अनुवाकः 27 TS 1.4.27

(A27)

(बृह॒स्पति॑सुतस्य॒-पञ्च॑दश)

अनुवाकः 27 - Complete Audio

TS 1.4.27 - स्वरानुगामी

0:00 0:00
PS1.1 बृह॒स्पति॑सुतस्य त इन्दो इन्द्रि॒याव॑तः॒
PS1.2 पत्नी॑वन्तं॒ ग्रहं॑ गृह्णा॒म्यग्ना(3)इ पत्नी॒वा(3)
PS1.3 स्स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोमं॑ पिब॒
PS1.4 स्वाहा᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.27.1 TS 1.4.27.1
बृह॒स्पति॑सुतस्य त इन्दो इन्द्रि॒याव॑तः॒ पत्नी॑वन्तं॒ ग्रहं॑ गृह्णा॒म्यग्ना(3)इ पत्नी॒वा(3) स्स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोमं॑ पिब॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
बृह॒स्पति॑सुत॒स्येति॒ बृह॒स्पति॑ - सु॒त॒स्य॒ । ते॒ । इ॒न्दो॒ इति॑ । इ॒न्द्रि॒याव॑त॒ इती᳚न्द्रि॒य - व॒तः॒ । पत्नी॑वन्त॒मिति॒ पत्नी᳚ - व॒न्त॒म् । ग्रह᳚म् । गृ॒ह्णा॒मि॒ । अग्ना(3) इ । पत्नी॒वा(3) इति॒ पत्नी᳚ - वा(3)ः । स॒जूरिति॑ स - जूः । दे॒वेन॑ । त्वष्ट्रा᳚ । सोम᳚म् । पि॒ब॒ । स्वाहा᳚ ॥
पदसंख्या: 15
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे चतुर्थप्रपाठके सप्तविंशोऽनुवाकः)।

कल्पः – “उपयामगृहीतोऽसि बृहस्पतिसुतस्य त इत्युपांशुपात्रेण पात्नीवत-माग्रयणाद्गृहीत्वा न सादयत्यग्ना३ इ पत्नीवा३ इति वषट्कृते जुहोति नानु-वषट्करोत्यपि वोपांशु वषट्कुर्यात्” इति।

पाठस्तु – बृहस्पतीति। हे इन्दो सोम तव संबन्धिनं ग्रहं गृह्णामि। कीदृशम्। पत्नीवद्देवताकम्। कीदृशस्य तव। इन्द्रियावतो वीर्यवतः। बृहस्पतिर्यजमानः। बृहतो यज्ञस्य परिपालनात्। तेन सुतस्याभिषुतस्य। हे पत्नीवन्नग्ने त्वष्ट्रा देवेन सजूः सह सोमं पिब स्वाहा हुतमिदमस्तु।

पात्नीवतस्य ग्रहस्य पात्रं विधत्ते — “प्राणो वा एष यदुपाशुर्यदुपाशुपात्रेण प्रथमश्चोत्तमश्च ग्रहौ गृह्येते प्राणमेवानु प्रयन्ति प्राणमनूद्यन्ति” (सं. का. ६ प्र. ५ अ. ८) इति।

उपांशोः प्राणत्वं पूर्वमुक्तम्। वाचस्पतये पवस्वेत्यनेन गृहीतः प्रथमो ग्रहः। बृहस्पतिसुतस्येति गृह्यमाणश्चोत्तमो ग्रहः। यद्यपि दधिग्रहः पूर्वभावो तथाऽपि नासौ सोमग्रहः। अदाभ्यांशू सोमग्रहावपि न तौ नित्यौ। तस्मान्नित्येषु सामग्रहेषूपांशुरेव प्रथमः। हारियोजनस्य पश्चाद्भावित्वेऽप्यग्निष्टोमसाम्नि समाप्ते सति यज्ञशेषत्वेनानुष्ठानम्। तस्मादग्निष्टोमापेक्षया पात्नीवतस्योत्तमत्वम्।तयोः प्रथमोत्तमयोरुपांशुपात्रेण ग्रहणं कुर्यात्। तथा सति प्राणमेवानुसृत्य प्रयन्ति प्रारभन्ते। उद्यन्ति समापयन्ति।

