शुक्रपात्रेण वैश्वदेवं कलशाद्गृह्णाति - ओमास इति त्रिपदया गायत्र्या ॥ हे ओमासः अवितारः प्रजानां रक्षितारः । अवतेर्मन्प्रत्ययान्तात् 'ज्वरत्वर' इत्यादिना ऊठादेशे गुणः, आज्जसेरसुक् । चर्षणीधृतः, चर्षणयो मनुष्याः, तेषां प्रतिष्ठाद्यनु प्रदानेन धारयितारः । 'अन्येषामपि दृश्यते' इति पूर्वपदस्य दीर्घः, 'विभाषितं विशेषवचने बहुवचनम्' इति पूर्वस्याविद्यमानत्वनिषेधान्निहन्यते । विश्वे इति पादादित्वान्न निहन्यते । देवास इति पूर्ववन्निहन्यते, पूर्ववदसुक् । हे इर्दृशा विश्वे देवाः आगत आगच्छत । पूर्ववच्छपो लुक् । आमन्त्रितानामविद्यमान- त्वेपि आङः परत्वान्न निहन्यते । दाश्वांसो यूयम् । दाशृ दाने, लिटः क्वसुः 'दाश्वान्साश्वान्' इति निपातितः । यजमानेभ्यो धनानि दत्तवन्तः दाशुषोस्य यजमानस्य सुतं सोमं प्रत्यागच्छत । अयं हि यजमानो युष्मभ्यं हवींषि दत्तवान् ददाति दास्यति । तेन युष्मदुपकारिणोस्य सुतं प्रति दानशीला यूयं प्रत्यागच्छत । यद्वा - चतुर्थ्यर्थे षष्ठी, यो नाम कश्चिद्युष्मभ्यं हवींषि ददाति तस्मै दाशुषे दाश्वांसो यूयं धनानि दत्तवन्तो यूयम् । यद्वा - 'छन्दसि लुङ्लङ्लिटः' इत्युभयत्र वर्तमाने लिट् । युष्मभ्यं हवींषि ददतोस्य सुतं प्रति यूयमपि धनानि ददत एवागच्छत इति ॥

इमामनुद्रुत्योपयामगृहीतोसि विश्वेभ्यस्त्वा देवेभ्यः इति गृह्णाति ॥

2 एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति ॥ 'वैश्वदेव्यो वै प्रजा असावादित्यश्शुक्रः' इत्यादि ब्राह्मणम् ॥
इति चतुर्थे षोडशोनुवाकः ॥