अनुवाकः 22 TS 1.4.22

(A22)

(वः॒- स॒प्तविꣳ॑शतिश्च)

अनुवाकः 22 - Complete Audio

TS 1.4.22 - स्वरानुगामी

0:00 0:00
PS1.1 क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑
PS1.2 सश्चसि दा॒शुषे᳚
PS1.3 उपो॒पेन्नु म॑घव॒न् भूय॒ इन्नु
PS1.4 ते॒ दानं॑ दे॒वस्य॑ पृच्यते
PS1.5 उ॒प॒या॒मगृ॑हीतोऽस्या-दि॒त्येभ्य॑स्त्वा
PS1.6 क॒दा च॒न प्र यु॑च्छस्यु॒भे
PS1.7 नि पा॑सि॒ जन्म॑नी
PS1.8 तुरी॑यादित्य॒ सव॑नं त इन्द्रि॒यमा
PS1.9 त॑स्थाव॒मृतं॑ दि॒वि
PS1.10 य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒
PS1.11 भव॑ता मृड॒यन्तः॑
PS1.12 आ वो॒ ( )
PS1.13 ऽर्वाची॑ सुम॒तिर् व॑वृत्यादꣳ॒॒हो-श्चि॒द्या व॑रिवो॒वित्त॒राऽस॑त्
PS1.14 विव॑स्व आदित्यै॒ष ते॑ सोमपी॒थस्तेन॑
PS1.15 मन्दस्व॒ तेन॑ तृप्य तृ॒प्यास्म॑
PS1.16 ते व॒यं त॑र्पयि॒तारो॒ या
PS1.17 दि॒व्या वृष्टि॒स्तया᳚ त्वा श्रीणामि

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.22.1 TS 1.4.22.1
क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे᳚ । उपो॒पेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥ उ॒प॒या॒मगृ॑हीतोऽस्या-दि॒त्येभ्य॑स्त्वा ॥ क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी । तुरी॑यादित्य॒ सव॑नं त इन्द्रि॒यमा त॑स्थाव॒मृतं॑ दि॒वि ॥ य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ । आ वो॒ ( ) ऽर्वाची॑ सुम॒तिर् व॑वृत्यादꣳ॒॒हो-श्चि॒द्या व॑रिवो॒वित्त॒राऽस॑त् ॥ विव॑स्व आदित्यै॒ष ते॑ सोमपी॒थस्तेन॑ मन्दस्व॒ तेन॑ तृप्य तृ॒प्यास्म॑ ते व॒यं त॑र्पयि॒तारो॒ या दि॒व्या वृष्टि॒स्तया᳚ त्वा श्रीणामि ॥
पदपाठः (Word-by-word)
क॒दा । च॒न । स्त॒रीः । अ॒सि॒ । न । इ॒न्द्र॒ । स॒श्च॒सि॒ । दा॒शुषे᳚ ॥ उपो॒पेत्युप॑ - उ॒प॒ । इत् । नु । म॒घ॒व॒न्निति॑ मघ - व॒न्न्॒ । भूयः॑ । इत् । नु । ते॒ । दान᳚म् । दे॒वस्य॑ । पृ॒च्य॒ते॒ ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । आ॒दि॒त्येभ्यः॑ । त्वा॒ ॥ क॒दा । च॒न । प्रेति॑ । यु॒च्छ॒सि॒ । उ॒भे इति॑ । नीति॑ । पा॒सि॒ । जन्म॑नी॒ इति॑ ॥ तुरी॑य । आ॒दि॒त्य॒ । सव॑नम् । ते॒ । इ॒न्द्रि॒यम् । एति॑ । त॒स्थौ॒ । अ॒मृत᳚म् । दि॒वि ॥ य॒ज्ञ्ः । दे॒वाना᳚म् । प्रतीति॑ । ए॒ति॒ । सु॒म्नम् । आदि॑त्यासः । भव॑त । मृ॒ड॒यन्तः॑ ॥ एति॑ । वः॒ ( ) । अ॒र्वाची᳚ । सु॒म॒तिरिति॑ सु - म॒तिः । व॒वृ॒त्या॒त् । अꣳ॒॒होः । चि॒त् । या । व॒रि॒वो॒वित्त॒रेति॑ वरिवो॒वित् - त॒रा॒ । अस॑त् ॥ विव॑स्वः । आ॒दि॒त्य॒ । ए॒षः । ते॒ । सो॒म॒पी॒थ इति॑ सोम - पी॒थः । तेन॑ । म॒न्द॒स्व॒ । तेन॑ । तृ॒प्य॒ । तृ॒प्यास्म॑ । ते॒ । व॒यम् । त॒र्प॒यि॒तारः॑ । या । दि॒व्या । वृष्टिः॑ । तया᳚ । त्वा॒ । श्री॒णा॒मि॒ ॥
पदसंख्या: 77
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे चतुर्थप्रपाठके द्वाविंशोऽनुवाकः)।