पात्नीवतग्रहं विधत्ते — “प्रजापतिर्वा एष यदाग्रयणः प्राण उपाशुः पत्नीः प्रजाः प्र जनयन्ति यदुपाशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णाति प्रजानां प्रजननाय तस्मात्प्राणं प्रजा अनु प्र जायन्ते” (सं. का. ६ प्र. ५ अ. ८) इति।

पत्नीरिति प्रथमा। प्राणमनु प्राणयुक्ताः प्रजा उत्पद्यन्ते।

विहितं ग्रहं प्रशंसति — “देवा वा इतइतः पत्नीः सुवर्गं लोकमाजिगासन्ते सुवर्गं लोकं प्राजानन्त एतं पात्नीवतमपश्यन्तमगृह्णत ततो वै ते सुवर्गं लोकं प्राजानन्यत्पात्नीवतो गृह्यते सुवर्गस्य लोकस्य प्रज्ञात्यै” (सं. का. ६ प्र. ५ अ. ८) इति।

(देवाः) पत्नीरित इतः पात्नीवतग्रहमुपेक्ष्यान्यस्माद्ग्रहात् (स्वर्गं ज्ञातिमिच्छन्तोऽपि न प्रज्ञातवन्तः। पात्नीवतग्रहणेन तु प्रज्ञातवन्तः।) इत्येतद्ग्रहो गृह्यते।

एतद्गृहे घृतमेलनं विधत्ते — “स सोमो नातिष्ठत स्त्रीभ्यो गृह्यमाणस्तं घृतं वज्रं कृत्वाऽघ्नन्तं निरिन्द्रियं भूतमगृह्णन्तस्मात्स्त्रियो निरिन्द्रिया अदायादीरपि पापात्पुस उपस्तितरं वदन्ति यद्घृतेन पात्नीवत श्रीणाति वज्रेणैवैनं वशे कृत्वा गृह्णाति”(सं. का. ६ प्र. ५ अ. ८) इति।

नातिष्ठत स्त्रीदेवताकत्वमसहमानः स्वात्मानं न प्रकाशितवान्। अघ्नन्नताड-यन्। निरिन्द्रियं भूतं निर्वीर्यं जातम्। यस्मात्स्त्रीदेवताभ्यो गृह्यमाणः सोमो निःसामर्थ्यस्तस्माल्लोके स्त्रियः सामर्थ्यरहिता अपत्येषु दायभाजो न भवन्ति। पापात्पतितादपि पुंसोऽप्युपस्तितरं क्षीणतरं स्त्रीस्वरूपं वदन्ति।

आम्नातस्य बृहस्पतिसुतस्येति मन्त्रस्य शेषं पूरयित्वा व्याचष्टे — “उपयामगृहीतोऽसीत्याहेयं वा उपयामस्तस्मादिमां प्रजा अनु प्र जायन्ते” (सं. का. ६ प्र. ५ अ. ८) इति।

उपेताः प्रजा यच्छति उत्पादधारणादिना व्यवस्थापयतीत्युपयामो भूभागविशेषः।

बृहस्पतिशब्दस्यैव प्रयोगेऽभिप्रायमाह — “बृहस्पतिसुतस्य त इत्याह ब्रह्म वै देवानां बृहस्पतिब्रर्ह्मणैवास्मै प्रजाः प्र जनयति” (सं. का. ६ प्र. ५ अ. ८) इति।

इन्दुशब्दो द्रवत्वसाम्येन रेत उपलक्षयतीत्याह — “इन्दो इत्याह रेतो वा इन्दू रेत एव तद्दधाति” (सं. का. ६ प्र. ५ अ. ८) इति।

इन्द्रियशब्देन तत्कार्यभूताः प्रजा उपलक्षन्त इत्याह — “इन्द्रियाव इत्याह प्रजा वा इन्द्रियं प्रजा एवास्मै प्र जनयति” (सं. का. ६ प्र. ५ अ. ८) इति।

अग्निशब्दपत्नीवच्छब्दयोरभिप्रायं दर्शयति – “अग्ना३ इत्याहाग्निर्वै रेतोधाः पत्नीव इत्याह मिथुनत्वाय” (सं. का. ६ प्र. ५ अ. ८) इति।

त्वष्टृशब्दप्रयोजनमाह — “सजूर्देवेन त्वष्ट्रा सोमं पिबेत्याह त्वष्टा वै पशूनां मिथुनाना रूपकृद्रूपमेव पशुषु दधाति” (सं. का. ६ प्र. ५ अ. ८) इति।

पात्नीवतग्रहस्य होममन्त्रे त्वष्टुः परामर्शो न युक्त इति शङ्कां वारयति — “देवा वै त्वष्टारमजिघासन्त्स पत्नीः प्रापद्यत तं न प्रति प्रायच्छन्तस्मादपि वध्यं प्रपन्नं न प्रति प्र यच्छन्ति तस्मात्पात्नीवते त्वष्ट्रेऽपि गृह्यते”(सं. का. ६ प्र. ५ अ. ८) इति।

यस्मात्पत्नीः शरणं गतस्तस्मात्त्वष्टा पत्नीरनुभागी भवति।

सादनस्य प्रसक्तौ तद्वारयति — “न सादयत्यसन्नाद्धि प्रजाः प्रजायन्ते” (सं. का. ६ प्र. ५ अ. ८) इति।

अनुवषट्कारे तूपांशुत्वगुणं विधत्ते — “नानु वषट्करोति यदनुवषट्कुर्याद्रुद्रं प्रजा अन्ववसृजेद्यन्नानुवषट्कुर्यादशा-न्तमग्नीत्सोमं भक्षयेदुपाश्वनु वषट्करोति न रुद्रं प्रजा अन्ववसृजति शान्तम-ग्नीत्सोमं भक्षयति” (सं. का. ६ प्र. ५ अ. ८) इति।

अन्ववसृजेदनुप्राप्य सृष्टिं वारयेत्। अशान्तमनिष्टकरम्।

अग्नीन्नेष्ट्रोरध्वर्योः प्रैषमन्त्रमुत्पादयति — “अग्नीन्नेष्टुरुपस्थमा सीद नेष्टः पत्नीमुदानयेत्याहाग्नीदेव नेष्टरि रेतो दधाति नेष्टा पत्नियाम्” (सं. का. ६ प्र. ५ अ. ८) इति।

हे आग्नीध्र नेष्टुः समीपमागत्योपविश। हे नेष्टः पत्नीमुत्थाप्येहाऽऽनय। अनेन प्रैषद्वयेन रेतः प्रजोत्पादनसामर्थ्योपेतं स्थापितं भवति।

नेष्टुकारयितृकमुद्गातृकर्तृकं पत्नीविषयं दर्शनं विधत्ते — “उद्गात्रा सं ख्यापयति प्रजापतिर्वा एष यदुद्गाता प्रजानां प्रजननाय” (सं. का. ६ प्र. ५ अ. ८) इति।

पत्नीकर्तृकं पन्नेजनीसंज्ञकजलस्य प्रवर्तनं विधत्ते — “उप उप प्र वर्तयति रेत एव तत्सिञ्चति” (सं. का. ६ प्र. ५ अ. ८) इति।

प्रवर्तनाय तज्जलप्रक्षेपस्य स्थानं विधत्ते – “ऊर्णोप प्र वर्तयत्यूरुणा हि रेतः सिच्यते” (सं. का. ६ प्र. ५ अ. ८) इति।

ऊरुप्रदेशे वस्त्रापनयनं विधत्ते — “नग्नंकृत्योरुमुप प्र वर्तयति यदा हि नग्न ऊरुर्भवत्यथ मिथुनी भवतोऽथ रेतः सिच्यतेऽथ प्रजाः प्र जायन्ते” (सं. का. ६ प्र. ४अ. ८) इति।