कल्पः – “आदित्यपात्रेण य आदित्यस्थाल्यां द्विदेवत्यग्रहसंपातास्तेभ्यः सोमं गृह्णाति कदा चन स्तरीरसीति कदा चन प्र युच्छसीति शृतातङ्क्यं दधि यज्ञो देवानामिति पुनः सोमं गृहीत्वा विवस्व आदित्येति तस्मिन्ग्रावाणमुपांशुसवमवधाय तेनैनं मेलयित्वा या दिव्या वृष्टिस्तया त्वा श्रीणामीति शृतातङ्क्येन दघ्ना पयसा वा वृष्टिकामस्य श्रीत्वा तद्ग्रावाणमुद्गृह्णाति यद्युद्गृहीतस्य ताजग्बिन्दुः प्रस्कन्देद्वर्षुकः पर्जन्यः स्याद्यदि चिरमवर्षुको न सादयति” इति।

प्रथममन्त्रपाठस्तु — कदा चनेति। हे इन्द्र त्वं कदाचिदपि स्तरीर्हिंसको न भवसि। किंतु दाशुषे हविर्दत्तवते यजमानाय फलप्रदानार्थं सश्चसि गच्छसि। कुत्र। उपोपेन्नु यजमानस्यात्यन्तसमीप एव। हे मघवन्भूय इन्नु पुनरेव देवस्य तव दानं देयं हविः पृच्यते संबध्यते यजमानेन हविर्दीयत इत्यर्थः। स्पष्टमन्यत्।

उत्तरमन्त्रस्तु — कदा चन प्रेति। प्रशब्दो निषेधार्थः। युच्छिधातुः प्रमादार्थः। हे इन्द्र कदाचिदपि न प्रमाद्यसि किंतु वर्तमानमागामि चेत्युभे यजमानस्य जन्मनी निपासि नितरां पालयसि। तृतीयमित्यस्मिन्नर्थे वर्णव्यत्ययेन तुरीयशब्दः प्रयुक्तः। हे आदित्य तृतीयसवनं ते त्वदीयं, तस्मिन्सवन इन्द्रियाभिवृद्धिकारणममृतसमानं दधि दिवि द्युलोकसमाने हविर्धान आभिमुख्येन आभिमुख्येन स्थितम्।

उत्तस्मन्त्रस्तु — यज्ञ इति। अथं यज्ञपुरुषो देवानां सुम्नं सुखं प्रत्येति जानात्युत्पादयतीत्यर्थः। हे आदित्या अस्मान्मृडयन्तः सुखयन्ते भवथ(त)। युष्माकं सुमतिरनुग्रहबुद्धिरर्वाचीनेष्वस्मासु प्रवृत्ता सत्याववृत्यादावर्तताम्। या सुमतिरेवांहोश्चिदस्मदीयपापाद्व्यावर्तत(ते)। पापं विनाशयतीत्यर्थः। सा सुमतिर्वरिवोवित्तराऽसदतिशयेन परिचर्याभिज्ञा भवतु।

उत्तरमन्त्रस्तु — विवस्व इति। हे विवस्वो विशिष्टनिवासाऽऽदित्य विवस्वन्नामक एष तृतीयस्तव सोमस्तेन सोमदर्शनेन मन्दस्व इष्टो भव। तेन सोमपानेन तृप्तो भव। तव तर्पयितारो वयमपि तृप्ता भूयास्म।

उत्तरमन्त्रस्तु — या दिव्येति। हे सोम दिव्यवृष्टिहेतुना दध्ना त्वां मिश्रयामि।

अत्राऽऽदित्याग्रहं विधातुमाख्यायिकामाह — “अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचत्तस्या उच्छेषणमददु-स्तत्प्राश्नात्सा रेतोऽधत्त तस्यै चत्वार आदित्या अजायन्त” (सं. का. ६ प्र. ५ अ. ६) इति।

साध्येभ्यः साध्यनामकेभ्यः। आधानप्रकरणोक्तविधानेन संपादितो ब्रह्मौदनः। उच्छेषणं हुतशिष्टम्।

पुत्रचतुष्टयेनाप्यनिवृत्ते कामे पुनः प्रयुक्तवतीत्याह — “सा द्वितीयमपचत्साऽमन्यतोच्छेषणान्म इमेऽज्ञत यदग्रे प्राशिष्यामीतो मे वसीयासो जनिष्यन्त इति साऽग्रे प्राश्नात्सा रेतोऽधत्त तस्यै व्यृद्धमाण्डमजायत” (सं. का. ६ प्र. ५ अ. ६) इति।

इमेऽज्ञत चत्वारोऽजायन्त। अत्यन्तधनिकपुत्रोत्पत्त्यपेक्षया होमात्प्रागेव प्राशनेनैवापराधेन तस्या आण्डं गर्भस्थानं व्यृद्धं गर्भशून्यमभवत्।

व्यृद्धिनिवारणाय पुनः प्रयुक्तवतीत्याह — “साऽऽदित्येभ्य एव तृतीयमपचद्भोगाय म इद श्रान्तमस्त्वति तेऽब्रुवन्वरं वृणामहै योऽतो जायाता अस्माक स एकोऽसद्योऽस्य प्रजायामृद्धयाता अस्माकं भोगाय भवादिति ततो विवस्वानादित्योऽजायत तस्य वा इयं प्रजा यन्मनुष्यास्तास्वेक एवर्द्धो यो यजते स देवानां भोगाय भवति” (सं. का. ६ प्र. ५ अ. ६) इति।

इदमाण्डं श्रान्तं गर्भाभावेन पुरा संतप्तमासीत्। इदानीं मम गर्भधारणेनादि-तेर्भोगायास्त्वित्युक्त्वा ब्रह्मौदनमादित्येभ्योऽजुहोत्। त(अ)त आण्डाद्यो जायते सोऽस्माकं मध्य एक आदित्योऽस्तु। अस्याऽऽदित्यस्य संबधिन्यां प्रजायां यः समृद्धः सोऽस्माकं भोगाय भवत्विति वरः। तत आण्डाद्विवस्वान्नमक आदित्य उत्पन्नः। ये मनुष्यास्ते तस्याऽऽदित्यस्य प्रजा वृष्टिद्वारेणोत्पादकत्वात्। तासु प्रजासु यो यजते स एव समृद्धत्वाद्देवानां भोगाय भवति।

इत्थमाख्यायिकया ग्रहदेवतां निरूप्य ग्रहणापादानं निरूपयितुमाख्यायिकान्तरमाह–

“देवा वै यज्ञाद्रुद्रमन्तरायन्त्स आदित्यानन्वाक्रमत ते द्विदेवत्यान्प्रापद्यन्त तान्न प्रति प्रायच्छन्तस्मादपि वध्यं प्रपन्नं न प्रति प्र यच्छन्ति” (सं. का. ६ प्र. ५ अ. ६) इति।

देवा यज्ञं कुर्वन्तस्तस्मिन्यज्ञे रुद्रं विस्मृतवन्तः। स च रुद्र आदित्याननुप्रप्याबाधत। तेन बाधिता आदित्या ऐन्द्रवायवादिग्रहाञ्शरणं प्रपन्नाः। ते च ग्रहदेवास्तानादित्यान्रुद्राय नैव प्रत्यर्पितवन्तः। तस्माल्लोके परैर्वध्योऽपि चोरादिर्यदि शरणं प्राप्नुयात्तदा तं परेभ्यो नैव प्रत्यर्पयन्ति।

आदित्यग्रहं विधत्ते — “तस्मादिद्वदेवत्येभ्य आदित्यो निर्गृह्यते” (सं. का. ६ प्र. ५ अ. ६) इति।

यस्मादादित्या द्विदेवत्यग्रहान्प्रपन्नास्तस्माद्द्विदेवत्यग्रहेभ्यो निषिच्याऽऽदित्यग्राहं गृह्णीयात्।

आदित्यानां हुतशेषेण ब्रह्मौदनेनोत्पन्नत्वात्तेषां द्विदेवत्यशेषाद्ग्रहो युक्त इत्याह —“यदुच्छेषणादजायन्त तस्मादुच्छेषणाद्गृह्यते” (सं. का. ६ प्र. ५ अ. ६) इति।