अथ मीमांसा।

तृतीयाध्यायस्य द्वितीयपादे चिन्तितम् —

“द्विदेवशेष आदित्यस्थाल्या आग्रयणाभिधाम्।

स्थालीं प्राप्तस्ततः पात्नीवतस्य ग्रहणे सति॥

तद्भक्षणे द्विद्वाः किं सार्धं पात्नीवतेन ते।

उपलक्ष्या न वा पूर्वन्यायेनास्तूपलक्षणम्॥

अन्य आग्रयणात्पात्नीवतो नैतस्य विद्यते।

आकाङ्क्षा पूर्वदेवेषु पत्नीवानेव लक्ष्यते” इति।

ऐन्द्रवायवादयो द्विदेवत्याः। तेषां शेष आदित्यस्थालीमागच्छति। पुनरपि तस्याः स्थाल्या आग्रयणस्थालीमागच्छति। तस्या आग्रयणस्थाल्याः पात्नीवतो गृह्यते। तस्य पात्नीवतस्य भक्षण इन्द्रवायवादय उपलक्षणीयाः। पूर्वाधिकरणे यथा मित्रावरुणादिभिः सहेन्द्र उपलक्षितस्तद्वदिति प्राप्ते ब्रूमः – “यदुपांशु-पात्रेण पात्नीवतमाग्रयणाद्गृह्णाति” इत्याग्रयणपात्रस्यापादानत्वश्रवणात्ततो निःसृतस्य सोमरसस्य तत्संबन्धेऽपेते सति पश्चात्पत्नीवद्देवतायै ग्रहणं भवति। तथा सत्यत्यन्तभिन्नस्य पात्नीवतस्य पूर्वदेवेष्वाकाङ्क्षा नास्ति। पूर्वाधिकरणो-क्तस्तु पुनरभ्युन्नतिः सोम ऐन्द्रशेषेण संसृष्टः। तस्य संसृष्टस्य भक्षणे मित्राव-रुणादीनामिवेन्द्रस्यापि संबन्धो नापैतीति वैषम्यम्। तस्मात्पात्नीवतभक्षण इन्द्रवाय्वादयो नोपलक्षणीयाः।

तत्रैवान्यच्चिन्तितम् —

“सह पत्नीवता त्वष्टा तद्ग्रहे लक्ष्यते न वा।

सह त्वष्ठ्रा पिबेत्युक्तेर्देवत्वात्सोऽपि लक्ष्येत॥

सहत्वमात्रं त्वष्टुः स्यान्न पातृत्वमशब्दनात्।

चोदनाया अभावाच्च न देवोऽतो न लक्ष्यते”इति।

तस्मिन्नेव पात्नीवतग्रहे शेषभक्षणमन्त्रे पत्नीवता सह त्वष्टाऽप्युपलक्षणीयः कुतः। त्वष्टुरपि तद्देवत्वात्। तच्च होममन्त्रादवगतम्। “अग्ना३ इ पत्नीवा३: सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहा” इत्यास्मिन्मन्त्रे पत्नीवन्तमग्निं प्लुतान्तेन पदेन संवोद्य त्वष्ट्रा देवेन सह पिबेत्यभिधानात्पातृत्वेन पत्नीवत इव त्वष्टुस्तद्देवत्वम्।

ततः पत्नीवत्त्वष्टृपीतस्येत्युपलक्षणमिति प्राप्ते ब्रूमः पानकाले सहावस्थानमात्रं त्वष्टुः सजूरित्यनेन पदेन प्रतीयते न तु पातृत्वम् असंबोधितस्य त्वष्टुः पिबेत्यनेन शब्देन सामानाधिकरण्याभावात्। न च पातृसहभावमात्रेण पातृत्वं, “सहैव दशभिः पुत्रैर्भारं वहति गर्दभी” इत्यत्र पुत्राणां वोढृत्वादर्शनात्। आस्तां मन्त्रः, विधिबलात्त्वष्टुर्देवत्वमिति चेन्न। “पात्नीवतमाग्रयणाद्गृह्णाति” इत्यत्र त्वष्टुरप्रतीतेः। तस्माददेवत्वात्तवष्टा नोपलक्षणीयः।