ग्रहणे कदा चनेत्यादिमन्त्रान्विनियुङ्क्ते — “तिसृभिग्भिर्गृह्णाति माता पिता पुत्रस्तदेव तन्मिथुनमुल्बं गर्भो जरायु तदेव तन्मिथुनम्” (सं. का. ६ प्र. ५ अ. ६) इति।

मातापितृरूपं मिथुनं पुत्रेण सह तदेकं(व) त्रयात्मकम्। गर्भवेष्टनोदकमुल्बं, तद्वेष्टनं पट्टसदृशं जरायुनामकम्। तदुभयरूपं मिथुनं गर्भेण सह त्रयात्मकम्। तेन सदृशमिदमृक्त्रयात्मकम्।

अस्मिन्ग्रहे दधिमेलनं विधत्ते — “पशवो वा एते यादादित्य ऊर्ग्दधि दध्ना मध्यतः श्रीणात्यूर्जमेव पशूनां मध्यतो दधाति” (सं. का. ६ प्र. ५ अ. ६) इति।

आदित्यस्य वृष्टिद्वारा पशूपकारित्वम्। दध्नो भोज्यत्वात्तद्रूपत्वम्। तेन दध्ना सोमं मध्ये मेलयेत्। प्रथममन्त्रेण सकृत्सोमं गृहीत्वा तृतीयमन्त्रेण पुनर्ग्रहीष्यमाणो मध्यममन्त्रेण दधि प्रक्षिपेदित्यर्थः।

दध्नः किं (कं) चिद्गुणं विधत्ते– “शृतातङ्क्येन मेध्यत्वाय तस्मादामा पक्वं दुहे” (सं. का. ६ प्र. ५ अ. ६) इति।

शीते बुध्नमातनक्तीति वचनात्सांनाय्यभाण्डे क्षीरे सम्यक्शीते सति पश्चा-दातञ्चनीयम्। इह तूष्ण एव क्षीरे यदातञ्चनेन निष्पन्नं दधि तेन मेलनीयम्। यस्मादत्र तप्तं क्षीरं तस्माल्लोकेऽपि आमा पाकरहिता गौडं पक्वं धारोष्णरूपं क्षीरं दुहे दुग्धे प्रयच्छति।

ग्रहस्याऽऽच्छादनं विधत्ते — “पशवो वा एते यदादित्यः परिश्रित्य गृह्णाति प्रतिरुध्यैवास्मै पशून्गृह्णाति” (सं. का. ६ प्र. ५ अ. ६) इति।

अन्यतः पशून्निरुध्य यजमानार्थमेव तान्गृहीतवान्भवति। अत्र सूत्रम् — “दर्भैर्हस्तेन वाऽपिधायोत्तिष्ठति” इति।

तदेतदेवाऽऽदित्यग्रहपरिश्रयणमनूद्य प्रशंसति — “पशवो वा एते यदादित्य एष रुद्रो यदग्निः परिश्रित्य गृह्णाति रुद्रादेव पशूनन्तर्दधाति” (सं. का. ६ प्र. ५ अ. ६) इति।

अनेन ग्रहरूपाणां पशूनां घातकाद्रुद्राद्व्यवधानं भवति।

मन्त्रमादित्यपरं ग्रावपरं ग्रावपरतया व्याचष्टे — “एष वै विवस्वानादित्यो यदुपाशुसवनः स एतमेव सोमपीथं परि शय आ तृतीयसवनाद्विवस्व आदित्यैष ते सोमपीथ इत्याह विवस्वन्तमेवाऽऽदित्य सोमपीथेन समर्थयति” (सं. का. ६ प्र. ५ अ. ६) इति।

विवस्वन्नामकस्याऽऽदित्यस्य ग्रहाभिमानित्वाद्ग्राव्णस्तद्रूपत्वम्। स च ग्रावैतमेवाऽऽदित्यग्रहगतं सोमं तृतीयसवनसमाप्तिपर्यन्तं परितः शेते। अतो ग्रावविषयत्यवं मन्त्रस्य युक्तम्।

काम्यदधिश्रयणं समन्त्रकं विधत्ते — “या दिव्या वृष्टिस्तया त्वा श्रीणामीति वृष्टि कामस्य श्रीणीयाद्वृष्टिमेवाव रुन्धे यदि ताजक्प्रस्कन्देद्वर्षुकः पर्जन्यः स्याद्यदि चिरमवर्षुकः” (सं. का. ६ प्र. ५ अ. ६) इति।