(तत्रैवान्यच्चिन्तितम्

“पत्नीवन्तस्त्रयस्त्रिंशद्देवास्तान्मादयेत्यमी।

लक्ष्या न वा याज्ययोक्तेर्देवत्वादुपलक्षणम्॥

एकोऽग्निर्यजमानेन मादितोऽन्ये तु वह्निना।

अतोरग्नेरेव देवत्वान्नान्येषामुपलक्षणम्॥

तस्यैव पात्नीवतग्रहस्य याज्यायामग्निं संबोद्य पत्नीवन्नामधारिणस्त्रयस्त्रिंशद्दे-वान्मादयेत्यभिधीयते – “पत्नीवतस्त्रिंशतं त्रींश्च देवानुष्वधमावह मादयस्व” इति। अनुष्वधमनुप्रदानम्। अत्र हूयमानेन सोमरसेन मादनीयत्वात्त्रयस्त्रिंशतां तद्देवत्वम्। अतस्तेऽपि भक्षणे लक्षणीया इति चेत्, न। यजमानेन मादनीयस्याग्नेरेव तद्देवत्वात्। त्रयस्त्रिंशद्देवास्तु वह्निना माद्यन्त इति न तेषामत्र देवत्वम्। तस्मान्नोपलक्षणम्)॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके सप्तविंशोऽनुवाकः॥२७॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 उपांशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णाति - बृहस्पतिसुतस्येति ॥ उत्तरया जुहोति । तत्र प्रथमा त्रिपदा गायत्री, द्वितीया द्विपदा षोडशाक्षरा स्वाहाकारान्ता स्वयं यजुः । तत्राग्ना3इ पत्नीवा3 इत्युभयत्रापि 'दूराद्धूते च' इत्युदात्तप्लुतः, 'एचोप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्योत्तरस्येदुतौ' इति पूर्वस्य प्लुतविकार इकारः । स च छन्दस्सङ्ख्याने नाद्रियते, उत्तरस्य पत्नीवा इत्यस्य 'मतुवसोः' इति रुत्वम्, द्वयोरपि षाष्ठिकमामन्त्रिताद्युदात्तत्वम्, द्वितीयस्यापि पूर्वस्याविद्यमानत्वात् प्लुतस्योदात्तस्यासिद्धत्वात् वर्ज्यमानस्वरेण निवृत्तिः । तत्र बृहस्पतिसुतस्येति प्रथमा व्याख्यायते । सोम उच्यते । इन्दो सोम ते तव बृहस्पतिसुतस्य बृहस्पतिना ब्रह्मणैव सुतस्य । यद्वा - बृहतो महतो यज्ञाख्यस्य कर्मणः पत्या पालयित्रा यजमानेन सुतस्याभिषुतस्य । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम्, पूर्वपदं च वनस्पत्यादि, तस्यच सुट्स्वरावुक्तौ, तत्र वृत्तिविषये बृहच्छब्द आद्युदात्तः । ईन्द्रियावतः वीर्यवतः । 'मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ' इति दीर्घः । तवैकदेशेन पत्नीवन्तं ग्रहं गृह्णामि । 'छन्दसीरः' इति मतुपो वत्वम् ॥
2 अथ द्वितीया - हे अग्ने पत्नीवन् देवेन त्वष्ट्रा सजूः समानप्रीतिः । नास्य पानेन्वयः । 'ससजुषोः' इति रुत्वम् । सोमं पिब । द्वौ प्रत्येकमुच्येते । स्वाहा स्वाहुतमिदं तवास्तु । 'देवा वा इतैतः पत्नीः' इत्यादि ब्राह्मणम्, 'स सोमो नातिष्ठत स्त्रीभ्यो गृह्यमाणः' इत्यादि च ॥
इति चतुर्थे सप्तविंशः ॥