अस्यार्थः पूर्वमेव सूत्रे स्पष्टमुदाहृतः।

ग्रहान्तरवत्सादनादिप्रसक्तौ प्रतिषेधति — “न सादयत्यसन्नाद्धि प्रजाः प्रजायन्ते नानु वषट्करोति यदनुवषट्कुर्याद्रुद्रं प्रजा अन्ववसृजेन्न हुत्वाऽन्वीक्षेत यदन्वीक्षेत चक्षुरस्य प्रमायुक स्यात्तस्मान्नान्वीक्ष्यः” (सं. का. ६ प्र. ५ अ. ६) इति।

एष ते योनिरिति मन्त्रस्यानाम्नातत्वान्नात्र गृहीतस्य सादनं सिद्धम्। किंतु तथैव प्रचारः। असन्नाद्गर्भाशयव्यतिरिक्तस्थानेऽपतितात्। यथा ग्रहान्तरं वषट्कारानुवषट्कारयोर्भिन्नं हूयते नात्र तथा किंतु सकृदेव। अनुवषट्कारे तु प्रजा अनुलक्ष्य रुद्रं क्रूरं प्रेरयेत्। अन्वीक्षणेऽध्वर्युरन्धो भवेत्। इत आरभ्य च्छन्दो लक्षणग्रन्थादुन्नेतव्यम्॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके द्वाविंशोऽनुवाकः॥२२॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 तृतीयसवने आदित्यं गृह्णाति - कदा चन स्तरीरसीति पथ्यया पञ्चपदया । यथोक्तं - 'पथ्या पञ्चभिरष्टाक्षरैः' इति । इयं तु शङ्कुमतीनामपथ्या, यथोक्तं - 'एकस्मिन् पञ्चके छन्दश्शङ्कुमती' इति । पथ्या बृहती वा जागततृतीयपादत्वात् । हे इन्द्र न कदाचिदपि त्वं स्तरीरसि धनानां छादकोसि । 'अवितॄस्तृतन्त्रिम्य ईः' इतीप्रत्ययः । किमनाच्छादनमात्रमेव? नेत्याह - सश्चसि दाशुषे, सश्चतिर्गतिकमा, दाशुषे हवींषि दत्तवते सश्चसि दित्सया । 'क्रियाग्रहणं कर्तव्यम्' इति संप्रदानत्वम् । दातुमिति वा पदाध्याहारः । दाशुषे दातुं सश्चसि धनानि दातुं दाशुषस्सकाशं त्वमेव सश्चसि । किमुच्यते सकृद्ददासीति - हे मघवन् तव देवस्य देवनादिगुणयुक्तस्य दानं भूयोप्युपपृच्यते उपगृह्यते पुनः पुनरपि समुपपाद्यते । न सकृद्दत्तमिति स्मर्यते, किन्तु पुनः पुनर्दीयत एवेति । पृची सम्पर्के । अत्र भूय इन्नुत इति चतुर्थः पादः । 'प्रसमुपोदः पादपूरणे' इत्युपशब्दस्य द्विर्वचनम् । 'अनुदातं च' इति द्वितीयो निहन्यते । इच्छब्दोवधारणार्थः उपपृच्यत एव । नुशब्दः प्रसिद्धौ; नन्वेवं खलु सर्वदा क्रियते । नु इति पुराणवचनो वा, पुराणोयं तव स्वभावः । द्वितीय इच्छब्दोप्यर्थः, भूयोपि । द्वियीयो नुशब्दो हेतौ, यस्मादेवं तस्मान्न कदा चन स्तरीरसीति । तस्मादेवंप्रभावस्त्वमस्मानप्यनुगृहाणेत्याशिषा समाप्यते ॥

इमामनुड्रुत्योपयामगृहीतोस्यादित्येभ्यस्त्वेति गृह्णाति । 'अदितिः पुत्राकामा` इत्यादि ब्राह्मणम् ॥

2 शृतातंक्येन श्रीणाति - कदा चन प्र युच्छसीति पथ्ययैव पूर्वोक्तया । अत्र तु तृतीयपादः पञ्चाक्षरः । आदित्यग्रह एवात्रामन्त्र्यते । हे ग्रह कदाचिदपि प्रयुच्छसि न युच्छसि । युच्छप्रमादे । कस्यां चिदप्यवस्थायां स्वकार्यं प्रति प्रमादं न करोषीत्यर्थः । यागसाधनमेव स्वकार्यमस्य । अत्र धात्वर्थस्य निवृत्तिं प्रशब्द आचष्टे, यथा प्रस्मरणं प्रस्थानं प्रपूरणमिति । यद्वा - किंशब्दोत्र गम्यमानार्थो न प्रयुज्युते । किं कदाचित्त्वं प्रयुछसि प्रमाद्यसि, न खत्वेतत्सम्भाव्यते सर्वदावहितत्वादित्यर्थः । तदेवावधानं दर्शयितुमाह - उभे खलु जन्मनी वर्तमानभविष्यल्लक्षणे निपासि नियमेन रक्षसि, ऐहिकादामुष्मिकाच्चानर्थाद्यजमानं रक्षसीत्यर्थः । अधुनादित्यग्रहमेव चतुर्थसवनत्वेन रूपयन्नामन्त्रयते - हे आदित्य । 'दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः' । आदित्यग्रहतुरीय चतुर्थ चतुर्थसवनात्मन् । आदित्यग्रहमेव चतुर्थं सवनं रूपयित्वा स्तौति । तृतीयसवनात्प्रागेवेदं चतुर्थं सवनं सम्पद्यते, यदिदं तव ग्रहणमिति । अस्य च सवनस्य सवनान्तरेभ्यो विशिष्टतामाह - ते तव खल्विदं सवनमिन्द्रियं इन्द्रजूष्टम् । 'इन्द्रियमिन्द्रलिङ्गम्' इत्यादिना निपात्यते । इन्द्रप्रीतिकरमित्यर्थः । पुनश्च सवनं विशिनष्टि - दिवि आदित्ये द्युलोके वा अमृतत्वेनातस्थौ आस्थितम् । नास्मिन् मृतं मरणमस्य वा नास्तीत्यमृतम् अमरणहेतुरित्यर्थः । 'नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । यद्वा - दिवि हविर्धाने आतस्थौ, इदं सवनं हविर्धान एव समाप्यत इत्यर्थः । 'द्यौर्हविर्धानम्' इति च मन्त्रवर्णः । 'ऊडिदम्' इत्यादिना दिवो विभक्तिरुदात्ता । यद्वा - 'तस्यै चत्वार आदित्या अजायन्त' इति तुरीयादित्योस्त्येव, स एवात्रामन्त्र्यते ॥

इमामनुद्रुत्योपयामगृहीतोस्यादित्येभ्यस्त्वा जुष्टं गृह्णामीति श्रीणाति । उपयामगृहीतोसीत्यस्य पूर्वत्राम्नातस्य उत्तरयानया ऋचा सम्बन्धः । 'पशवो वा एते यदादित्य ऊर्ग्दधि' इत्यादि ब्राह्मणम् ॥

3 पुनरपि तस्मिन्नेव सोमं गृह्णाति - यज्ञो देवानामिति चतुष्पदया त्रिष्टुभा । 'तिसृभिर् ऋग्भिर्गृह्णाति' इति ब्राह्मणम् ॥ अयं यज्ञोस्मदीयं धनं देवानां सुम्नं सुखं प्रति एति एतु प्राप्नोतु सुखं सम्पादयतु । यद्वा - अयं देवानां यज्ञः अस्माकं सुखं प्रत्येतु प्रत्याययतु । किञ्च - हे आदित्यासः आदित्याः अस्मान्मृडयन्तस्सुखयन्तो भवत । असुन्, आमन्त्रितस्याविद्यमानत्वात्तिङन्तं न निहन्यते । 'छन्दस्युभयथा' इति शतुरार्धधातुकत्वे 'अदुपदेशात्' इति लसार्वधातुकानुदात्तत्वाभावः । किञ्च - वः यष्माकं या सुमतिः शोभनात्मिकानुग्रहपरा मतिः सार्वाची अस्मदभिमुखी आववृत्यात् आवर्तताम् । वृतेर्व्यत्ययेन परस्मैपदम्, लिङि यासुट्, 'बहुलं छन्दसि' इति शपश्लुः । अर्वागञ्चतीत्यर्वाची, ऋत्विगादिना क्विन्, 'अञ्चतेश्चोपसङ्ख्यानम्' इति ङीप्, 'मन्क्तिन्व्याख्यान' इत्यादिना सुमतिशब्दस्योत्तरपदान्तोदात्तत्वम् । पुनरपि सुमतिर्विशेष्यते - या युष्माकं सुमतिः अंहोः हननशीलस्य दुरात्मनः चित् स्ववच्छेत्री । छिदेः कर्तरि क्विप्, आदिवर्णव्यत्ययः । हन्तीत्यंहुः, हन्तेरौणादिक उप्रत्ययः । आद्यो हकारोन्तेवतिष्ठते, नकारस्यानुस्वारः । यद्वा - अहि गतौ, स एव प्रत्ययः । गत्यर्थाश्च बुद्ध्यर्थाः । पुरुषस्य या चित् चेतिः । चेततेः क्विप् । ज्ञाता हि मतिस्सुमतिर्भवतीति भावः । व्युत्पत्तिद्वयेपि चिच्छब्दस्यानुदात्तत्वं मृग्यम् । अथ ब्रूमः - चिदिति निपातः चादित्वादनुदात्तः, अवधाराणे वर्तते, इवार्थे वा । अंहोरेव ज्ञातुरिव वा या मतिः सा आवर्ततामिति । वरिवोवित्तरा च या मतिरसत् भवेत् । अस्तेर्लेङन्तस्य अडागमः । सा आवर्ततामिति । वरिवो धनं, तस्य वेदयित्री लम्भयित्री वरिवोवित् । विन्दतेर्ण्यन्तात्क्विपि, 'बहुलं संज्ञाछन्दसोः' इति णिलुक्, ततोतिशायने तरप्प्रत्ययः । ज्ञातुरेव हि मतिर्वरिवोवित्तरा भवति । तस्माद्या ईदृशी मतिर्भवति सा सुमतिरस्मानावर्ततामिति ॥

इमामनुद्रुत्योपयामगृहीतोस्यादित्येभ्यस्त्वेति गृह्णाति ॥

4 एनमुपांशुसवनेन श्रीणाति - विवस्व इति ॥ हे विवस्वः, विव इति धननाम, तद्वान्विवस्वान् 'ततो विवस्वानादित्योजायत' इति य उच्यते । रश्मिलक्षणैर्धनैस्तद्वान् । 'मतुवृसोः' इति रुत्वम् । आदित्य अदितेः पुत्र । 'नामन्त्रिते समानाधिकरणे' इति पूर्वस्याविद्यमानत्वनिषेधाद्द्वितीयं निहन्यते । एष ते तव सोमपीथः सोमपानम् । 'पातॄतुदिवचि' इत्यादिना थक्प्रत्ययः । तेनानेन मन्दस्व मादयस्व तव भ्रातृन् । 'तस्यै चत्वार आदित्या अजायन्त' इति चत्वार 'आदित्या बभूवुः, तेषां चैको विवस्वान्, य इहामन्त्र्यते । 'योतो जायाता अस्माकं स एकोसत्' इत्यदितिं प्रथमजा आदित्याः प्रार्थयांचक्रिरे । तस्मान्मन्दस्वेति मादयस्वेति व्याख्यायते । मदिस्तुतिमोदमदस्वप्नगतिषु । तेन सोमपीथेन त्वमपि तृप्य तृप्तो भव । ते तव तर्पयितारो वयमपि तृप्यास्म तृप्ता भूयास्म । आशिषि लिङ्, तिङः परत्वान्न निहिन्यते । किञ्च - या दिव्या वृष्टिः । दिवमर्हतीति 'छन्दसि च' इति यत्प्रत्ययः । ननु 'मन्त्रे वृष' इति क्तिन उदात्तत्वेन भवितव्यम् । भाव्यं भावे क्तिनः, इह तु करणे क्तिन् । तया हे सोम त्वां श्रीणामि मिश्रयामि । ननूपांशुसवनेन श्रीणातीत्युक्तं तत्कथं वृष्ट्या श्रीयत इति । नैष दोषः, 'वृष्टिकामस्य श्रीणीयात्' इति श्रयणस्व वृष्टिहेतुत्वादभेदोपचारः, वृष्टिहेतुनोपांशुसवनेन श्रीणामीति यावत् । 'यदि ताजक्प्रस्कन्देत्' इत्यादि ब्राह्मणम् ॥
इति चतुर्थे द्वाविंशः ॥